Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c23: भूमिका
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c23
- Language
- English
भूमिका
v3.c23.1
अस्य खलु मानसारस्य ग्रन्थ-तामील-तैलङ्ग-मलयालं-नागरीतिपञ्चप्रकाराभिर्लिपिभिर्लिखितानि प्राचीनहस्तलिखितपुस्तकानि समालोच्य पाश्चात्त्याधुनिकसरणिमवलम्ब्य मया प्रथमसंस्करणं विहितम् । तथा च राजभाषायामनुवादोऽपि कृतः ।
v3.c23.2
संस्कृतभाषायामेव मानसारं लिखितमिति हि प्रसिद्धिः । परन्तु सा भाषा सर्वथैवासंस्कृता । बूलरादिपाश्चात्त्यपण्डितैस्तथा च भाण्डारकरादिभारतीयविद्वद्धुरन्धरैरेतद् बर्बरजनोचितसंस्कृतमिति वर्जितम् (१) ।
v3.c23.3
मानसारमाधुनिकैर्दुर्बोध्यमनधिगम्यं चेत्यत्र कारणान्तरमपि वर्त्तते यतोऽदस्रीयसहस्रत्रयपरिमितपारिभाषिकशब्दानामर्था दृष्टचरसकलभाषाभिधानसाहाय्येनाप्यधिगन्तुं न शक्यन्ते । अतो मया सहस्रपृष्ठात्मकं भारतीयशिल्पशास्त्रविषयकमकमभिधानं सम्पादितम् । तच्चाधुना प्रकाशितमेव । तत्र तु सर्वेभ्य एव वास्तुशास्त्रेभ्यः सर्वेभ्यश्च शिलालेखेभ्यस्तथा वेदब्राह्मणोपनिषद्भ्यः पुराणागमरामायणमहाभारतेभ्यः काव्यनाटकेतिहासेभ्यो नीतिज्योतिषशास्त्रेभ्यश्च संगृहीतानां चतुःसहस्राधिकशिल्पीयशब्दानां प्रयोगं सोदाहरणं प्रदर्श्य तदर्थानां स्थिरीकरणे यत्नमकार्षम् । एतदभिधानसाहाय्येनेव मानसारस्यार्थोपलब्धिश्चानुवादश्च सम्भाव्येते स्म ।
v3.c23.4
मानसारं प्रस्तुतानां विषयाणां संक्षेपेण विवेचनमधुना कर्त्तव्यम् । मानसारं खलु गृहादिनिर्म्माणविषयकवास्तुशास्त्रान्तर्गतम् । वास्तुशास्त्रं तु शिल्पशास्त्रान्तर्भूतम् । शिल्पानां बहवो भेदाः सन्ति । तथा च वात्स्यायनीयकामशास्त्रे चतुःषष्टिकलात्मकानि शिल्पानि
v3.c23.5
¹ एपिग्राफिया इण्डिका, प्रथमखण्डम्, पृ० ३७७ ।
v3.c23.6
स्वीकृतानि (१)। तथैव श्रीमद्भागवतटीकाकृता श्रीधरेणाथ जीवगोस्वामिना चाप्येवं विवृतम् (२)। विष्णुपुराणे तथा हरिवंशे (३), बौद्धानां ललितविस्तरे (४), जैनानामुत्तराध्ययनसूत्रे (५), तथा च कल्पसूत्रे (२११), दशकुमारचरिते (२, २१), कादम्बर्याम् (पृ० ७०), क्षेमेन्द्रस्य कलाविलासे, समवायसूत्रे, विदर्भराजस्य रामचन्द्रकृतटीकायाम्, ललितासहस्रनाम्नो नारायणकृतटीकायाम् (६) तथा च भास्करराजीटीकायाम् (पृ० ७१) शिल्पानां सुदीर्घा नामावली (७) द्रष्टव्या।
v3.c23.7
अत्र खलु मानसार प्रस्तूता विषयाः सप्ततिसंख्यकैः प्रकरणैर्विभक्ताः। तत्र प्रथमेऽनुक्रमणिका। ततः क्रमेण शिल्पिलक्षणपूर्वकं मानोपरकरणं, वास्तुप्रकरणं, भूपरीक्षाविधिः, भूसंग्रहः, गृहादीनां दिङ्निश्चयार्थं शङ्कुस्थापनलक्षणं, संगृहीतभूमिषु पदविन्यासः, बलिकर्मविधिश्चेति विषया अष्टसंख्यायेष्ववतरणिकारूपेण वर्णिताः। अथ सर्वप्रकाराणां ग्रामाणां नगरदुर्गाणां च स्थापने बाहुल्येन विशदीकृतम्। अत एकादिद्वादशान्ततलयुक्तानां प्रासादानां
