Pramāṇa · Search · About · API

History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c58: अथ षष्ठोऽध्यायः ।

History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c58

Language
English

अथ षष्ठोऽध्यायः ।

c58.1

अथ शिष्योपनयनम् ।

c58.2

आचार्यो ज्ञानवान् दक्षो रसशास्त्रविशारदः ।
मन्त्रसिद्धो महाधीरो निश्चलः शिववल्लभः ॥
देवौभक्तः सदाधौरो देवतायागतत्परः ।
सर्व्वाम्नायविशेषज्ञः कुशलो रसकर्म्मणि ॥
एवं लक्षणसंयुक्तो रसविद्यागुरुर्भवेत् ।
गुरुभक्ताः सदाचाराः सत्यवन्तो दृढव्रताः ॥
निरालस्याः स्वधर्मज्ञाः सदाज्ञापरिपालकाः ।
दम्भमात्सर्य्यनिर्मुक्ताः कुलाचारेषु दीक्षिताः ॥
अत्यन्तसाधकाः शान्ता मन्त्राराधनतत्पराः ।
इत्येवं लक्षणैर्युक्ताः शिष्याः स्युः कार्य्यसिद्धये ॥ 3-7.

c58.3

आतङ्करहिते देशे धर्मराज्ये मनोरमे।
उमामहेश्वरोपेते समृद्धे नगरे शुभे॥
कर्त्तव्यं साधनं तत्र रसराजस्य धीमता।
अत्यन्तोपवने रम्ये चतुर्द्दारोपशोभिते॥
तत्र शाला प्रकर्त्तव्या सुविस्तीर्णा मनोरमा।
सम्यग्वातायनोपेता दिव्यचित्रैर्विचित्रिता॥ 13-15
निष्कत्रयं हेमपत्रं रसेन्द्र नवनिष्ककम्।
अम्लेन मर्दयेद्यामं तेन लिङ्गं तु कारयेत्॥
तल्लिङ्गं पूजयेत् तत्र सुशुभैरुपचारकैः॥
लिङ्गकोटिसहस्रस्य यत् फलं सम्यगर्चनात्।
तत् फलं कोटिगुणितं रसलिङ्गार्चनाद्भवेत्॥
ब्रह्महत्यासहस्राणि स्त्रीगोहत्यायुतानि¹ च।
तत्क्षणाद्विलयं यान्ति रसलिङ्गस्य दर्शनात्॥ 19-22
रसविद्या² शिवेनोक्ता दातव्या साधकाय वै।
यथोक्तेन विधानेन गुरुणा मुदितात्मना॥ 30.
कोष्ठी मूषा वङ्गनाली तुषाङ्गारवनोपलाः॥
भस्त्रिका दण्डिकानिकाः शिलाखल्वान्युलूखलम्।
* * * *
अनेन मूलमन्त्रेण भैरवं तत्र पूजयेत् ।
सर्वेषां रससिद्धानां नाम सङ्कीर्त्तयेत्ततः॥
* * * *
सप्तविंशतिसंख्याका रससिद्धिप्रदायकाः।
वन्द्याः पूज्याः प्रयत्नेन ततः कुर्याद्रसार्चनम् ॥ 52-61
हर्षयेद्द्विजदेवानां तर्पयेदिष्टदेवताः।
कुमारीयोगिनीयोगौश्वरान् म्लेच्छकसाधकान्³॥ 62.

c58.4

¹ स्त्रीगोहत्यायुतानि च, a variant in the Poona ed, which we have adopted

c58.5

² B and K. reads रसदीक्षा।

c58.6

³ स्वेच्छकसाधकान्, a variant in the Poona ed, which also agrees with B.

c58.7

रसविद्या दृढ़ं गोप्या मातुर्गुह्यमिव ध्रुवम् ।
भवेद्बीर्य्यवती गुप्ता निर्व्वीर्य्या च प्रकाशनात् ॥ 70.

Linked texts (1)