Pramāṇa · Search · About · API

The Positive Sciences of the Ancient Hindus c9.t1.38

The Positive Sciences of the Ancient Hindus c9.t1.38

Language
English

c9.t1.38

यद्यपीन्द्रियं मनो न साक्षात् प्रयत्नविषयः तथापि मनोवहनाडीगोचरेण प्रयत्नेन मनसि कर्म द्रष्टव्यं । नाड्यास्तु त्वगिन्द्रियग्राह्यत्वमङ्गीकर्त्तव्यं । अन्यथा प्राणवहनाडीगोचरेण प्रयत्नेन अशितपीताद्यभ्यवहरणमपि न सम्भवेत् । त्वगिन्द्रियप्रदेशेन मनःसंयोगमन्तरेण सुखदुःखे न स्यातामेव । यदि मनसि कर्म न भवेत् न भवेच्च पादे मे सुखं शिरसि मे वेदना इत्याद्याकारोऽनुभवः । (*Śaṅkara Miśra's Upaskâra*, on Sûtras 14, 15, Âhnika 2, Chap. V.).