Pramāṇa · Search · About · API

The Positive Sciences of the Ancient Hindus c9.t1.12

The Positive Sciences of the Ancient Hindus c9.t1.12

Language
English

c9.t1.12

तासामु नाभिप्रभवानां धमनीनामूद्धर्ध्वगा दश दश चाधोगामिन्यश्चतस्रस्तिर्य्यगाः ऊर्द्धर्ध्वगास्तु हृदयमभिप्रपन्ना स्त्रिधा जायन्ते । अधोगामास्तु पित्ताशय-मभिप्रतिपन्नास्तत्रस्थमेवान्नपानरसं विपक्कं चोर्ध्वमाहू विरेचयन्त्यः अभिवहन्त्यः शरीरं तर्पयन्ति चोर्द्धर्ध्वगतानां तिर्य्यग्गतानां रसस्थानमभिपूरयन्ति (Suśruta, Śârîrasthâna, Chap. IX.). तत्र पांचभौतिकस्य आहारस्य सम्यक् परिणतस्य यस्तेजोभूतः सारः परमसूक्ष्मः स रस इष्यते । तस्य च हृदयं स्थानम् । स हृदयाच्चतुर्विंशतीः धमनीरनुप्रविश्य ऊर्द्धर्ध्वगा दश दश चाधोगामिन्यश्चतस्रस्तिर्य्यगाः कृत्स्नं शरीरं अहरहस्तर्पयति । तस्य शरीरमनुधावतोऽनुमानाद् गतिरुपलक्षयितव्या । स खल्वाप्योरसः यकृत्प्लीहानौ प्राप्य रागमुपैति । (*Ibid.*, Chap. IV.). रंजितास्तेजसास्त्वापः शरीरस्थेन देहिनां रक्तमित्यभिधीयते । (*Ibid.*, Sutrasthâna, Chap. XIV.). सप्तशिराशतानि भवन्ति । याभिरिदं शरीरम् आराम इव जलहारिणीभिः केदार इव कुल्याभिरुपस्निह्यते आकुंचनप्रसारणादिभिर्विशेषैः । नाभ्यां सर्वा निवद्धास्ताः प्रतन्वन्ति समन्ततः । तासां मूलशिराः चत्वारिं शत्तासां वातवाहिन्यो दश पित्तवाहिन्यो दश कफवाहिन्यो दश दश च रक्तवाहिन्यः । तासामु वातवाहिनीनां वात स्थानगतानां पञ्चसप्ततिशतं भवति । रक्तवाहिन्यश्च यकृत्प्लीह्नोरेव । तत्र वातवाहिन्यः शिराः एकस्मिन् सक्थि पञ्चविंशतिः । एतेन इतरसक्थिबाहू च व्याख्यातौ । विशेषतस्तु क्रोडे पृष्ठे चोदरे वक्षसि जत्रुशः ऊर्द्धर्ध्वं । एवं रक्तवहाः कफवहाश्च । धातूनां पूरणं वर्णो स्पर्शज्ञानमसंशयम् । खाः शिराः सञ्चरद्रक्तं कुर्य्योच्चान्यान् गुणानपि (Śârîrasthâna, Chap. VIII.). द्वितीया (कला) रक्तधरा नाम । तस्यां शोणितं विशेषतस्तु शिरासु यकृत प्लीहोश्च भवति (*Ibid.*, Chap. IV.). षष्ठी (कला) पित्तधरा नाम । चतुर्विधमन्नपानमुपयुक्तमामाशयात् प्रच्युतं पक्वाशयोपस्थितं धारयति । स्रोतस्त्विह विज्ञेयं शिराधमनीवर्ज्जितं । … तानि (स्रोतांसि) प्राणाम्बोदकरसरक्तमांसमेदोमूत्रपुरीषशुक्रार्त्तववहानि । तत्र प्राणवहे द्वे । तयोर्मूलं हृदयं रसवाहिन्यश्च धमन्यः । उदकवहे द्वे । तयोर्मूलं तालु क्लोम (*Kloma*, gall-bladder) च । तत्र विद्धस्य पिपासा । अन्नवहे द्वे । तयोर्मूलं आमाशयः अन्नवाहिन्यश्चधमन्यः । रसवहे द्वे । तयोर्मूलं हृदयं रसवाहिन्यश्च धमन्यः । रक्तवहे द्वे । तयोर्मूलं यकृत्प्लीहानौ रक्तवाहिन्यश्च धमन्यः । मांसवहे द्वे । तयोर्मूलं स्नायुत्वचं रक्तवाहिन्यश्च धमन्यः ।

Linked texts (1)