Pramāṇa · Search · About · API

History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c60.s1: अथ परिभाषा ।

History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c60.s1

Language
English

अथ परिभाषा ।

c60.s1.1

कथ्यते सोमदेवेन मुग्धवैद्यप्रवृद्धये ।
परिभाषा रसेन्द्रस्य शास्त्रैः सिद्धैश्च भाषिता ॥ 1.
अर्द्धं सिद्धरसस्य तैलघृतयोर्लोहस्य भागोऽष्टमः
संसिद्धाखिललोहचूर्णवटकादीनां तथा सप्तमः ।
यो दीयेत भिषग्वराय गदिभिर्निर्दिश्य धन्वन्तरिं
सर्व्वारोग्यसुखाप्तये निगदितो भागः स धन्वन्तरेः ॥ 2.
धातुभिर्गन्धकाद्यैश्च निर्द्रवैर्म्मर्दितो रसः
सुश्लक्ष्णः कज्जलाभोऽसौ कज्जलीत्यभिधीयते ॥
सद्रवा मर्दिता सैव रसपङ्क इति स्मृतः ॥ 5-6.
मृतं तरति यत्तोये लोहं वारितरं हि तत् ।
अङ्गुष्ठतर्ज्जनीघृष्टं यत्तदरेखान्तरं¹ विशेत् ॥
मृत लोहं तदुद्दिष्टं रेखापूर्णाभिधानतः ॥

c60.s1.2

¹ (१) रेखान्तरं, a variant in the Poona ed. which we have adopted

c60.s1.3

गुड़गुग्गुलुसुस्खसर्पमध्वान्वैः¹ सह योजितम् ।
नायाति प्रकृतिं ध्मानात्पुनर्भवमुच्यते ॥
तस्योपरि गुरु द्रव्यं धान्यं चोपनयेद्बुधम् ।
हसवत॒ तौर्य्यते वारिप्लुक्षतं षषिकौत्तिंतम् ॥ 25-28.
रौप्येण सह संयुक्तं धातं रौप्ये' न चेल्लगेत् ।
तदा निरुत्थमित्युक्तं लोह तदपुनर्भवम् ॥ 29.
तीक्ष्णं नीलाञ्जनोपेतं धातं हि बहुशो दृढम् ।
मृदुकृष्णं द्रुतद्राव वरनागं³ तदुच्यते ॥ 38.
मृतस्य पुनरुद्भूतिः सम्प्रोक्तोत्थापनाख्यया । 39.
इद्यमानस्य सूतस्य भोज्यद्रव्यात्मिका मतिः ।
इयतोत्युच्यते यासौ ग्रासमानमितौरितम् ॥ 64.
चतुःषष्ट्यं शतो वोजप्रक्षेपो मुखमुच्यते ।
एवङ्कृते रसो ग्रामलोलुपो मुखवान् भवेत् ॥
कठिनान्धपि लोहानि क्षमो भवति भक्षितुम् । 68-69.
लेपः क्षेपश्च कुन्तश्च धूमाख्यः शब्दसंज्ञकः ।
लेपेन कुरुते लोहं स्वर्णं वा रजतं तथा ॥ 80.
वह्नौ धूमायमानेऽन्तः प्रक्षिप्तसरमधूमतः ।
स्वर्णाद्यापाटनं लोहे धूमवेधः स ईरितः ॥ 83.
मुखस्थितरसेनाल्पलोहस्य दमनात् खलु ।
स्वर्णरूप्यत्वजननं शब्दवेधः स कीर्त्तितः ॥ 84.

c60.s1.4

¹ Cf. घृतमधुगुग्गुलुटङ्कणैः समं लोहभस्म मर्दयेच्च विचक्षणः । धमेदवह्नौ यदा पुनर्लोहभावं न गच्छेत् तदा योज्यं रसायने ॥ लौहभावं यदा गच्छेत् तं पुनर्मारयेत् सुधीः । रसचन्द्रिका जारणमारणाध्यायः ।

c60.s1.5

² We have adopctd the reading in B and K. The Poona ed, however, reads रौप्ये च चेल्लगेत्, which, from the chemical point of view, is untenable.

c60.s1.6

³ वरनागं, a variant in the Poona ed, which also agrees with B.

c60.s1.7

रसनिगममहाब्धेः सोमदेवः समन्तात्
स्फुटतरपरिभाषानामरत्नानि ह्त्वा ।
व्यरचयदूतियत्नात् तैर्रिमां कण्ठमालां
कलयतु¹ भिषगग्र्यो मण्डनार्थं सभायाम् ॥ 89.

c60.s1.8

¹ कलयतु, another reading in the Poona ed , which we have adopted

Linked texts (1)