Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s12: गर्भविन्यासविधानम्

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s12

Language
English

गर्भविन्यासविधानम्

v3.c24.s12.1

देवानामालयादीनां द्विजातीनां च वक्ष्यते ।
गृहग्रामादि सर्वेषां गर्भविन्यासमुच्यते ॥ १ ॥
नानाद्रव्यसुसंपूर्ण गर्भं सर्वशुभप्रदम् ।
हीनद्रव्यमनेश्वर्यं गर्भं तदशुभप्रदम् ॥ २ ॥
गर्भव्यासं तु तस्मात्तु निक्षिपेत्सम्यगुक्तवत् ।
गर्भावटस्य निम्नं स्यादधिष्ठानसमोन्नतम् ॥ ३ ॥
इष्टकैरपि पाषाणैश्चतुरश्रं समं भवेत् ।
जलं संपूय्य(सृज्य) तन्मूले तस्यान्तं सर्वमृत् क्षिपेत् ॥ ४ ॥
नयाद्रिमृत्तिका चैवं वल्मीकस्य तु मृत्तिका ।
कर्कटावटमृद्धिश्च खनित्वलमिति स्थित(तम्) ॥ ५ ॥
समुद्रतीरमृद्धिश्च वृषभशृङ्गस्य मृत्तिका ।
गोखुराम्रमुखैश्च चैवं तु दश (सप्त) मृत्तिका ॥ ६ ॥
तदूर्ध्वे मध्यदेशे तु पीनकं तं (पद्मकन्दं) विनिक्षिपेत् ।
इन्द्रे चोत्पलकन्दंतु याम्ये कौमुदकन्दकम् ॥ ७ ॥
पश्चिमे न्यस्य सौगन्धिं काकोली (कलीं) तु चोत्तरे ।
तस्योपरि विन्यसेदष्टधान्यं यथाक्रमम् ॥ ८ ॥
शालिमीशानके न्यस्य व्रीहिं प्राग्दिशि विन्यसेत् ।
कोद्रवं चाग्निकोणे तु कङ्गुं याम्ये तु विन्यसेत् ॥ ६ ॥
मुद्गं नैर्ऋत्यकोणे तु मा' प्रत्यग्विनिक्षिपेत् ।
कुल (त्य) त्थं वाम(यु) कोणो तु तिलं विन्यस्य चोत्तरे ॥ १० ॥
तस्य चोपरि निक्षिप्य मञ्जूषान्तं विनिर्मितम् ।
सन्मानं चैकभूमाद्दिद्वादशाशं(न्तं) तङ्गानि (नां) वै ॥ ११ ॥

v3.c24.s12.2

हर्म्याणां तद्वशालुर्यात्तत्तदाकारवद्भवन् ।
त्रिचतुर्मात्रमारभ्य द्विरङ्गुलविवर्धनात् ॥ १२ ॥
पञ्चपञ्चविंशमात्रान्तं द्वादशं विपुलं भवेत् ।
तद्विस्तारसमं वापि तदष्टांशोनमेव च ॥ १३ ॥
पञ्चांशोन (शोनेान) मेवं वा गर्भभाजनमु (स्यो) क्त्यम् ।
एवं चतुर्विधं ( रंशोनं) प्रोक्तं (स्याद्) दण्डमानेन वक्ष्यते ॥ १४ ॥
हर्म्यपादस्य विष्कम्भसमं मञ्जूषविस्तृतिः ।
तदष्टांशैकहीने वा तत्त्रिपादं प्रकल्पयेत् ॥ १५ ॥
तुङ्गं प्रागुक्तवत्कुर्याद्वित्ति (ते) रातिमिहोच्यते ।
एकद्वित्रि(त्र) यमेवापि सर्वभित्तिविशालकम् ॥ १६ ॥
सद्भिस्तिभागमेकं वापि विधानं तदुच्छ्रयम् ।
मञ्जूषोच्छ्रं (च्छ्रय) चतुर्भागं तत्तदेका (कमा) सनं भवेत् ॥ १७ ॥
तद्द्वयं चाह्रितुङ्गं तु सार्धैकांशं प्रस्तरान्वितम् ।
त्रिवर्गमण्डपाकारमङ्घ्रिः स्त्वा (पञ्च) न्तं प्रविष्टके ॥ १८ ॥
पञ्चविंशतिकोष्ठं वा नवकोष्ठै (नव) कमेव च ।
एकांशं कोष्ठभित्त्युच्चं घने प्रागुक्तवन्नयेत् ॥ १६ ॥
उपपीठपदे देवान् कोष्ठं (ष्ठे) चोक्तक्रमं न्यसेत् ।
पूर्वान्हं च तदा ज्ञात्वा कारयेदधिवासनम् ॥ २० ॥
गन्धाक्षतैश्च पुष्पैश्च धूपदीपेन चार्चयेत् ।
सकलीकरणं कुर्यात्पुण्याहं वाचयैत्ततः ॥ २१ ॥
स्थिरवास्तुं ततो गच्छेद्वस्तारे तु पदैः सह ।

