History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c64.s1.2
History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c64.s1.2
- Language
- English
c64.s1.2
रसस्तु पादांशसुवर्णजीर्णः
पिष्टीकृतो गन्धकयोगतश्च । -
तुल्यांशगन्धैः पुटितः क्रमेण
निर्बीजनामा सकलामयघ्नः ॥ 72.
पिष्टीकृतैरभ्रकसत्त्वहेम-
तारार्ककान्तैः परिजारितो यः ।
हतस्वतः षड्गुणगन्धकेन
स वीजबद्धो विपुलप्रभावः ॥ 73
काकोदुम्बरिकाया दुग्धेन सुभावितो हिङ्गः ।
मर्द्दनपुटेन विधिना सूतं भस्मीकरोत्येव ॥ 111.
देवदालीं हरिक्रान्तामारनालेन पेषयेत् ।
तद्द्रवैः सप्तधा सूतं कुर्यान्मर्दितमूर्च्छितम् ॥
तत्सूतं खर्परे दद्याद्दृष्ट्वा दृष्ट्वा तु तद्द्रवम् ।
चुल्ल्युपरि पचेच्चाग्ना भस्म स्याल्लवणोपमम् ॥ 112-113.
अपामार्गस्य बीजानि तथैरण्डस्य चूर्णयेत् ।
तच्चूर्णं पारदे देयं मूषायामधरोत्तरम् ॥
रुद्ध्वा लघुपूटैः पञ्चाच्चतुर्भिर्भस्मसां नयेत् । 114-115.