History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c55.s1.2
History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c55.s1.2
- Language
- English
c55.s1.2
शुद्धं लोहं कनकजतं भानुलोहाश्मसारं
पूतीलोहं द्वितयमुदितं नागवङ्गाभिधानम् ।
मिश्रं लोहं त्रितयमुदितं पित्तलं कांस्यवत्तं
धातुर्लोहे लुह इति मतः सोऽप्यनेकार्यवाची¹ ॥ 1
प्राकृतं सहजं वह्निसम्भूतं खनिसंभवम् ।
रसेन्द्रवेधसञ्जातं स्वर्णं पञ्चविधं स्मृतम् ॥ 2
सौख्यं वीर्य्यं बलं हन्ति रोगवर्गं करोति च ।
अशुद्धं न मृतं स्वर्णं तस्माच्छुद्धं समाचरेत् ॥ 11.
सुवर्णपत्रं तनु कर्षमानं²
शरावरुद्धं पटुधातुयुक्तम् ।
अङ्गारसंस्थं प्रहरार्द्धमानं
ज्ञानेन तत् स्यात्खलु पूर्णवर्णम्³ ॥ 12
लोहानां मारणं श्रेष्ठं सर्व्वेषां रसभस्मना ।
मूलीभिर्म्मध्यमं प्राहुः कनिष्ठं गन्धकादिभिः ॥ 13.
अरिलोहेन लोहस्य मारणं दुर्गुणप्रदम् ।
कृत्वा कण्टकवेध्यान स्वर्णपत्राणि लेपयेत् ।
लुङ्गाम्बुभस्मसूतेन म्रियते दशभिः पुटैः ॥ 14
द्रुते विनििक्षिपेत् स्वर्णे लोहमानं मृतं रसम् ।
विचूर्ण्य लुङ्गतोयेन दरदेन समन्वितम् ॥
Linked texts (1)
- Rasaratnasamuccaya — Vāgbhaṭa (alchemist), Sanskrit