The Positive Sciences of the Ancient Hindus c9.s2.14
The Positive Sciences of the Ancient Hindus c9.s2.14
- Language
- English
c9.s2.14
वायुः तन्त्रयन्त्रधरः प्रवर्त्तकः चेष्टानां, प्रणेता मनसः, सर्वेन्द्रियाणां उद्योजकः, सर्व्वशरीरधातुव्यूहकरः, सन्धानकरः शरीरस्य, प्रवर्त्तको वाचः, हर्षोत्साहयोर्योनिः, क्षेप्ता बहिर्मलानां, कर्त्ता गर्भाकृतीनां । प्राणापानोदानसमानव्यानात्मा (चरक सूत्रस्थान, Chap. XII.) तेषां मुख्यतमः प्राणः शब्दोच्चारणनिःश्वासोच्छ्वास-कासादिकारणं, अपानः ... अस्य मूत्रपुरीषादिविसर्गः कर्म कीर्त्तितं। व्यानः ... प्राणापानधृति त्यागग्रहणाह्वयस्य कर्म च। समानोऽपि अखिलं व्याप्य शरीरं वह्निना सह। द्विसप्तति सहस्रेषु नाडीरन्ध्रेषु संचरन् भुक्तपीतरसान् सम्यगानयन् देहपुष्टिकृत् । उदानः कर्म्मास्य देहोन्नयनोत्क्रमणादि प्रकीर्त्तितं । त्वचादिधातूना-श्रित्य पंचनागादयःस्थिताः उद्गारादि निमेषादि क्षुत्पिपासादिकं क्रमात् । तन्द्राप्रभृति मोहादि तेषां कर्म प्रकीर्त्तितं । (संगीतरत्नाकर ।)