Pramāṇa · Search · About · API

The Positive Sciences of the Ancient Hindus c10.41

The Positive Sciences of the Ancient Hindus c10.41

Language
English

c10.41

यदभ्यधायि अविनाभावो दुर्बोध इति तदसाधीयः। तादात्म्यतदुत्पत्तिभ्याम-विनाभावस्य सुज्ञानत्वात्। तदुक्तं—कार्य्यकारणभावात् वा स्वभावात् वा नियामकात्। अविनाभावनियमोऽदर्शनान्न न दर्शनात्। As for the Nyáya view, अन्वयव्यतिरेकौ अविनाभावनिश्चायको इति।—the Buddhist objects: ननु पक्षे साध्यसाधनयोर्व्यभिचारो दुरवधारखः भवेत् । भूते, भविष्यति, वर्तमाने अनुपलब्धमाने च व्यभिचारशङ्काया अनिवारणात् ।—the Nyáya retorts: ननु तथाविधस्थले तावकेऽपि मते व्यभिचारशङ्का दुष्परिहरा ज्ञात ।—the Buddhist answers: नैवं वोचः, विनापि कारणं कार्यमुत्पद्यताम् इत्येवं विधायाः शङ्कायाः व्याघातावधिकतया निवृत्तत्वात् । तदेव हि जाशङ्केत यस्मिन्नाशङ्क्यमाने व्याघातादयः नाववरेयुः । तदुक्तं व्याघातावधिराशङ्का इति । तस्मात् तदुत्पत्तिनिश्चयेन अविनाभावो निश्चीयते । तदुत्पत्तिनिश्चयश्च कार्य्यहेतोः प्रत्यक्षोपलम्भानुपलम्भपञ्चकनिबन्धनः । कार्य्यस्य उत्पत्तेः प्रागनुपलम्भः, कारणोपलम्भे सति उपलम्भः, उपलम्भस्य पश्चात् कारणानुपलम्भात् अनुपलब्धः इति पञ्चकारस्या धूम-धूमध्वजयो कार्य्यकारणभावः निश्चीयते । तथा तादात्म्यनिश्चयेन अपि अविनाभावः निश्चीयते । यदि शिंशपाः वृक्षत्वम् अतिपतेत् स्वात्मानमेव जहात् इति विपक्षे बाधकप्रवृत्तेः । अप्रवृत्ते तु बाधके भूयः सहभावोपलम्भेऽपि व्यभिचारशङ्कायाः को निवारयिता । शिंशपावृक्षयोश्च तादात्म्यनिश्चयः वृक्षोऽयं शिंशपा इति सामानाधिकरण्यबलात् उपपद्यते तस्मात् कार्य्यात्मानौ कारणम् आत्मानम् अनुमापयत इति सिद्धम् । Sarvadarśana Sangrahá, Bauddha-Darśanam; *vide* also Śridhara, Kandalí.

Linked texts (1)