The Positive Sciences of the Ancient Hindus c9.s6.t1.3
The Positive Sciences of the Ancient Hindus c9.s6.t1.3
- Language
- English
c9.s6.t1.3
सिद्धान्तस्तु न समानेन्द्रियवृत्तिः प्राणः । स हि मिलितानां वा वृत्तिर्भवेत् प्रत्येकं वा । न तावत् मिलितानां । एकद्वित्रिचतुरिन्द्रियाभावे तदभावप्रसङ्गात् । न खलु चूर्णहरिद्रासंयोगजन्मारुण्यमवयवतरभावे भवितुमर्हति । न च बहुष्विदिसार्ये शिविकोड्डहनं द्वित्रिविदिसार्थ्यं भवति । न च त्वगेकसाध्यं । तथा सति सामान्यवृत्तिव्वानुपपत्तेः । अपि च यत् सम्भूयकारकाणि निष्पादयन्ति तत् प्रधानव्यापारानुगुणावान्तरव्यापारेणैव । यथा वयसां प्रातिस्विको व्यापारः पिञ्जरचालनानुगुणः । इह्तु श्रवणाद्यवान्तरव्यापारोपेतः प्राणो न सम्भूय प्रास्यूरिति युक्तं प्रमाणाभावादत्यन्तविजातीयत्वाच्च श्रवणादिभ्यः प्राणनस्य । . . . तस्मादन्यो वायुक्रियाभ्यां प्राणः । . . . वायुरेवायमध्यात्मतामापन्नः मुख्योऽपि प्राणः ।