History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c58.3
History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c58.3
- Language
- English
c58.3
आतङ्करहिते देशे धर्मराज्ये मनोरमे।
उमामहेश्वरोपेते समृद्धे नगरे शुभे॥
कर्त्तव्यं साधनं तत्र रसराजस्य धीमता।
अत्यन्तोपवने रम्ये चतुर्द्दारोपशोभिते॥
तत्र शाला प्रकर्त्तव्या सुविस्तीर्णा मनोरमा।
सम्यग्वातायनोपेता दिव्यचित्रैर्विचित्रिता॥ 13-15
निष्कत्रयं हेमपत्रं रसेन्द्र नवनिष्ककम्।
अम्लेन मर्दयेद्यामं तेन लिङ्गं तु कारयेत्॥
तल्लिङ्गं पूजयेत् तत्र सुशुभैरुपचारकैः॥
लिङ्गकोटिसहस्रस्य यत् फलं सम्यगर्चनात्।
तत् फलं कोटिगुणितं रसलिङ्गार्चनाद्भवेत्॥
ब्रह्महत्यासहस्राणि स्त्रीगोहत्यायुतानि¹ च।
तत्क्षणाद्विलयं यान्ति रसलिङ्गस्य दर्शनात्॥ 19-22
रसविद्या² शिवेनोक्ता दातव्या साधकाय वै।
यथोक्तेन विधानेन गुरुणा मुदितात्मना॥ 30.
कोष्ठी मूषा वङ्गनाली तुषाङ्गारवनोपलाः॥
भस्त्रिका दण्डिकानिकाः शिलाखल्वान्युलूखलम्।
* * * *
अनेन मूलमन्त्रेण भैरवं तत्र पूजयेत् ।
सर्वेषां रससिद्धानां नाम सङ्कीर्त्तयेत्ततः॥
* * * *
सप्तविंशतिसंख्याका रससिद्धिप्रदायकाः।
वन्द्याः पूज्याः प्रयत्नेन ततः कुर्याद्रसार्चनम् ॥ 52-61
हर्षयेद्द्विजदेवानां तर्पयेदिष्टदेवताः।
कुमारीयोगिनीयोगौश्वरान् म्लेच्छकसाधकान्³॥ 62.
Linked texts (1)
- Rasaratnasamuccaya — Vāgbhaṭa (alchemist), Sanskrit