Pramāṇa · Search · About · API

The Positive Sciences of the Ancient Hindus c9.t1.36

The Positive Sciences of the Ancient Hindus c9.t1.36

Language
English

c9.t1.36

हृदये अनाहतं चक्रं। दलैर्द्वादशभिर्युतं। लौल्यं कापट्यं वितर्कोऽप्यनुतापिता आशा ... चिन्ता ... दम्भोवैकल्यं विवेकोऽहंकृतिस्तथा फलान्येतानि। कण्ठोऽस्ति भारतीस्थानं षोडशच्छदं तत्र प्रणव उद्गीथः सप्त स्वरा षड्जादयः। ललनाख्यं घटिकायां चक्रं द्वादशपत्रकं। दमोमानस्ततः स्नेहः शोकः खेदश्च सम्भ्रमश्लोभिर्मैः श्रद्धा तोषोऽपराधिता फलानि ललनाचक्रे। भ्रूमध्ये द्विदलं चक्रं आज्ञासंज्ञं फलानि च आविर्भावाः सत्वरजस्तमसां। तत्र चास्ति मनश्चक्रं षड्दलं तत्फलानि तु स्वप्नो रसपयोगश्च घ्राणं रूपोपलम्भनं स्पर्शनं शब्दबोधश्च पूर्बादिषु दलेषु। ततोऽपि षोडशदलं सोमचक्रं। दलेषु षोडश तस्य कलाः षोडश संस्थिताः। कृपाच मार्द्दवं धैय्यं वैराग्यं धृतिसम्पदौ हास्यं रोमाञ्चं विनयो ध्यानं सुस्थिरता ततः। गाम्भीर्य्यमुद्यमोग्झोभमौदार्य्यैकाग्रहे क्रमात्। फलान्युक्तानि जीवस्य पूर्बादिदलगामिनः। चक्रं सहस्रपत्रन्तु ब्रह्मरन्ध्रे। सुषुम्नया ब्रह्मरन्ध्रमारोहत्यवरोहति। जीवः प्राणसमारूढो रज्ज्वा कोलाटिको यथा। ब्रह्मरन्ध्रे स्थितो जीवः सुधया संप्लृतः। ... आधाराद्द्वाङ्गुलार्द्धे मेहनाद्द्वाङ्गलादधः अग्निशिखा (चक्रं) चक्रात् तस्मात् नवाङ्गुलः देहस्य कन्दोऽस्ति। उत्सेधायामाभ्यां चतुरङ्गुलः ब्रह्मग्रन्थिरितिप्रोक्तः। (संगीतत्नाकर as summarised in Dâmodara's Sangitadarpaṇa; *vide* Sangîta-ratnâkara, पिण्डोत्पत्तिप्रकरणं, verses 116–144) दीर्घास्थिमूर्द्धपर्य्यन्तं ब्रह्मदण्डेति कथ्यते तस्यान्ते सुषिरं सूक्ष्मं ब्रह्मनाड़ीति सूरिभिः (उत्तरगीता)-तत् कर्णिकायां विश्वव्यापिशाखासहस्रवत्या मनोवहनाड्या मूलं तिष्ठति। तस्या अलातुलतिकायाइव ऊर्द्धमूलै एकाशाखा सुषुम्ना इति गीयते। स वैमनोवहा नाड़ी चित्तस्थानं भवति (विज्ञानभिक्षु, योगवार्त्तिक) सुषुम्ना चोर्द्धगामिनी ज्ञाननाड़ी भवेत् (*Jnâna Sankalinî Tantra*). For functions of *Âjnâvahâ Nâḍî* and *Manovahâ Nâḍî*, also see Śankara Miśra's *Upaskâra*.

Linked texts (2)