History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c52.s5.1
History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c52.s5.1
- Language
- English
c52.s5.1
रसको द्विविधः प्रोक्तो दुर्दुरः कारवेल्लुकः ।
सदलो दुर्दुरः प्रोक्तो निर्दलः कारवेल्लुकः ॥ 149.
खर्परः परिसन्तप्तः सप्तवारं निमज्जितः ।
बीजपूररसस्यान्तर्निर्मलत्वं समश्नुते ॥
नृमूत्रे वाऽश्वमूत्रे वा तक्र वा काञ्जिकेऽथवा ।
प्रताम्य मज्जितं सम्यक् खर्परं परिशुष्यति ॥ 154-155
हरिद्रात्रिफलारालसिन्धुधूमैः सटङ्कणैः ।
सारुष्करैश्च पाठाद्यैः साम्लैः सम्मर्च खर्परम् ॥
लिप्तं वृन्ताकमूषायां शोषयित्वा निरुध्य च ।
मूषां मूषोपरि³ न्यस्य खर्परं प्रधमेत्ततः ॥
खर्परे प्रहते ज्वाला भवेन्नीला सिता यदि ।
तदा सन्दंशतो मूषां धृत्वा कृत्वा त्वधोमुखम् ।
शनैरास्फालयेद्भूमो यथा नालं न भज्यते ॥
वङ्गाभं पतितं सत्त्वं समादाय नियोजयेत् ॥ 157-161
लाक्षागुडामुरीपथ्याहरिद्रामर्जटङ्कणैः ।
सम्यक् सञ्चूर्ण्य तत्पक्वं गोदुग्धेन घृतेन च ।
वृन्ताकमूषिकामध्ये निरुध्य गुटिकाकृति ।
ध्मात्वा ध्मात्वा समाकृष्य ढालय