The Positive Sciences of the Ancient Hindus c7.t3.4
The Positive Sciences of the Ancient Hindus c7.t3.4
- Language
- English
c7.t3.4
उष्मतो म्लायते पर्णं त्वक् फलं पुष्पमेव च ।
म्लायते शीर्य्यते चापि स्पर्शस्तेनात्र विद्यते ॥
वाय्वग्न्यशनि-निर्घोषैः फलं पुष्पं विशीर्य्यते ।
श्रोत्रेण गृह्यते शब्दस्तस्माच्छृण्वन्ति पादपाः ।
वल्ली वेष्टयते वृक्षं सर्व्वतश्चैव गच्छति ।
नह्यदृष्टेश्च मार्गोऽस्ति तस्मात् पश्यन्ति पादपाः ॥
पुष्यापुण्यैस्तथा गन्धैर्धूपैश्च विविधैरपि ।
अरोगाः पुष्पिताः सन्ति तस्माज्जिघ्रन्ति पादपाः ॥
पादैः सलिल-पानाच्च व्याधीनाञ्चापि दर्शनात् ।
व्याधिप्रतिक्रियत्वाच्च विद्यते रसनं द्रुमे ॥
वक्त्रेणोत्पलनालेन यथोर्द्धं जलमाददेत् ।
तथा पवनसंयुक्तः पादैः पिवति पादपः ॥
सुखदुःखयोश्च ग्रहणात् छिन्नस्य च विरोहणात् ।
जीवं पश्यामि वृक्षाणामचैतन्यं न विद्यते ॥ शान्तिपर्व्व, महाभारत :
Linked texts (1)
- Mahābhārata — Vyāsa, Sanskrit