Pramāṇa · Search · About · API

The Positive Sciences of the Ancient Hindus c10.50

The Positive Sciences of the Ancient Hindus c10.50

Language
English

c10.50

सत्यं यत् किञ्चित् क्वचित् दृष्टं तस्य यत्र प्रतिबन्धः, तद्भिदः तस्य तत् गमकं तत्र इति अनुजानीमः । स एव तु प्रतिबन्धो न तावत् तदुत्पत्त्या सम्भवति । का पुनरियं तदुत्पत्तिः । धूमस्य किं वह्ननन्तरं भावः । स तादृशः अस्ति रासभस्यापि । तत्प्रतिबद्धोऽपि धूमः स्यात् । अथ तदनन्तरमेव भावः, न च रासभानन्तरं भवन्नपि तदनन्तरमेव भवति, तस्मिन् सति अपि असति अग्नौ तदभावात् । असति अपि तस्मिन् सत्यार्देन्धनवति वह्नौ तद्भावात् । अथ यद्यपि धूमस्य वह्निभावानुविधानं तत्रोपलब्धं, तथापि देशान्तरादिषु तद्भावोऽस्य कुतस्त्यः । तथा हि भूयो भूयो रासभे दृष्टे धूमोदृष्टः, तदभावे च अदृष्टः, न स तत्कार्य्यः । तज्जातीयस्यैव धूमस्य रासभं विना सति वह्नौ भावात्, एवं सत्यपि अग्नौ पिशाचेन जनितो धूमः, क्वचिद्देशादौ तज्जातीय एव रासभवदवह्र्यभावेऽपि पिशाचादेव भविष्यति, इति अवश्यं शङ्कया भाव्यं नियामक अपश्यताम् । न च