Pramāṇa · Search · About · API

History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c52.s5: अथ रसकः—

History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c52.s5

Language
English

अथ रसकः—

c52.s5.1

रसको द्विविधः प्रोक्तो दुर्दुरः कारवेल्लुकः ।
सदलो दुर्दुरः प्रोक्तो निर्दलः कारवेल्लुकः ॥ 149.
खर्परः परिसन्तप्तः सप्तवारं निमज्जितः ।
बीजपूररसस्यान्तर्निर्मलत्वं समश्नुते ॥
नृमूत्रे वाऽश्वमूत्रे वा तक्र वा काञ्जिकेऽथवा ।
प्रताम्य मज्जितं सम्यक् खर्परं परिशुष्यति ॥ 154-155
हरिद्रात्रिफलारालसिन्धुधूमैः सटङ्कणैः ।
सारुष्करैश्च पाठाद्यैः साम्लैः सम्मर्च खर्परम् ॥
लिप्तं वृन्ताकमूषायां शोषयित्वा निरुध्य च ।
मूषां मूषोपरि³ न्यस्य खर्परं प्रधमेत्ततः ॥
खर्परे प्रहते ज्वाला भवेन्नीला सिता यदि ।
तदा सन्दंशतो मूषां धृत्वा कृत्वा त्वधोमुखम् ।
शनैरास्फालयेद्भूमो यथा नालं न भज्यते ॥
वङ्गाभं पतितं सत्त्वं समादाय नियोजयेत् ॥ 157-161
लाक्षागुडामुरीपथ्याहरिद्रामर्जटङ्कणैः ।
सम्यक् सञ्चूर्ण्य तत्पक्वं गोदुग्धेन घृतेन च ।
वृन्ताकमूषिकामध्ये निरुध्य गुटिकाकृति ।
ध्मात्वा ध्मात्वा समाकृष्य ढालय

c52.s5.2

यद्वा जलयुतां स्थालीं निखनेत्कोष्टिकोदरे ।
सच्छिद्रं तन्मुखे मल्ल ं तन्मुखेऽधोमुखं¹ क्षिपेत् ।
मूषोपरि शिखित्रांश्च प्रक्षिप्य प्रधमेदृढम् ।
पतितं स्थालिकानीरे सत्त्वमादाय योजयेत् ॥ 165-166.
तत्सत्त्वं तालकोपेतं प्रक्षिप्य खलु खर्परे ।
मर्दयेल्लोहदण्डेन भस्मीभवति निश्चितम् ॥ 167-168.

c52.s5.3

¹ तन्मुखेऽधोमुखं, a variant in the Poona ed, which we have adopted