Pramāṇa · Search · About · API

The Positive Sciences of the Ancient Hindus c4.s1.46

The Positive Sciences of the Ancient Hindus c4.s1.46

Language
English

c4.s1.46

क्षणतत्क्रमयोर्नास्ति वस्तुसमाहार इति बुद्धिसमाहारः मुहूर्त्तोहोरात्रादयः। स खल्वयं कालः वस्तुशून्यो बुद्धिनिर्माणः शब्दज्ञानानुपाती लौकिकानां व्युत्थितदर्शनानां वस्तुस्वरूप इव अवभासते। क्षणस्तु वस्तुपतितक्रमावलम्बी। क्रमश्च क्षणानन्तर्यात्मा। तं कालविदः काल इति आचक्षते योगिनः। न च द्वौ क्षणौ सह भवतः, क्रमश्च न द्वयोः सहभुवोरसम्भवात् पूर्व्वस्मादुत्तरभाविनो यदानन्तर्य्यं क्षणस्य स क्रमः। तस्मात् वर्त्तमान श्वेकः क्षणः न पूर्व्वोत्तरक्षणाः सन्तीति तस्मान्नास्ति तत्समाहारः। ये तु भूतभाविनः क्षणाः ते परिणामान्विता व्याख्येयाः। तेनैकेन क्षणेन कृत्स्नो लोकः परिणाममनुभवति, तत्क्षणारूढ़ाः