v3.c23.8
¹ १-गीतम्, २-वाद्यम्, ३-नृत्यम्, ४-आलेख्यम्, ५-विशेषकच्छेद्यम्, ६-तण्डुलकुसुमबलिविकाराः, ७-पुष्पास्तरणम्, ८-दशनवसनाङ्गरागः, ९-मणिभूमिकाकर्म, १०-शयनरचनम्, ११-उदकवाद्यम्, १२-उदकाघाताः, १३-चित्तयोगाः, १४-माल्यग्रथनविकल्पाः, १५-शेखरकापीडयोजनम्, १६-नेपथ्यप्रयोगाः, १७-कर्णपत्रभङ्गाः, १८-गन्धयुक्तिः, १९-भूषणयोजनम्, २०-ऐन्द्रजालयोगाः, २१-कौचुमारयोगाः, २२-हस्तलाघवम्, २३-विचित्रशाकयूषभक्ष्यविकारक्रियापानकरसरागासवयोजनम्, २४-सूचीवानकर्माणि, २५-सूत्रक्रीडा, २६-वीणाडमरुकवाद्यानि, २७-प्रहेलिका, २८-प्रतिमाला, २९-दुर्वाचकयोगाः, ३०-पुस्तकवाचनम्, ३१-नाटकाख्यायिकादर्शनम्, ३२-काव्यसमस्यापूरणम्, ३३-पट्टिकावेत्रवानविकल्पाः, ३४ तक्षककर्माणि, ३५-तक्षणम्, ३६-वास्तुविद्या, ३७-रूप्यपरीक्षा, ३८-धातुवादः, ३९-मणिरागाकरज्ञानम्, ४०-वृक्षायुर्वेदयोगाः, ४१-मेषकुक्कुटलावकयुद्धविधिः, ४२-शुकसारिकाप्रलापनम्, ४३-उत्पादन-संवाहन-केशमर्दन-कौशलम्, ४४-अक्षरमुष्टिकाकथनम्, ४५-म्लेच्छितविकल्पाः, ४६-देशभाषाविज्ञानम्, ४७-पुष्पशकटिका, ४८-निमित्तज्ञानम्, ४९-यन्त्रमातृका, ५०-धारणमातृका, ५१-संपाठ्यम्, ५२-मानसी, ५३-काव्यक्रिया, ५४-अभिधानकोषाः, ५५-छन्दोज्ञानम्, ५६-क्रियाकल्पः, ५७-छलितकयोगाः, ५८-वस्त्रगोपनानि, ५९-द्यूतविशेषाः, ६०-आकर्षकीड़ा, ६१-बालक्रीडनकनि, ६२-वैनयिकीनां विद्यानां ज्ञानम्, ६३-वैजयिकीनां विद्यानां ज्ञानम्, ६४-आत्तालिकीनां विद्यानां ज्ञानम्-चेति। (सुम्बईसंस्करणम्-पृ० ३२-३४, ४३, ९५)
v3.c23.9
² स्कन्ध १०, अध्याय ४५, श्लोक ३६।
v3.c23.10
³ प्रदोषाभिधानम्, पृ० ७२६।
v3.c23.11
⁴ राजेन्द्रलालमित्रस्य संस्करणम् पृ० १७८, १९८, ४९७।
v3.c23.12
⁵ सेक्रेट बुक्स आफ् दी ईस्ट सीरीज, खण्ड ४५, पृ० १०८।
v3.c23.13
⁶ जर्नल आफ् द रायल एशियाटिक सोसायटी, १८९४, पृ० २५५, ३६७।
v3.c23.14
⁷ वेङ्कटसुब्वियारस्य कलानामकप्रबन्धः, पृ० ३५-५२।
v3.c23.15
भूमिक्रव्यविधानं वर्णितम् । प्रसङ्गक्रमेण कतिसङ्ख्यकतलेषु गृहेषु के के वसन्तीत्येतदपि निर्धारितम् । अनन्तरं सर्वप्रकाराणां वास्तूनां गर्भ-न्यासविधिः, उपपीठलक्षणम्, अधिष्ठान-विधिः, स्तम्बलक्षणम्, प्रस्तरविधिः, सन्धिकर्म च विस्तरेण वर्णितानि । ततो विमान-लक्षणाभिधेऽध्याये सर्वप्रकाराणां गृहाणां कतिचित् साधारणविवरणानि कृतानि । ततो द्वादशसु प्रकरणेष्वेकविद्वादशान्ततलानि विस्तरेण प्रतिपादितानि । ततः प्राकारनामक-वास्तुविशेषस्य विस्तृतं विवरणम् । परिवारकाख्येऽध्याये मन्दिरस्य प्राङ्गणे कुत्र केषां परिवारदेवानां गृहाणि भवेयुरित्यालोचितम् । ततः षोडशतन्त्राम्वांनां गोपुराभिधानानां देव-मानवसदनबहिर्द्वारगृहाणां विशदं विवरणं कृतम् । तत एकस्मिन् सुदीर्घप्रकरणे