History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c48.s1.17
History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c48.s1.17
- Language
- English
c48.s1.17
उर्द्धग्निं ज्वालयेत् सम्यक् सोऽयं गजपुटो भवेत् ॥
इति गजपुटः ॥
उपलं पिष्टकं छाणमुत्पलञ्च गरिण्डकम्।
छागोपलसारौ च तचरा¹ छागणाभिधाः ॥
अरत्निमात्रे कंडे च वाराहपुटमुच्यते² ॥
इति वाराहपुटः ॥
वितस्तिद्वयमानेन गत्तं चैवचतुरस्रकम्³।
कुक्कुटाख्यं पुटं विद्रादौषधानाञ्च साधनम् ॥
इति कुक्कुटपुटः ॥
छागणैरष्टभिः सम्यक् कपोतपुटमुच्यते ॥
इति कपोतपुटः ॥
तुषैर्वा गोवरैर्वापि रसभस्मप्रसाधनम् ।
माणिकाहयमानेन गोवरं पुटमुच्यते ॥
इति गोवरपुटः ॥
मृद्भाण्डे तु प्रपूर्यैवं मध्ये द्रव्यं तु विन्यसेत् ।
अधस्ताज्ज्वालयेद्वह्निं मृद्भाण्डपुटमुच्यते ॥
इति (मृद्)भाण्डपुटः ॥
गत्तं तु बालुकापूर्गे मध्ये द्रव्यं तु विन्यसेत् ।
उपरिष्टादधस्ताच्च वह्निं कुर्य्यात् प्रयत्नतः ।
तद्वालुकापुटं सम्यगुच्यते शास्त्रकोविदैः ॥
इति बालुकापुटः ॥