v3.c24.s12.3

(मन्त्रः)

v3.c24.s12.4

हे वास्तो त्विह गर्भस्य वृद्धिं कुरु नमाम्यहम् ॥ २२ ॥
ब्रह्मादिदेवतानां च ओ(त्वो) ङ्कारादिनमोऽन्तकम् ।
तत्तत्स्वनाममन्त्रेण च (चा) र्चयेद्वास्तुदेवताः ॥ २३ ॥

v3.c24.s12.5

चालयेत्पञ्चगव्यैस्तु गर्भमञ्जूषिकां बुधः ।
सूत्रैरावेष्टनं कुर्यात्तस्य चोपरि विन्यसेत् ॥ २४ ॥
तदेव गन्धजलैः पूर्णकुम्भं विनिक्षिपेत् ।
परितस्तु चतुर्विंशत्कलशान् जलपूरितान् ॥ २५ ॥
निक्षिप्य सूत्रैरावेष्ट्य वस्त्रं पल्लवकूर्चकैः ।
अलङ्कृत्य स्थपति(श्च) वरवेषोत्तरीयवान् ॥ २६ ॥
गन्धपुष्पैः समभ्यर्च्य भुवनाधिपतिं जपेत् ।
तस्य [प्र]दक्षिणपार्श्वे [तु] चाक्षतैः स्थण्डिलं न्यसेत् ॥ २७ ॥
ब्रह्मादिदेवतानां च सामान्यं हि बलिं क्षिपेत् ।
तत्प्राचि देशे सौम्ये तु जुहुयाद्वास्तुहोमकम् ॥ २८ ॥
प्रत्येकं पञ्चविंशैत्सत्समिद्वा(घा)ज्यं तिलं चरुम् ।
ब्रह्मार्कविवस्वांश्च मित्रभूधरदेवताः ॥ २६ ॥
एतेभ्यो नामविस्तारमादिमन्त्रं समुच्चरेत् ।
[स्वाध्यायवेदघोषैस्तु] सह मङ्गलघोषषैः ॥ ३० ॥
पश्चात्तु स्थण्डिलं कुर्याच्छुक्लशालिभिरर्चतैः ।
प्रादव(अक्षतं) न्यस्य मण्डूकमथवा परमासनम्(शायिकम्) ॥ ३१ ॥
दर्भ प्रस्तरणं कृत्वा दर्भैरास्तीर्य चोपरि ।
सकलाख्यं पदं कृत्वा [दर्भैरास्तीर्य] जलपुष्पकैश्च बुधः ॥ ३२ ॥
व्याहृत्यन्तो यदा वह्निं होमस्थानं विसर्जयेत् ।
शालिभिस्तिलकं कृत्वा पश्चाद्धामस्य चोत्तरं ॥ ३३ ॥
पीत्वा शुद्धं पयोऽप्येस्तु (रात्रौ) शयेत्ततन्निच्छ(यीत शि)ल्पतन्त्रवित् ।
सूत्रग्राही तक्षकश्च वर्धकी द्रव्यसंयुतम् ॥ ३४ ॥
तत्रस्थं स्थपतिं श्रेष्ठं सेवां कुर्यात्तु जाग्रतः ।
स्वाध्यायं मन्त्रघोषैश्च ब्राह्मणैश्च युतस्ततः ॥ ३५ ॥
पश्चात्स्नात्वा तु वाचम्य विश्रत[स्तु] प्रविशयेत् ।
सकलीकरणं कृत्वा स्थपतिर्वरवेषवान् ॥ ३६ ॥

v3.c24.s12.6

सुमुहूर्ते सुलग्ने च तद्रव्यभाजनात्ततः ।
निक्षिप्य चोक्तवत्पश्चात्सर्वमङ्गलघोषषैः ॥ ३७ ॥