मण्डपानाम्, अन्यस्मिंश्च शालानां वर्णनमस्ति । ततो गृहविन्यासो गृहप्रवेशश्चेति द्वे प्रकरणे । एवं क्रमेण सर्वप्रकाराणां हर्म्याणां द्वारमानं द्वारस्थानं चाध्यायद्वये वर्णितम् । तदनु राजहर्म्यवर्णनानन्तरं राज्याङ्गस्य भूपतीनां च लक्षणानि कृतानि । ततो यानरथादिलक्षणम् । अथ क्रमेण शयनं सिंहासनं तोरणं चाध्यायत्रये विवृतानि । पाङ्गुलक्ष्ममप्यरङ्गुनामकस्य वास्तुविशेषस्य वर्णनं तथा तोरणासनमण्डपप्राङ्गणादीनां भूषणार्थं कल्पवृक्षलक्षणमध्यायद्वये ततो लभ्यम् । ऊनपञ्चाशत्तमे प्रकरणे नानाविधराजमुकुटराजाभिषेकवर्णनं कृत्वा सर्वप्रकाराणां गृहाभर-णानां तत्राङ्गाभरणानां च वर्णनं भूषणनामके पञ्चाशत्तमेऽध्याये कृतम् ।
v3.c23.16
ततो विंशतावध्यायेषु भास्करीतुलं वर्णनम् । तत्रैकपञ्चाशत्तमेऽध्याये ब्रह्मादित्रिमूर्त्ति-लक्षणम् । शिवलिङ्गस्य तत्पीठस्य च लक्षणमध्यायद्वयं विवृतम् । शक्तिनामकेऽध्याये स्त्रीमूर्तीनां भेदा लक्षणानि च वर्णितानि । बौद्धदेवानां जैनदेवानां च मूर्त्तिवर्णनं ततः परं दृश्यते । अनन्तरं मुनिलक्षणं यक्षविद्याधरादिलक्षणं च । ततो भक्तलक्षणाहेऽध्याये सालोक्यसामीप्यसारूप्यसायुज्यभेदभिन्नानां महापुरुषाणां मूर्त्तिलक्षणं विशदीकृतम् ।
v3.c23.17
ततो देववाहनानां मूर्त्तिलक्षणम्—तत्राध्यायचतुष्टये हंस-गरुड-वृषभ-सिंहलक्षणानि क्रमेणालोचितानि । परवर्त्तिन्यध्याये प्रतिमाविधानाख्ये सर्वविधप्रतिमानां किञ्चित्साधारणं विवरणं प्रदत्तम् ।
v3.c23.18
अतःपरं तालमानं विशदीकृतम् । तालमानं तु मूर्त्तीनां पादादिमस्तकान्ताङ्गप्रत्यङ्गानामा-पेक्षिकं षड्विधं मानादिकम् । तथा हि—मानं प्रमाणं परिमाणं लम्बमानमुन्मानमुपमानं चेति । अत्र मानसारं तालमानस्य दश एव भेदाः । परन्तु बिम्बमाने द्वादश भेदाः स्वीकृताः । काश्यपीये अंशुमद्भेदे बृहत्संहितायां ब्रह्माण्डपुराणे मत्स्यपुराणे शिल्परत्ने सुप्रभेदागमे
v3.c23.19
कारणागमे वैखानसागमे कामिकागमे चेदं तालमानं समुपवर्णितम् (१)। मानसारस्य पञ्चषष्टितमषट्षष्टितमाध्याययोरुत्तमदशताललक्षणमध्यमदशताललक्षणे यथाक्रमं विशेषेणोदाहृते। ततः प्रलम्बलक्षणाभिधेऽध्याये समभङ्ग आभङ्गोऽतिमङ्गस्त्रिभङ्गश्चेति भङ्गख्यातानां मूर्तीनां कतिभिः शिरसः पाश्चांदिभ्यश्च निर्गताभिः काल्पनिकौभी रेखाभिर्मानादिकं निर्द्धारितम्। ततो मधूच्छिष्टतामन्येऽध्याये मूर्तीनां स्वर्णरजतादिनिर्मितानां मधूच्छिष्टादिना शोधनं वर्णितम्। ततो मूर्तीनां तथा च गृहादीनां निर्माणदोषपरिहारार्थोऽङ्गदूषणविधाननामकोऽध्यायः। अन्तिमे सप्ततितमे नयनोन्मीलनाध्याये मूर्तीनां निर्माणशेषे चक्षुरुन्मीलनं वर्णितम्।
v3.c23.20
