History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c48.s1.6
History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c48.s1.6
- Language
- English
c48.s1.6
पारदो रसकश्चैव देहलोहकरावुभौ । नागार्जुनेन कथितौ सिद्धौ श्रेष्ठौ रसावुभौ ॥ कृतौ येनाग्निसहनौ सूतखर्परकौ शुभौ । तेन स्वर्णमयी सिद्धिरर्जिता¹ च न संशयः ॥ रसको द्रावितः सम्यक् निक्षिप्तो रसपूरके । निर्मलत्वमवाप्नोति सप्तवारं निमज्जितः² ॥ काञ्जिके वाथ तक्र³ वा नृमूत्रे³ मेषमूत्रके । द्रावितं ढालितं⁴ सम्यक् खर्परं परिशुध्यति ॥ खर्परं रेचितं शुद्धं स्थापितं नरमूतके । रञ्जयेन्मासमेकं हि ताम्रं स्वर्णप्रभं वरम् ॥ वचाहरिद्रात्रिफला-गृहधूमैः ससैन्धवैः । भल्लातकैष्टङ्गणैश्च क्षारैरम्लैश्च मर्दितम्⁵ ॥ पादंशसंयुतैर्मूषां वृन्ताकफलसन्निभाम् । निरुध्य शोषयित्वा च मूषामुखोरि न्यसेत् ॥ प्रध्माते खर्परे ज्वाला सिता नीला भवेद्यटि । लोहसंदंशके मूषां धृत्वा कृत्वा ह्यधोमुखीय् ॥ भूम्यामाढालयेत् सत्त्वं यथा नाळं न भज्यते । तदा सीसोपमं⁶ सत्त्वं पतत्येव न संशयः ॥ अनेनैव प्रकारेण वारत्रयहते सति । विनिःसरेत् सर्व्वसत्त्वं सचिंगु(?) गुरुणोदितम् ॥
Linked texts (1)
- Rasaratnasamuccaya — Vāgbhaṭa (alchemist), Sanskrit