Pramāṇa · Search · About · API

The Positive Sciences of the Ancient Hindus c10.81

The Positive Sciences of the Ancient Hindus c10.81

Language
English

c10.81

**न च अदृश्यमानोऽपि दर्शनानर्हतया साधकबाधकप्रमाणाभावेन संदिश्यमान उपाधिः स्वाभाविकत्वं प्रतिबध्नाति इति साम्प्रतम् । अवश्यं शङ्कया भवितव्यं नियामकाभावादिति दत्तावकाशा खलु ईयम् प्रमाणमर्यादातिक्रमेन शङ्का पिशाची लब्धप्रसरा न क्वचित् नास्तीति नेयं क्वचित् प्रवर्त्तेत । सर्व्वत्रैव कस्यचित् कथञ्चित् अनर्थस्य शङ्कास्पदत्वात् । अनर्थशङ्कायाश्च प्रेक्षावतां निवृत्त्यङ्गत्वात् । अन्यथा स्निग्धात्रपानोपयोगेषु अपि मरणादिदर्शनात् । तस्मात् प्रामाणिकलोकयात्राम् अनुपालयता यथादर्शनं शङ्कनीयम् । . . . तस्मादुपार्धि प्रयत्नेन अन्विष्यन्तोऽनुपलभमाना नास्तीति अवगम्य स्वाभाविकत्वं सम्बन्धस्य निश्चिनुमः ।—**