अस्य मानसारस्य सप्ततिसंख्यकेष्वध्यायेषु प्रथमाष्टके प्राथमिकं प्रस्तावनामूलकमानुषङ्गिकविषयात्मकम्। अनन्तरेषु द्विचत्वारिंशत्संख्येष्वध्यायेषु सर्वविधानां वास्तुशिल्पानां तथा ग्रामाणां नगरदुर्गप्राकाराणां शालामण्डपगोपुराट्टालिकाराजहर्म्यादीनां तेलस्तम्भपीठोपपीठाधिष्ठानाद्यङ्गप्रत्यङ्गानां सम्पूर्णं विवरणं वैज्ञानिकरीत्या विस्तरेण कृतम्। तत्र तु यानरथशय्यासनपीठिकादीपदण्डादिगृहोपकरणानां तथा च सर्वविधानां हारवलयकङ्कणकेयूरपादुकाशिरोभूषणानां च विस्तृतं विवरणमस्ति। विंशतावध्यायेष्वन्तिमेषु भास्करीयशिल्पानां वर्णनं विद्यते। तत्र देवदेवीनां यक्षविद्याधरगन्धर्वकिन्नराणां स्त्रीपुरुषाणां तथा च मुनीनां महापुरुषाणां पशुपक्षिमत्स्यकीटादीनां च मूर्त्तिनिमीटशं सकलं विवरणमुपलभ्यते येनानायासेनैवाशिक्षितेरपि शिल्पिनिर्निदोषाः प्रतिमा निर्मातुं शक्याः।
v3.c23.21
अस्मादिदं तावदसशयं ज्ञायते यदत्र मानसार सर्वमेव स्वापत्यमास्करीयशिल्पानां विवरणं कृतमिति। शिल्पकल्पनाम्नि प्रबन्धान्तरेऽस्मत्कृताभिधानस्य परिशिष्टे तथा चान्यत्रापि (२) वर्त्तमानानां मुद्रितामुद्रितानां सर्वशिल्पशास्त्राणां सचित्रं विवरणं प्रदर्शितम्। तेषु शतद्वयमितेषु ग्रन्थेषु विवरणप्राचुर्य्यविषये वा प्रस्तुतविषयविन्यासविषयं नोभयात्मकं न कोपि मानसारसदृशः। ते तु प्रायेण सर्व एव मानसारमूलका इत्यास्माभिः स्वकृतभारतीयशिल्पशास्त्रे (३) प्रदर्शितम्।
v3.c23.22
n (१) मानसारम्। अध्याय ६० पृ० ६-३५; ६५।१४-६४; ५८।६७-१००; ६५/२ १०८; ६६।२-२८। विम्बमानम्, श्लो० १५ ३२; ८१-१३८। परिशिष्टम् ५०। अंशुमद्भेदा- आगमश्छ पृ० २५१। बृहत्संहिता-अ० ५८ श्लो० ४। अहिरबुद्ध्यपुराणम् खण्ड १, शमषष्ठयपाठ अ० ७ श्लो० ८७। मत्सयपुराणम्-अ० २५८ श्लो० १८। अवशिष्टानां प्रमाणानि मदीयभारतीयशिल्पशास्त्रे १२६ तमे पृष्ठे द्रष्टव्यानि।
v3.c23.23
n (२) मदीयभारतीयशिल्पशास्त्रम् पृ० ९८-१०८।
v3.c23.24
n (३) तत्र्याषा ५, पृ० ११० १३३।
v3.c23.25
शिल्पशास्त्रेभ्योऽन्यत्रापि शिल्पानां किंचिद्विवेचनं दृश्यत एव । तथा ह्यृगथर्वादिर्वेदेषु ऐतरेयादिब्राह्मणेषु बौधायनापस्तम्बादीनां सूत्रेषु (१), नानाविधेषु बौद्धशास्त्रेषु (२), तथा मत्स्याग्निगरुडस्कन्दवायुभविष्यनारदीयादिषु पुराणेषु (३), बृहत्संहितायाम् (४) कौटिलीयॆऽर्थशास्त्रे (५), शुक्राचार्यस्य नीतिशास्त्रे (६), सूर्यसिद्धान्त-सिद्धान्तशिरोमणि-लीलावती-प्रभृतिषु ज्योतिःशास्त्रेषु (७), विविधकाव्यनाटकैतिहासेषु (८), तथा यास्कीयॆ निरुक्ते (६),
v3.c23.26
¹ (१) ऋग्वेदः ३।५३।६ ; ४।४२।६ ; ८।१०।७ ; ७।८२।६ ; १।११२।७ ; २।४१।५ ; २।३२।६ ; ७।६६।४ ; यजुर्वेदः ७।८३।५ ; १०।६।४ ; ३।१२ ; ८।४ ; ६।३५।२ तैत्तिरीयसंहिता—४।४।११ ऐतरेय-ब्राह्मणम्—८।२१। सूत्राणां प्रमाणानि मदीयभारतीयशिल्पशास्त्रे सप्तमपृष्ठे द्रष्टव्यानि ।
v3.c23.27
