History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c45.s1: एकादशः पटलः।
History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c45.s1
- Language
- English
एकादशः पटलः।
c45.s1.1
छागास्थिभस्मनिर्मितमूषां कृत्वामलकाकारां ।
दलयोगे घनरन्ध्रां टंकणविषगुञ्जाक्षतलेपां ॥
c45.s1.2
[टीका—अथ ग्रन्थकारयितुर्वंशवर्णनमाह—]
c45.s1.3
शीतांशुवंशसम्भवहृहयकुलजन्मजनितकुल⁸महिमा।
c45.s1.4
⁸ कुल is not found in B
c45.s1.5
जयति श्रीमदनरथः¹ किरातनाथो रसाचार्य्यः ॥
[टीका—अथ चास्य कारयितुर्गुणवर्णनमाह—]
यस्य स्वयमवतीर्णा रसविद्या सकलमङ्गलाधारा² ।
परमश्रेयसहेतुः श्रेयसि परमेष्ठिनः पूर्व्वम्³ ॥
येन चतुर्व्वर्ण्यम्लेच्छादिव्याधादिलब्धसत्वाभम्⁴ ।
दक्षिणरसा गृहीता⁵ आदिवराहेणेव महाप्रलये ॥⁶
नष्टशरीरविवर्णा हीनाङ्गाः कुष्ठिनो गुणाद्यस्य ।
अभिनवसोमेश्वरतामापुरपि पुनर्नवैरङ्गैः ॥
[टीका—कर्त्ता स्वनाममहत्त्वं सूचयन्नाह—]
तस्मात् किरातनृपतेः बहुमानमवाप्य रससुकर्मरतः⁷ ।
रसहृदयाख्यं तन्त्र⁸ विरचितवान् भिक्षुगोविन्दः⁹ ॥
नम्वा मङ्गलविष्णोः सुमनोविष्णोः सुतेन तन्त्रोऽयम्¹⁰ ।
श्रीगोविन्देन कृतः¹¹ तथागतः श्रेयसे भूयात् ॥¹²
c45.s1.6
¹ स जयति श्रीमदनथ, a variant in B,
c45.s1.7
² C reads सकलमङ्गलाचारा ।
c45.s1.8
³ Of the latter half C has only परं सहेतु ।
c45.s1.9
⁴ C reads चतुर्व्वर्ण्यम्लेच्छादिव्यादावलब्धसत्वाभम्, which seems to be incorrect Cf Patala 1, in which the following verse is given --किरातगोपादिकतापसाद्यवनेचराक्षात्-कुशलास्तथान्ये । विदति नानाविधभेषजाना प्रमाणवर्णप्रकृतिनामजातीः ॥
c45.s1.10
⁵ दशनिन्दुरस गृहीत्वा is the incorrect reading in C [In the case of किरातनाथ रसा, गृहीता, 1 e, collected रसs--mercury, minerals, &c and दक्षिण is favorable, and in the case of आदिवराह रसायगृहीता, 1 e , lifted up the earth ]
c45.s1.11
⁶ This verse and the next are not found in B.
c45.s1.12
⁷ C reads रसकर्मोपदेशतो दृष्टा, which destroys the metro
c45.s1.13
⁸ C reads रसहृदयेष्संतं, which seems to be incorrect
c45.s1.14
⁹ C reads विरचिताथा भगवद्गोविन्दः, which is incorrect
c45.s1.15
¹⁰ C has रसाटव्यनाम तन्त्रोयम्, which is incorrect.
c45.s1.16
¹¹ C has श्रीमद्भगवद्गोविन्देन कृतं, which mars the metre
c45.s1.17
¹² This verse and the next are not found in B
c45.s1.18
अष्टादशसंस्कारं रसेन्द्रदेवस्य दिव्यतनु दृष्ट्वा।
लिखितमिदं पुण्यतमं रसहृदयमवाप्यते सकलम् ॥
c45.s1.19
इति श्रीमद्भगवद्गोविन्दविरचितं रसहृदयं समाप्तम्¹
c45.s1.20
¹ MS. A ends abruptly with the colophon, which runs thus :—इति श्रीगोविन्द-भगवत्पादविरचिते रसह्ददये जीर्णरसक्रियाधिकार एकविंशतितमः पटलः ॥ The author's account of himself is altogether wanting in it. B has "इति सकलरसवैद्यकुलकिरीट-भूषायमाणारुणपादपद्मराग सकलविद्यापारीण श्रीमद्भिक्षुगोविन्दकृतौ रसहृदयः समाप्तः। इति श्रीमत्कुरलवंशपयोदधिसुधाकरमित्रमहीशात्मजश्रीचतुर्भुजविरचिवाया . . . खण्डे बाला-न्वयवोधिकाख्याया रसहृदयटीकाया रसप्रशंसात्मक एकोनविंशोऽववोधः। इति श्रीः” ॥
c45.s1.21
शुभमस्तु।
c45.s1.22
संवत् १६०४ समये ज्येष्ठ वदि १३ भौमे जगन्नाथभट्ट लेखि॥ श्रीराम हाल संवत् १८८० पौष वदि ३ भौमे।
Linked texts (1)
- Rasahṛdaya — Govinda, Sanskrit