History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c55.s1.27
History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c55.s1.27
- Language
- English
c55.s1.27
पुटे पुटे विधातव्यं पेषणं दृढ़वत्तरम्।
एवं भस्मीकृतं लोहं तत्तद्रोगेषु योजयेत् ॥ 107-110
जम्बीरैरालनालैर्वा विंशत्यंशेन हिङ्गुलम् ॥
पिष्ट्वा रुद्ध्वा पचेल्लोहं तद्गवैः पाचयेत् पुनः।
चत्वारिंशत्पुटैरेवं कान्तं तीक्ष्णं च मुण्डकम् ॥
म्रियते नात्र सन्देहो दत्त्वा दत्त्वैव हिङ्गुलम्। 113-115
शुद्धसूतं द्विधा गन्धं खल्ले तु कृतकज्जलीम्।
द्वयोः समं लोहचूर्णं मर्दयेत् कन्यकाद्रवैः ॥
यामद्वयात् समुद्धृत्य तद्गोलं ताम्रपात्रके।¹
आच्छाद्यैरण्डपत्रैश्च यामार्द्धेऽत्युष्णता भवेत् ॥
धान्यराशौ न्यसेत् पश्चात् त्रिदिनान्ते समुद्धरेत्।
संपेष्य गालयेद्वस्त्रे सत्त्वं वारितरं भवेत् ॥
कान्तं तीक्ष्णं च मुण्डं च निरुत्थं जायते ध्रुवम्।
स्वर्णादीन् मारयेदेवं चूर्णं कृत्वा च लोहवत् ॥ 134-137.
लोहकिट्टं सुसन्तप्तं यावज्जीर्य्यति तत् स्वयम्।
तच्चूर्णं जायते पेष्यं मण्डूरोऽयं प्रयोज्यते ॥ 147
ये गुणा मारिते मुण्डे ते गुणा मुण्डकिट्टेके।
तस्मात् सर्वत्र मण्डूरं रोगशान्त्यै प्रयोजयेत् । 148.