² (२) विमानवत्थु (टीका)—पृ० ८२ । दीघनिकाय—१।२३६ । जातकं १।१९८ ; ६।२६८ । चुल्लवग्ग दीघ० : ४।८ ; ३।४१० ; ४।१० ; ३।६ ; ५।५ ; १४ ४ ; ४।१०८ ; ३।५० ; ४।८ ; २।२ ; ४।८ ; १।१६ ; १३।२ ; १४।१ ; ८।५ ; २।४ ; २।८ ; ५।१५।६ ; १०।३ । महासुदस्सनसुत्त १।६० ; १।५६। विनय—४।३०८ ; २।६७ ; ४।४७ ९० । महावग्ग—१।३०।४ ; ३।४।६ ; ३।५।८ ; १२।५।१८ ; ५।१७।८ ; ५।१७।२ ।
v3.c23.28
³ (३) मत्स्यपु०—अ० २५२, २५५, २५७, २५८, २५६ २६२, २६३, २६८, २७०। अग्निपु०—अ० १०६, ४२, १०४, ५१, ४८, ४३, ४४, ६२, ५०, ५५, ५३, ५४, ५५ । गरुडपु०—अ० ४७, ४५, ४८ । स्कन्दपु०—माहेश्वरखण्ड, तृती०, अ० २५ । वैष्णवखण्ड, द्वितीय, अ० २४। माहेश्वरखण्ड, प्रथम, अ० २४ । वायुपु०—खण्ड १, अ० ३८ । भविष्यपु०—मध्यम०, अ० १२ । ब्राह्म०, अ० १३०, १२५, १३२ । नारदीयपु० खण्ड १, अ० ५३ । लिङ्गपु०—खण्ड २, अ० ४८ ।
v3.c23.29
⁴ (४) बृहत्संहिता अ० ५३, ५४, ५७, ५८, ७८ ।
v3.c23.30
⁵ (५) कौ० अर्थशा०—प्रकरण २२, २३, २४, २५, ६५, ६६ ।
v3.c23.31
⁶ (६) शुक्रनीति० ४।४ ; ४।६ ।
v3.c23.32
⁷ (७) सूर्यसिद्धान्त ३।१।४ । सिद्धान्तशिरोमणिः—अन्तिमखण्ड अ० ७ श्लो० ३६, ४८ । लीलावती—खण्ड २, अंश ४, अ० २। गर्गसंहिता—(हस्तलिखिता द्विग्नौकालेज-कोट्टायम) पृ० ६७–६८ । लघुशिल्परत्नतिसार०—श्लो० ३–४ ।
v3.c23.33
⁸ (८) मेघदूतम्—२।१ । विक्रमोर्वशीयम्—अङ्क ३ । उत्तररामचरितम्—अङ्क ३, चत्वारिंशत्संख्या-स्योपरितनेो गद्यसन्दर्भः । मृच्छकटिकम्—१।१९। २।८४ ; ३।१२।८ ; ६।२०८ ; ६।२१२, ३८, ५२ ; ८।२८२, ३८३ ; ८।२४७, २४८–२५१ ; २।८८, १२६ १०१, ११७, १७७–८ ; ६।२०४, २११ ; ५।१७७ ; ६।२१६ ; ६।२८८, २८१, ३०२, ३०५, ३०७, ३२०, ६० । राजतरङ्गिणी—१।१०३, १७० ; ३।३८०, ३८१ ; ४।२००, २०४ ; ५।८३, ८४, ८८, १४०–१४४, १४६, १४७, १६८, १८८, २०० ; २।८, ११, १७, १४, ३५५, ३८०, ४६१, ४४६ ; ४७८, ५८४, १८८, २१५, २१६, २४२, ५०७ ; ६।१७१, १७५, ३०२ ; ७।६६६, १६३६ ; ८।२४६, २४८, २४०२, २४१०, २४१७, २४३१, २४३३, २४५४, २७०६, ३३५२, ३२३६ । हर्षचरितम्—पृ० २१५–२१६, १५६ (मुम्बईसंस्करणम् ) । चिन्तामणिविनायकवैद्यकृतमध्ययुगीनभारतवर्षेतिहासस्य पृ० ५०३, १२७, १५२, १४३ द्रष्टव्यानि ।
v3.c23.34
⁹ (९) राजेन्द्रलालमित्रस्य इण्डोआर्य्यन्स, खण्ड १, पृ० २१–२६ । निरुक्त—(३।१३) । निघण्टु—(२।४) ।
v3.c23.35
भूमिका
v3.c23.36
अमरकोषे (१), पाणिनीये व्याकरणे (२), तथा च कारणाकामिकसुप्रभेदांशुमद्वाखानम-शास्त्रेषु (३), ए' सर्वत्रैव संस्कृतवाङ्मये स्थापत्यभास्कर्यादिशिल्पानां न्यूनाधिकं वर्णनमुप-लभ्यते । एषु पौराणिकानाम्यङ्ग मकानि च विवृतानि विवरणानि प्रायेण मानसारमूलका-न्येवेत्यपि प्रबन्धान्तरे मया दर्शितम् (४) ।
v3.c23.37
२ पाणिनीय०—३८३।७८।२।पूस ख० १, पृ० १६ ।
v3.c23.38
३ कारणामम—ख० १, पटल ३–१४, १६, १८, २०, ४२, ५६, ५८–६२, ६६, ८८, १३६ । ख० २, प० ४–२०, ६८ । कामिकामम—१० ११–३८, ४२–७२, ७४, ७५ । सुप्रभेदागम—१० २२–४० । अंशुमदामम—प० २८ । वैखानसागम—प० २२, २५ ।
