History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c54.s1.10
History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c54.s1.10
- Language
- English
c54.s1.10
स्थूलं कुम्भीफलं पक्वं तथा ज्वालामुखौ शुभा ।
द्रवन्ती च रुदन्तौ च पयस्या चित्रमूलकम् ॥
दुग्धं स्नुह्यास्तथार्कस्य सर्व्वं संमर्द्य यत्नतः ।
गोलं विधाय तन्मध्ये प्रक्षिपेत् तदनन्तरम् ॥ :
गुणवन्नवरत्नानि जातिमन्ति शुभानि च ।
भूर्जे तं गोलकं कृत्वा सूत्रेणावेष्ट्य यत्नतः ॥
पुनर्वस्त्रेण संवेष्ट्य दोलायन्त्रे निधाय च ।
सर्व्वाम्लयुक्तसन्धानपरिपूर्णघटोदरे ॥
अहोरात्रत्रयं यावत् स्वेदयेत्तीब्रवह्निना ।
तस्मादाहृत्य सङ्गाल्य रत्नजां द्रुतिमाहरेत् ॥ 64-69.
मुक्ताचूर्णन्तु सप्ताक्षं वेतासाम्लेन मर्दितम् ।
जम्बीरोदरमध्ये तु धान्यराशौ विनििक्षिपेत् ॥
सप्ताहादुद्धृतञ्चैव पुटे दत्त्वा द्रुतिं हरेत्¹ । 70-71.
वज्रवज्रान्तरस्थञ्च कृत्वा वज्रं निरोधयेत् ।
अम्लभाण्डगतं स्वेद्यं सप्ताहाद्द्रवतां ब्रजेत् ॥ 72