History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c55.s1.23
History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c55.s1.23
- Language
- English
c55.s1.23
तद्रोमकान्तं स्फुटिताद्यतो रोमोद्गमो भवेत् । 88-89
मदोक्तगञ्जः सूतः कान्तमङ्गसमुच्यते ॥
श्वेतं खात्वा गृहीतव्यं तन्नयत्नेन धीमता ।
मारुतातपविक्षोभं वर्जयेन्नात्र संशयः ॥ 92-93
पात्रे¹ यस्य प्रसरति जले तैलविन्दुर्न लिप्तं
गन्धं हिङ्गु त्यजति च तथा तिक्ततां निम्बकल्कः ।
पाके दुग्धं भवति शिखराकारकं नैति भूमिं
कान्तं लोहं तदिदमुदितं लक्षणोक्तं न चान्यत् ॥ 94.
रेतितं घृतसंयुक्तं क्षिप्त्वायः खर्परे पचेत् ।
चालयेल्लोहदण्डेन यावत् क्षिप्तं तृणं दहेत् ॥
पिष्ट्वा पिष्ट्वा पचेदेवं पञ्चवारमतः परम् ।
धात्रीफलरसैर्यद्वा त्रिफलाक्वथितोदकैः ।
पुटेल्लोहं चतुर्वारं भवेद्वारितरं खलु ॥ 104-105
तीक्ष्णलोहस्य पत्राणि निर्दल्यानि दृढेऽनले ।
ज्ञात्वा क्षिपेज्जले सद्यः पाषाणोलूखलोदरे ॥
खण्डयेद्दृढनिघातैः स्थूलया लोहपारया ।
तन्मध्यात्³ स्थूलखण्डानि रुङ्घा मल्लद्वयान्तरे ॥
ध्मात्वा क्षिप्त्वा जले सम्यक् पूर्व्ववत् खण्डयेत् खलु ।
तच्चूर्णं सूतगन्धाभ्यां पुटेद्विंशतिवारकम् ॥
Linked texts (1)
- Rasaratnasamuccaya — Vāgbhaṭa (alchemist), Sanskrit