v3.c23.39
तत्र खलु विट्रुवियासनामध्येयः प्राचीनः रोमकशिल्पप्रन्धो लातीनेतालीय-स्पेनीय-फरांस-जर्मान्यिङ्ग्लादिभाषास्वनूदितः परःशतसंस्करणङ्गतः । मानसारवदत्रापि ग्रन्थे सप्तति-मितानि प्रकरणानि । अत्राऽप्याद्येषु पञ्चाशन्मितेष्वध्यायेषु स्थापत्यशिल्पान्येव दर्शितानि । अवशिष्टेषु यन्त्रादिनिर्माण विविधप्रकीर्णतः । मानसारं त्वेतेषु भास्करीयशिल्पवर्णनमप्यस्ति । आद्यानामध्यायानां प्रस्तुतविषयकमवर्णनविन्यासादाद्युभयोर्ग्रन्थयोरसंदिग्धं सादृश्यं ग्रन्था-न्तरेऽस्माभिः प्रदर्शितम् (५), नामसंज्ञाविषयेऽप्यनयोद्भुतं सादृश्यं प्रतीयते ।
v3.c23.40
५ भारतीयशिल्पशास्त्रम्, पृ० १३४–१५८ ।
v3.c23.41
विद्रुवियास इति कस्यचिद् वास्तुशिल्पिन एव नाम । अस्य शिल्पप्रबन्धस्य प्रकृत संज्ञाप्यासीन्न वेत्यपि न ज्ञायते । आसीच्चेत्संदानीं लुप्तैव । मानसारमिति नामापि व्यक्तमस्पष्टं संदिग्धमनेकार्थम् । एतदेबाधुना समासेनालोच्यते ।
v3.c23.42
मानानां स्थापत्यशिल्पानां भास्करीयशिल्पानां च सारो मूलं संकलनं वा यत्र शास्त्रेऽस्ति तन्मानसारमिति ग्रन्थविशेषस्य संज्ञा संभाव्यते । प्रबन्थान्तराणामपीदृशयः सारान्ताः संज्ञा दृश्यन्ते, यथा वेदान्तसारः, न्यायसारः, ज्योतिःसारः, आचारसारः, लघुशिल्पज्योतिःसार इत्यादयः । प्रस्तुते ग्रन्थे मानसारशब्दस्य द्विविधो व्यवहारः, ग्रन्थकृत्संज्ञारूपेण ग्रन्थसंज्ञारूपेण चेति । ग्रन्थकारपरत्वेऽपि कचिद् व्यक्तिविशेषस्य संज्ञात्वेनान्यत्र तु शिल्पाचार्योद्ग्राह्यपीठां संज्ञात्वेनेति । यथा—"कृतमिति अखिलमुक्तं मानसारपुंगवैः । पितामहेन्द्रप्रमुखैः समस्तैर्देवैरिदं शास्त्रवरं पुरोदितम् । तस्मात्समुद्धृत्य हि मानसारं शास्त्रं कृतं लोकहितार्थमेतत् ॥" ( अ० ७० । पं० ११४–११८ पृ० ४१८ )
v3.c23.43
१ अमरकोषः—२।२।१–२० द्र० ।
v3.c23.44
४ भारतीयशिल्पशास्त्रम्—पृ० १११–१३३ ।
v3.c23.45
अत्र मानसारपुराश्चैिरित्यनेन शिल्पाचार्यसम्प्रदायसूचनम्, मानसारं शास्त्रमित्येतेन च ग्रन्थसंज्ञाभिधानम्। एवमन्यत्रापि, यथा— "मानसार-ऋषीणां कृतं शास्त्रं मानसारमुतिनामकमासीत् ।" (१।३६ पृ० २) "मानानां सारं संगृह्य शास्त्र संक्षेपतः क्रमात्" (२३।२ पृ० १६६)। अत्रापि ग्रन्थसंज्ञैव सूच्यते । "मानसारो बहुः श्रुतः" (७८।११ पृ० ४८८)—अस्माच्छिल्पाचार्यसम्प्रदायस्यैव द्योतनं सम्भवति । "सकलमुनिवरैर्मानसारादिमुख्यैः" (६६।११८ पृ० ५२१)—अस्मात्तु कस्यचिच्छिल्पाचार्यस्य न तु सम्प्रदायस्य प्रतीतिर्जायते ।
v3.c23.46
एतावन्त एवास्मिन् मानसारनाम्नि ग्रन्थे मानसार-शब्दस्य प्रयोगा दृश्यन्ते । एवञ्चाऽस्य शब्दस्य सम्पूर्णार्थोपलब्धिर्नैव साध्यते ।
v3.c23.47
