History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c64: अथैकादशोऽध्यायः।
History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c64
- Language
- English
Contents
- c64.s1 अथ रसशोधनादिकथनम् । — 2 parts
अथैकादशोऽध्यायः।
अथ रसशोधनादिकथनम् ।
c64.s1.1
रसार्णवादिशास्त्राणि विलोक्य कथितं मया।
रसोपयोगि यत्किञ्चिद्दिव्यरत्नं तत्प्रदर्शितम्।
अधुना रसराजस्य संस्कारान् सम्यग्वक्ष्य ॥ 10.
विषं वह्निर्मलश्चेति दोषा नैसर्गिकाम्रयः।
यौगिकौ नागवङ्गौ द्वौ * * * ॥ 14-15.
तस्मात् सूतविधानार्थं सहायैर्निपुणैर्युतः।
सर्व्वोपस्कारमादाय रसकर्म समाचरेत् ॥ 20.
द्वे सहस्रे पलानां तु सहस्रं शतमिव वा।
अष्टाविंशत् पलान्येव दश पञ्चैकमेव वा॥
पलार्द्धेनैव कर्त्तव्यः संस्कारः सूतकस्य च।
सुदिने शुभनक्षत्रे रसशोधनमाचरेत् ॥ 21-22.
c64.s1.2
रसस्तु पादांशसुवर्णजीर्णः
पिष्टीकृतो गन्धकयोगतश्च । -
तुल्यांशगन्धैः पुटितः क्रमेण
निर्बीजनामा सकलामयघ्नः ॥ 72.
पिष्टीकृतैरभ्रकसत्त्वहेम-
तारार्ककान्तैः परिजारितो यः ।
हतस्वतः षड्गुणगन्धकेन
स वीजबद्धो विपुलप्रभावः ॥ 73
काकोदुम्बरिकाया दुग्धेन सुभावितो हिङ्गः ।
मर्द्दनपुटेन विधिना सूतं भस्मीकरोत्येव ॥ 111.
देवदालीं हरिक्रान्तामारनालेन पेषयेत् ।
तद्द्रवैः सप्तधा सूतं कुर्यान्मर्दितमूर्च्छितम् ॥
तत्सूतं खर्परे दद्याद्दृष्ट्वा दृष्ट्वा तु तद्द्रवम् ।
चुल्ल्युपरि पचेच्चाग्ना भस्म स्याल्लवणोपमम् ॥ 112-113.
अपामार्गस्य बीजानि तथैरण्डस्य चूर्णयेत् ।
तच्चूर्णं पारदे देयं मूषायामधरोत्तरम् ॥
रुद्ध्वा लघुपूटैः पञ्चाच्चतुर्भिर्भस्मसां नयेत् । 114-115.
Linked texts (1)
- Rasārṇava — Sanskrit