स्वस्तिं वृषभं चैव लक्ष्मीं दर्पणमेव च ।
स्वर्णेन स्वस्तिकं (स्तं च) कुर्याद्वृषभं चायसेन तु ॥ ३८ ॥ 76

लक्ष्मीं ताम्रेण कुर्यात्तु दर्पशं रजतेन तु ।
स्वस्तिकं चेन्द्रकोष्ठे तु चतुः(त्वारं) विन्यस्य क्रमात् ॥ ३९ ॥

जयन्ते कोष्ठके चैव जातिहिङ्गुल्य(लं) निक्षिपेत् ।
हरितालं भृशे वासे वितथे च मनःशिला (लाम्) ॥ ४० ॥ 80

विन्यसेद्गृहराजस्य कोष्ठके माक्षिकं निक्षिपेत् ।
सुग्रीवस्य तु कोष्ठे तु राजावर्त्तं(तं) तु निक्षिपेत् ॥ ४१ ॥

शोषे गैरिकं न्यस्य मुख्यके चास्य (ऽञ्जनं) निक्षिपेत् ।
अदिते(ता) गन्धकं न्यस्य मधु (पद्म) रागं तु मन्मथे ॥ ४२ ॥ 84

ततश्चाप्य (र्ये) प्रवालं तु साविन्द्रे (श्रे) पुष्परागकम् ।
विवस्वते (ति) च वैसू (डू) यं वज्रमिन्द्रस्य कोष्ठके ॥ ४३ ॥

मित्रकस्येन्द्रनीलं स्यात्तथा रुद्रस्य कोष्ठके ।
महानीलं विनिक्षिप्य मरतकं (कतं) तु भूधरे ॥ ४४ ॥ 88

मुक्ता [म] प्वत्स्ववासेषु विन्यसेत्तु यथाक्रमम् ।
विष्णु कान्ताभि(चक्रमीश) कोष्ठे तु त्रिशूलं चेन्द्रकोष्ठके ॥ ४५ ॥

श्रीदेव्या (वीम) न्प्रिकोष्ठे तु श्रयन्ते(न्तं) निह(यम) कोष्ठके ।
दूर्वा नैर्ऋत्यकोष्ठे तु भृङ्गीं वारुणकोष्ठके ॥ ४६ ॥ 92

अपा (प) मार्गं च वायव्ये चैकपत्राम्युजो (जमु) त्तरे ।
विन्यसेद्योषधिं चाष्टौ सुशाल (महेन्द्र) मेवं क्रमात्ततः ॥ ४७ ॥

जयन्ते (पर्जन्ये) चन्दनं क्षिप्य चान्तरिक्षेऽगुरुं तथा ।
विथते (पूष्णि तु) क्षिप्य कर्पूरं भृगे (शे) शैलं विनिक्षिपेत् ॥ ४८ ॥ 96

सुग्रीवे च (दौवारिके) लवङ्गं स्याद्रोगे ह्वायायतं (एलांलवां) क्षिपेत् ।
मुख्ये (नागे) जातिफलं क्षिप्य उ (चो) दिते कोलकं न्यसेत् ॥ ४९ ॥