शिलालेखद्वये (१), मानसपं: नतु मानसार: इति कस्यचिच्छिल्पिनः संज्ञा समुपलभ्यते । अग्निपुराणेऽपीदृशः सन्देहमूलको मानसारस्योल्लेखो दृश्यते— "तदूर्ध्वं तु भवेद् वेदी सकण्ठा मजसारकम्" (२)—इति । अत्र 'मलसारकम्' 'मानसारकम्' चेति पाठद्वयं सम्भाव्यते ।
v3.c23.48
१ बांएकाफ़ी-प्रोग्रेस-रिपोर्ट— १८०१— सं० १०७, २०८—पृ० १६०, दि० ५ ; पृ० १३०, दि० ५ ; पृ० १७१।१७६, दि० ५। [^२] अग्निपुराणम्—अ० ४२ श्लो० ११७ । [^३] नेरिश्वररामचन्द्रकालेकृतसंस्करणम्—१८१७—पृ० ४, १, ४३ । [^४] फस्मस्कृतभारतीयशिल्पशास्त्रम्—अ० ५—पृ० १६१, १७१, १८७, १८९
v3.c23.49
ख्रिष्टसप्तमशताब्दीयाचार्यदण्डिविरचिते दशकुमारचरिते प्रधानकुमारपितू राजहंसस्य प्रतिद्वन्द्वी मालववास्तव्यः कोऽपि मानसाराख्यो राजा पुनःपुन्येन श्रूयते (३), यथा— "मगधनायको मालवेश्वरं प्रत्यप्रसंग्रामघस्मरं समुत्कटमानसारं मानसारं प्रति......संग्रामाभिलाषेण रोषेण महताविष्टो निर्ययौ ।" इति । "राजहंसो मुनिमभाषत, भगवन् मानसारः प्रबलेन दैवबलेन मां निर्जित्य मद्भाग्यं राज्यमनुभवति ।" इति । "अवन्तिसुन्दरी नाम मानसारनन्दिनी......नगरीपान्तरस्योद्याने विहारोत्कण्ठया मनोभवमर्चयन्ती रेमे ।" इति च ।
v3.c23.50
सन्दर्भत्रयेऽप्यत्र मानसार इति राज्ञ एव नाम न तु कस्यचिच्छिल्पिन ऋषेर्वेति ध्रुवम् । ग्रन्थकृदाश्रयदातृराज्ञानाम्नापि कदाचिद् ग्रन्थाभिधानं विधीयते—यथा गुप्तवंश्यास्कन्दगुप्तनाम्नैव स्कन्दपुराणस्य समाख्यासीदिति केचिन्मन्यन्ते । हर्षचरितं तु हर्षनृपनाम्नैवेति च । अत्र खलु मानसारग्रन्थे मालवाधिपाभिधयास्य ग्रन्थस्य नामकरणं न कैरपि तत्तच्छादिप्रकारैर्निर्धारितम् । परं तु षष्ठशताब्दीयबृहत्संहिताया मानसारं प्राचीनतर पञ्चमशताब्दीय-मत्स्यपुराणस्य समसामयिकं चेति मयान्यत्र प्रदर्शितम् (४) ।
v3.c23.51
अपि च सन्त्यत्र कारणान्तराणि मानसारस्य पञ्चमशताब्दीयत्वसम्भावनायाम् । तत्रैदमन्यतमम्—मानसारै गुप्तविशमिति पदं सप्तविंशार्थे प्रयुक्तम्, अतोऽत्र गुप्त-शब्दः सप्तसंख्यावाचक एवेति । तत्र गुप्तवंशे सप्तैव भूपाः प्रधाना आसन्, अतः स्कन्दगुप्तपर्यन्त-मभून्नान्तं गुप्तसाम्राज्यमिति । अयमभिप्रायो मानसारप्रणयनकाले सप्त गुप्तनृपा एवं सुप्रसिद्धा अभूवन् यद् गुप्त इति पदं सप्तपर्यायतयैव परिखातमिति ।
v3.c23.52
ख्रिष्टप्रथमशताब्दीयेन विट्रुवियासनाम्ना ग्रन्थेन सह मानसारस्य विलक्षणं सादृश्यमत्र स्मार्यम् । सादृश्यस्यास्य द्वयर्था सम्भाव्यते, रोमकसिद्धान्तवद् भारतीयमानसारमपि विट्रुवियासमूलकम् अथवा मानसारमेवावलम्ब्य विट्रुवियासग्रन्थः प्रणीत इति । कि चैतावुभावपि कस्माच्चित्तृतीयस्मादनिर्दिष्टाइ ग्रन्थात् परम्परागतादाम्नायवचनान् संप्रदावाद्वा विनिर्गतावित्येतदपि सम्भावयितुं शक्यते ।
v3.c23.53
