Pramāṇa · Search · About · API

The Positive Sciences of the Ancient Hindus c9.t1.17

The Positive Sciences of the Ancient Hindus c9.t1.17

Language
English

c9.t1.17

ऊर्द्धगाः शब्दरूपरसगन्धप्रश्वासोच्छ्वासविजृम्भितक्षुद्धसितकथितरुदितादीन्-विशेषान् अभिवहन्त्यः शरीरं धारयन्ति । तास्तु हृदयमभिप्रतिपन्नास्त्रिधा जायन्ते तास्त्रिंशत् । तासान्तु वातपित्तकफशोणितरसान् द्वे द्वे वहतस्ता दश । शब्दरूपरसगन्धान् षड्भिर्गृह्णीते । द्वाभ्यां भाषते । द्वाभ्यां घोषं करोति । द्वाभ्यां स्वपिति । द्वाभ्यां प्रतिबुध्यते । द्वे च अश्रुवाहिन्यौ । द्वे स्तनसंश्रिते । ते एव शुक्रं नरस्य स्तनाभ्यां अभिवहतः ।
तिर्य्यग्गतानान्तु चतसृणां धमनीनां एकैका शतधा सहस्रधा चोत्तरोत्तरं विभज्यन्ते तास्त्वसंख्येयाः ।
ताभिरिदं शरीरं गवाक्षितं तासां मुखानि रोमकूपप्रतिबद्धानि । यैः स्वेदमभिवहन्ति रसञ्चापि सन्तर्पयन्ति अन्तर्बहिश्च । तैरेव चाभ्यङ्गपरिषेकावगाहालेपनवीर्य्याणि अन्तःशरीरमभिप्रतिपद्यन्ते । त्वचि विपक्वानि तैरेव स्पर्शसुखमसुलं वा गृह्णाति । तास्तु एताश्चतस्रोधमन्यः सर्वाङ्गगताः सविभागा व्याख्याताः । (Suśruta, Śârîrasthâna, Chap. IX.).

Linked texts (1)