Pramāṇa · Search · About · API

History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c45.s1.5

History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c45.s1.5

Language
English

c45.s1.5

जयति श्रीमदनरथः¹ किरातनाथो रसाचार्य्यः ॥
[टीका—अथ चास्य कारयितुर्गुणवर्णनमाह—]
यस्य स्वयमवतीर्णा रसविद्या सकलमङ्गलाधारा² ।
परमश्रेयसहेतुः श्रेयसि परमेष्ठिनः पूर्व्वम्³ ॥
येन चतुर्व्वर्ण्यम्लेच्छादिव्याधादिलब्धसत्वाभम्⁴ ।
दक्षिणरसा गृहीता⁵ आदिवराहेणेव महाप्रलये ॥⁶
नष्टशरीरविवर्णा हीनाङ्गाः कुष्ठिनो गुणाद्यस्य ।
अभिनवसोमेश्वरतामापुरपि पुनर्नवैरङ्गैः ॥
[टीका—कर्त्ता स्वनाममहत्त्वं सूचयन्नाह—]
तस्मात् किरातनृपतेः बहुमानमवाप्य रससुकर्मरतः⁷ ।
रसहृदयाख्यं तन्त्र⁸ विरचितवान् भिक्षुगोविन्दः⁹ ॥
नम्वा मङ्गलविष्णोः सुमनोविष्णोः सुतेन तन्त्रोऽयम्¹⁰ ।
श्रीगोविन्देन कृतः¹¹ तथागतः श्रेयसे भूयात् ॥¹²