कदा केन मानसारं विरचितं केन ग्रन्थेन सहास्य कीदृशः सम्बन्धोऽस्तीत्याद्यनुसन्धित्सा न तावत् फलवती भविष्यति यावद् ग्रन्थकृतेऽनन्यत्वं न निर्धार्थते । मानसारः क आसीत् । किमेष कश्चिदपिः शिल्पी नरपतिर्वा । केऽस्य पूर्वपुरुषाः कश्चास्य मातामहवंशः । कस्मिन् देशे काले चासौ प्रादुर्भूतः । आहोस्विन्मानसार इति ग्रन्थस्यैव संज्ञा न तु व्यक्तिविशेषस्य । यद्येऽस्तिन्नं किमुपङ्गमस्य रचयितृत्वम्, कथं वा ग्रन्थकारपरिचयः सर्वथैव विलुप्तः । मौर्मालास्थाने खल्वेतद्वर्ततेऽधुना विशेषज्ञानाम् ।
v3.c23.54
इत्यावेदयति **श्रीप्रसन्नकुमाराचार्यः ।**
Linked texts (53)
- Bhāgavatapurāṇa — Vyāsa, Sanskrit
- Mahāvagga — Pāli
- Rājataraṅgiṇī — Kalhaṇa, Sanskrit
- Bṛhatsaṃhitā — Varāhamihira, Sanskrit
- Mṛcchakaṭika — Śūdraka, Sanskrit
- Taittirīyasaṃhitā — Sanskrit
- Kāraṇāgama — Sanskrit
- Sūryasiddhānta — Maya, Sanskrit
- Nirukta — Yāska, Sanskrit
- Aitareyabrāhmaṇa — Mahidāsa Aitareya, Sanskrit
- Dīghanikāya — Pāli
- Ṛgvedasaṃhitā — Sanskrit
- Jātaka — Pāli
- Agnipurāṇa — Vyāsa, Sanskrit
- Nāradapurāṇa — Vyāsa, Sanskrit
- Cullavagga — Pāli
- Kāmikāgama — Sanskrit
- Garuḍapurāṇa — Vyāsa, Sanskrit
- Vāyupurāṇa — Vyāsa, Sanskrit
- Liṅgapurāṇa — Vyāsa, Sanskrit
- Matsyapurāṇa — Vyāsa, Sanskrit
- Ahirbudhnyasaṃhitā — Sanskrit
- Mānasāra — Sanskrit
- Kauṭilīya Arthaśāstra — Kauṭilya, Sanskrit
- Suprabhedāgama — Sanskrit
- Aṃśumadāgama — Sanskrit
- Vimānavatthu — Pāli
- Aṣṭādhyāyī — Pāṇini, Sanskrit
- Kāśyapaśilpa — Sanskrit
- Uttarajjhayaṇa — Ardhamāgadhī Prakrit
- Līlāvaī — Kouhala, Māhārāṣṭrī Prakrit
- Bhaviṣyapurāṇa — Vyāsa, Sanskrit
- Kalāvilāsa — Kṣemendra, Sanskrit
- Daśakumāracarita — Daṇḍin, Sanskrit
- Mahāsudassanasutta — Pāli
- Harṣacarita — Bāṇabhaṭṭa, Sanskrit
- Tibetan translation ('Chi med mdzod) — Classical Tibetan
- Lalitāsahasranāma — Sanskrit
- Kādambarī — Bāṇabhaṭṭa, Sanskrit
- Kalpasūtra — Bhadrabāhu, Ardhamāgadhī Prakrit
- Meghadūta — Kālidāsa, Sanskrit
- Harivaṃśa — Vyāsa, Sanskrit
- Kāmasūtra — Vātsyāyana Mallanāga, Sanskrit
- Vikramorvaśīya — Kālidāsa, Sanskrit
- Samavāyaṃga — Sudharman, Ardhamāgadhī Prakrit
- Viṣṇupurāṇa — Vyāsa, Sanskrit
- Skandapurāṇa — Vyāsa, Sanskrit
- *Vinaya — Sanskrit
- Nighaṇṭu — Yāska, Sanskrit
- Uttararāmacarita — Bhavabhūti, Sanskrit
- Siddhāntaśiromaṇi — Bhāskara II, Sanskrit
- Vṛddhagārgīyajyotiṣa — Garga, Sanskrit
- Hampe inscription of Krishnaraya, dated Saka 1430 (ed. Hultzsch 1892) — Sanskrit