Pramāṇa · Search · About · API

History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c60.s1.1

History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c60.s1.1

Language
English

c60.s1.1

कथ्यते सोमदेवेन मुग्धवैद्यप्रवृद्धये ।
परिभाषा रसेन्द्रस्य शास्त्रैः सिद्धैश्च भाषिता ॥ 1.
अर्द्धं सिद्धरसस्य तैलघृतयोर्लोहस्य भागोऽष्टमः
संसिद्धाखिललोहचूर्णवटकादीनां तथा सप्तमः ।
यो दीयेत भिषग्वराय गदिभिर्निर्दिश्य धन्वन्तरिं
सर्व्वारोग्यसुखाप्तये निगदितो भागः स धन्वन्तरेः ॥ 2.
धातुभिर्गन्धकाद्यैश्च निर्द्रवैर्म्मर्दितो रसः
सुश्लक्ष्णः कज्जलाभोऽसौ कज्जलीत्यभिधीयते ॥
सद्रवा मर्दिता सैव रसपङ्क इति स्मृतः ॥ 5-6.
मृतं तरति यत्तोये लोहं वारितरं हि तत् ।
अङ्गुष्ठतर्ज्जनीघृष्टं यत्तदरेखान्तरं¹ विशेत् ॥
मृत लोहं तदुद्दिष्टं रेखापूर्णाभिधानतः ॥

Linked texts (1)