History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c53.s4: अथ तुवरी—
History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c53.s4
- Language
- English
अथ तुवरी—
c53.s4.1
सौराष्ट्राश्मनि सम्भूता¹ मृत्स्ना सा तुवरी मता।
वस्त्रेषु लिप्यते यासौ मञ्जिष्ठारागबन्धिनी॥
* * फुल्लिका चेति द्वितीया परिकीर्त्तिता।
ईषत्पीता गुरुस्निग्धा * * *
निर्म्मोरा शुभ्रवर्णा च स्निग्धा साम्लापरा मता।
सा फुल्लतुवरी प्रोक्ता लेपात् ताम्रं चरेद्वयः॥ 59-62.
> काङ्क्षी कषाया कटुकाम्लकण्ठ्या
> केश्या व्रणघ्नी विषनाशनौ च।
> श्वित्रापह्ला नेत्रहिता त्रिदोष-
> शान्तिप्रदा पारदजारणी च॥ 63.
तुवरी काञ्जिके खिप्ता त्रिदिनाच्छुद्धिम्ऋच्छति।
क्षारारम्लैर्विमर्दिता ध्माता सत्त्वं मुञ्चति निश्चितम्॥ 64.
गोपित्तेन शत वारान् सौराष्ट्रीं भावयेत् ततः।
धमित्वा पातयेत् सत्त्वं क्रामणं चातिगुह्यकम्॥ 65.
c53.s4.2
¹ सौराष्ट्रास्मनि, a variant in the Poona ed, which also agrees with B and K.
c53.s4.3
अथ तालकम्—
c53.s4.4
हरितालं द्विधा प्रोक्तं पत्राख्यं¹ पिण्डसंज्ञकम् ।
स्वर्णवर्णं गुरु स्निग्धं तनुपत्रं च भासुरम् ॥ 66
खिन्नं कूष्माण्डतोये वा तिलक्षारजलेऽपि वा ।
तोये वा चूर्णसंयुक्ते डोलायन्त्रेण शुध्यति ॥ 69.
मधुखल्ये घनीभूते कषाये ब्रह्ममूलजे ।
त्रिवारं तालकं भाव्यं पिष्ट्वा मूत्रेऽथ माहिषे ॥
उपलैर्द्दशभिर्देयं पुटं रुद्ध्वाथ पेषयेत् ।
एवं द्वादशधा पाच्यं शुद्धं योगेषु योजयेत् ॥ 74-75
पन्नालकं रवेर्दुग्धैर्दिनमेकं विमर्दयेत् ।
क्षिप्त्वा षोडशिकातैले मिश्रयित्वा ततः पचेत् ॥
अनावृतप्रदेशे च सप्तयामाव
c53.s4.5
गोशृङ्गदरसमूतेषु घृतक्षौद्रवसासु च ।
भावितं बहुशस्तच्च शीघ्रं बध्नाति सूतकम् ॥ 105-107.