Pramāṇa · Search · About · API

The Positive Sciences of the Ancient Hindus c9.s4.8

The Positive Sciences of the Ancient Hindus c9.s4.8

Language
English

c9.s4.8

एवमयं नानाविधानां एषां गर्भकराणां भावानां समुदायादभिनिर्वर्त्तते गर्भः। यद्ययमेषां नानाविधानां गर्भकराणां भावानां समुदायादभिनिर्वर्त्तते गर्भः कथमयं सन्धीयते। यदि चापि सन्धीयते कस्मात् समुदायप्रभवः सन् गर्भो मनुष्यविग्रहेण जायते मनुष्यश्च मनुष्यप्रभवः। उच्यते। ... तत्र चेत् इहमेतत्स्र्यस्मात् मनुष्योमनुष्य-प्रभवः तस्मादेव मनुष्यविग्रहेण जायते यथा गौर्गोप्रभवः यथा चाश्वः अश्वप्रभवः इत्येवं यदुक्तं अग्रे समुदायात्मक इति तद्युक्तं। यदि च मनुष्यः मनुष्यप्रभवः कस्मात् जडान्धकुञ्जमूकवामनमिन्मथव्यङ्गोन्मत्तकुष्ठकिलासेभ्यो जाताः पितृसदृशा न भवन्ति *et seq.* . . . . . . यच्चोक्तं यदि च मनुष्यो मनुष्यप्रभवः कस्माज्जडादिभ्यो जाताः पितृसदृशरूपा न भवन्तीति तत्रोच्यते यस्य यस्यहि अङ्गावयवस्य बीजे बीजभाग उपतप्तो भवति तस्य तस्य अङ्गावयवस्य विकृतिः उपजायते। नोपजायते च अनुपतापात् तस्मात उभयोपपत्तिरप्यत्र। सर्वस्य च आत्मजानीन्द्रि-