Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s12.24

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s12.24

Language
English

v3.c24.s12.24

देवगर्भमिति प्रोक्तं नरगर्भमिहोच्यते ।
द्विजातीनां च वर्णानां गृहगर्भं यथाक्रमम् ॥ ७७ ॥
पूर्वद्रव्यं तु सर्वेषु तत्तच्चिन्हं च संयुतम् ।
चक्रं च कण्डलं (कमण्डलुं) दण्डं यज्ञसूत्रं च हेमकम् ॥ ७८ ॥
ओङ्कार(रं) निर्मितं हेमं (म्ना) तच्चतुर्दिशि मध्यमे ।
एवं ब्राह्मणगर्भं स्याद्भूपतीनां च वक्ष्यते ॥ ७९ ॥
ख(ग)ङ्गं खड्गं च छत्रं च चामरं च चतुष्टयम् ।
हेमनिर्मितसर्वं च चतुर्दिक्षु विनिक्षिपेत् ॥ ८० ॥
तुलां हेमेन(हेम्ना च ) निर्माय मध्यकोष्ठे तु विन्यसेत् ।
एवं तु वैश्यगर्भं स्यादनुक्तं शास्त्रमार्गवित् ॥ ८१ ॥
लाङ्गलं च युगं [ चैव ] स्वर्णेन मध्यमे (शुद्रे च) न्यसेत् ।
ब्रह्मारूपं द्विजातीनां भूपानां चेन्द्ररूपकम् ॥ ८२ ॥
विशां वैश्रवणं रूपं शूद्राणां नररूपकम् ।
एवं तु प्रतिमं प्रोक्तमेतद्गर्भोपरि न्यसेत् ॥ ८३ ॥
गृहगर्भमिति प्रोक्तं ग्रामगर्भमिहोच्यते ।