Pramāṇa · Search · About · API

The Positive Sciences of the Ancient Hindus c10.73

The Positive Sciences of the Ancient Hindus c10.73

Language
English

c10.73

यो वा स वा अस्तु सम्बन्धः यस्य त्वसौ स्वाभाविकोनियतः स एव गमकः, गम्यश्च इतरः सम्बन्धीति युज्यते । तथा हि धूमादीनां वह्न्यादिसम्बन्धः स्वाभाविकः । नतु वह्न्यादीनां धूमादिभिः । उपलभ्यन्ते ते हि विनापि धूमादिभिः । यदातु चार्द्रेन्धनादिसम्बन्धम् अनुभवन्ति तदा धूमादिभिः सह संबध्यन्ते । तस्मात् वह्न्यादीनाम् आर्द्रेन्धनाद्युपाधिकृतः सम्बन्धो न स्वाभाविकः । ततो न नियतः । स्वाभाविकस्तु धूमादीनां वह्न्यादिसम्बन्ध उपाधेः अनुपलब्धमानात् क्वचित् व्यभिचारस्य अदर्शनात् अनुपलब्धमानस्यापि कल्पनानुपपत्तेः । अतो नियतः सम्बन्धः अनुमानाङ्गम् ।