History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c54: अथ चतुर्थोऽध्यायः ।
History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c54
- Language
- English
Contents
- c54.s1 अथ रत्नानि । — 11 parts
- c54.s2 अथ वैक्रान्तम्— — 1 part
अथ चतुर्थोऽध्यायः ।
अथ रत्नानि ।
c54.s1.1
अथ मणयः—
c54.s1.2
मणयोऽपि च विज्ञेयाः सूतबन्ध्यस्य कारकाः ।
c54.s1.3
वैक्रान्तः सूर्य्यकान्तश्च हीरकं मौक्तिकं मणिः ॥ चन्द्रकान्तस्तथा चैव राजावर्त्तञ्च सप्तमः । गरुड़ोद्गारकञ्चैव ज्ञातव्या मणयस्त्वमी ॥ पुष्परागं महानीलं पद्मरागं प्रवालकम् । वैदूर्य्यं च तथा नीलमिति च मणयो मताः ॥ 1-3
c54.s1.4
अथ वज्रम्—
c54.s1.5
वज्रं च त्रिविधं प्रोक्तं नरो नारी नपुंसकम् ।
c54.s1.6
पूर्वं पूर्व्वमिह श्रेष्ठं रसवीर्य्यविपाकतः ॥ 26 अष्टास्रं चाष्टफलकं षट्कोणमतिभासुरम् । अम्बुदेन्द्रधनुर्वारितरं पुंवज्रमुच्यते ॥ 27. तदेव चिपिटाकारं स्त्रीवज्रं वर्तुलायतम् । वर्तुलं कुण्ठकोणाग्रं किञ्चिद्रु नपुंसकम् ॥ 28. श्वेतादिवर्णभेदेन तदेकैकं चतुर्विधम् । ब्रह्मक्षत्रियविट्शूद्रं स्वस्ववर्णफलप्रदम् ॥ 30.
c54.s1.7
आयुःप्रदं झटिति सद्गुणदं च वृष्यं
c54.s1.8
दोषत्रयप्रशमनं सकलामयघ्नम् । सूतेन्द्रबन्धवधसङ्गुणकृत् प्रदीपं मृत्युञ्जयं तदमृतोपममेव वज्रम् ॥ 32. कुलत्थक्वाथके स्विन्नं कोद्रवक्वथितेन वा । एकयामावधि स्विन्नं वज्रं शुध्यति निश्चितम् ॥
c54.s1.9
वज्रं मत्कुणरक्तेन चतुर्वारं विभावितम् ।
सुगन्धिमूषिकामौंसैर्वर्त्तितैः परिवेष्ट्य च¹ ॥
पुटेत् पुटैर्वराहाख्यैस्त्रिंशद्वारं ततः परम् ।
ध्मात्वा ध्मात्वा शतं वारान् कुलत्थक्वाथके क्षिपेत् ॥
अन्यैरुक्तः शतं वारान् कर्त्तव्योऽयं विधिक्रमः ॥ 34-37.
कुलत्थक्
c54.s1.10
स्थूलं कुम्भीफलं पक्वं तथा ज्वालामुखौ शुभा ।
द्रवन्ती च रुदन्तौ च पयस्या चित्रमूलकम् ॥
दुग्धं स्नुह्यास्तथार्कस्य सर्व्वं संमर्द्य यत्नतः ।
गोलं विधाय तन्मध्ये प्रक्षिपेत् तदनन्तरम् ॥ :
गुणवन्नवरत्नानि जातिमन्ति शुभानि च ।
भूर्जे तं गोलकं कृत्वा सूत्रेणावेष्ट्य यत्नतः ॥
पुनर्वस्त्रेण संवेष्ट्य दोलायन्त्रे निधाय च ।
सर्व्वाम्लयुक्तसन्धानपरिपूर्णघटोदरे ॥
अहोरात्रत्रयं यावत् स्वेदयेत्तीब्रवह्निना ।
तस्मादाहृत्य सङ्गाल्य रत्नजां द्रुतिमाहरेत् ॥ 64-69.
मुक्ताचूर्णन्तु सप्ताक्षं वेतासाम्लेन मर्दितम् ।
जम्बीरोदरमध्ये तु धान्यराशौ विनििक्षिपेत् ॥
सप्ताहादुद्धृतञ्चैव पुटे दत्त्वा द्रुतिं हरेत्¹ । 70-71.
वज्रवज्रान्तरस्थञ्च कृत्वा वज्रं निरोधयेत् ।
अम्लभाण्डगतं स्वेद्यं सप्ताहाद्द्रवतां ब्रजेत् ॥ 72
c54.s1.11
¹ द्रुतिं हरेत्, a variant in the Poona ed., which we have adopted.
अथ वैक्रान्तम्—
c54.s2.1
श्वेतवर्णन्तु वैक्रान्तमम्लवेतसभावितम् ।
सप्ताहान्नाव सन्देहः खरघर्म्मे द्रुवत्यलम् ॥ 73.
केतकीस्वरसो ग्राह्यः सैन्धवं स्वर्णपुष्पिका ।
इन्द्रगोपकसंयुक्तं सर्व्वं भाण्डे विनििक्षिपेत् ॥
मप्ताक्षं स्वेदयेदस्मिन् वैक्रान्तं द्रवतां व्रजेत् । 74-75.
Linked texts (1)
- Rasaratnasamuccaya — Vāgbhaṭa (alchemist), Sanskrit