History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c52.s3.1
History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c52.s3.1
- Language
- English
c52.s3.1
विमलस्त्रिविधः प्रोक्तो हेमाद्यस्तारपूर्व्वकः।
तृतीयः कांस्यविमलस्तत्तत्कान्त्या स लक्ष्यते ॥ 96.
वर्त्तुलः कोणसंयुक्तः स्निग्धश्च फलकान्वितः ॥ 97.
गन्धाश्मलकुचाद्यैश्च म्रियते दशभिः पुटैः ॥ 100
सटङ्गलकुचद्रावैर्मेषशृङ्ग्याश्च भस्मना।
पिष्ट्वा मूषोदरे लिप्तः संशोष्य च निरुध्य च ॥
षट्प्रस्थकोकिलैर्ध्मातो विमलः सीससन्निभः²।
सत्त्वं मुञ्चति तद्युक्तो रसः स्यात्म रसायनः ॥ 101-102.
विमलं शिग्रुतोयेन काञ्चीकासीसटङ्गणैः।
वश्यकन्दसमायुक्तं भावितं कदलीरसैः ॥
मोचकक्षारसंयुक्तं ध्मापितं मूकभूषकम्।
सत्त्वं चन्द्रार्कसङ्काशं प्रयच्छति न संशयः ॥ 103-104.