Pramāṇa · Search · About · API

History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c53.s4.1

History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c53.s4.1

Language
English

c53.s4.1

सौराष्ट्राश्मनि सम्भूता¹ मृत्स्ना सा तुवरी मता।
वस्त्रेषु लिप्यते यासौ मञ्जिष्ठारागबन्धिनी॥
* * फुल्लिका चेति द्वितीया परिकीर्त्तिता।
ईषत्पीता गुरुस्निग्धा * * *
निर्म्मोरा शुभ्रवर्णा च स्निग्धा साम्लापरा मता।
सा फुल्लतुवरी प्रोक्ता लेपात् ताम्रं चरेद्वयः॥ 59-62.
> काङ्क्षी कषाया कटुकाम्लकण्ठ्या
> केश्या व्रणघ्नी विषनाशनौ च।
> श्वित्रापह्ला नेत्रहिता त्रिदोष-
> शान्तिप्रदा पारदजारणी च॥ 63.
तुवरी काञ्जिके खिप्ता त्रिदिनाच्छुद्धिम्ऋच्छति।
क्षारारम्लैर्विमर्दिता ध्माता सत्त्वं मुञ्चति निश्चितम्॥ 64.
गोपित्तेन शत वारान् सौराष्ट्रीं भावयेत् ततः।
धमित्वा पातयेत् सत्त्वं क्रामणं चातिगुह्यकम्॥ 65.