v3.c24.s12.7

कपालं च त्रिशूलं च खट्वाङ्गं खण्डमेव (परशुं) च ।
वृषभं चैव साम्बं (पिनाकं) च हरिणं शार्ङ्गमेव च ॥ ५० ॥
एवं चाष्टविधं रूपं सौ(सा)वर्णेन प्रकल्पयेत् ।
इन्द्रादिकोष्ठेषु कपालादि(र्दिं) न्यसेत्क्रमात् ॥ ५१ ॥
गर्भभाजनमाच्छाद्य विधानेन तु निष्फलम् ।
तद्भाजनं च ताम्रे [ण] प(व)रवेष(पो) गुरोः (रुणा) सह ॥ ५२ ॥
वास्तुप्रदक्षिणां कुर्यात्स्त्रापयेत्स्थपतिर्बुधः ।
घटादि कलशं चैव [तेषां] तज्जलेनाभिषेचयेत् ॥ ५३ ॥
स्वाध्यायवेदघोषैश्च सर्वमङ्गलघोषवैः ।
भाजनान्तं (जने तं) समान्तश्च ध्या(चा) शैलादि विवस्वतः ॥ ५४ ॥
ध्यात्वाऽनन्तस्य मूर्त्ति [तदूर्ध्वं] धरातलं तु (स) सागरम् ।
पर्वताष्टमहानागैर्(गम)ष्टदिक्पालकैः (कान्) क्रमात् ॥ ५५ ॥
तत्तत्स्वनाममन्त्रेण पूजयेच्च विशेषतः ।
सृष्टिं(स्रष्टारं) विश्वकर्माणं ध्यानं कृत्वा तु वार्चयेत् ॥ ५६ ॥
सृष्टिस्थितिलयाधारं भुवनाधिपतिं मनाक् ।
गन्धपुष्पादिधूपैश्च नैवेद्यादिभिरर्चयेत् ॥ ५७ ॥
सारदारु शिला(लां) वापि चेन्द्रनी(की)लं प्रकल्पयेत् ।
त्रिचतुष्पञ्चमात्रं वा स्वस्तिकं तद्विधायतम् ॥ ५८ ॥
चतुरश्रं तु तन्मूले वृत्तं वाथ तदग्रकम् ॥ ५९ ॥
एवं द्वित्र्यङ्गुलं वापि लोहजैः (ज) प्रतिमोदयम् ।
चतुर्भुजं त्रिनेत्रं च जटामकुटभूषितम् ॥ ६० ॥
वरदाभयसंयुक्तं कृष्ण्वापरशुधारिणम् ।
स्थानकं चासनं वापि एतत्तु प्रतिमं भवेत् ॥ ६१ ॥
कीलतारसममध्यर्धं द्विगुणं वा ग (फ) लक भवेत् ।
चतुरश्रं समं कृत्वा सारदारुजला (ह्या वा) श्मना ॥ ६२ ॥

v3.c24.s12.8

फलका भाजनोर्ध्वं तु तदूर्ध्वं चन्द्रकीलकम् ।
ततः प्रतिमसंयुक्तं स्थापयेत्स्थपतिर्बुधः ॥ ६३ ॥

v3.c24.s12.9

परितस्त्विष्टकाभिः सहक्षैरोपधैः सह ।
दृढीकृल्यमथ ज्ञात्वा पुष्पवस्त्रैश्च शोभितम् ॥ ६४ ॥

v3.c24.s12.10

हर्म्यादिद्वारसर्वेषां पादमूले वा दक्षिणे ।
तत्पादमूले (ल) देशे वा तथोपानप्रदेशके ॥ ६५ ॥

v3.c24.s12.11

कुमुदाग्रे गलो वापि विस्तरे प्रकरैः (प्राकारं) बुधः ।
कुड्यस्तम्भे गृहस्तम्भे हर्म्यगर्भं विनिक्षिपेत् ॥ ६६ ॥

v3.c24.s12.12

तान्य (तदन्यो) त्सेधं तन्नाभाति भवेत्सर्वविपस्करम् ।
एवं रुद्राक्षये गर्भमन्यगर्भमिहोच्यते ॥ ६७ ॥

v3.c24.s12.13

विष्णुधिष्ण्यस्य गर्भान्तं रुद्रचिह्नं विवर्जयेत् ।
प्रागुक्तं द्रव्यसंयुक्तं विष्णुचिह्नानि योजयेत् ॥ ६८ ॥

v3.c24.s12.14

मध्ये चक्रं तु भौ (है) मंन भाजनान्तं विनिक्षिपेत् ।
रौप्येण शङ्खं ताम्रेण चापं चैव तु वामके ॥ ६६ ॥

v3.c24.s12.15

त्रपुसीसेन खड्गं च वायव्येन तु दक्षिणे ।
प्राङ्मुखे ताक्ष्यैरूपं च हेमजेन प्रकारयेत् ॥ ७० ॥

v3.c24.s12.16

एवं च विष्णुगर्भं स्याद्ब्रह्मगर्भमिहोच्यते ।

v3.c24.s12.17

(ब्रह्मगर्भम् )

v3.c24.s12.18

यत्र वस्तूनि वास्तूनि ब्रह्मस्थाने विशेषतः ॥ ७१ ॥

v3.c24.s12.19

ब्रह्मगर्भं क्षिपेत्काले तस्य चिह्नं च योजयेत् ।
क्रोङ्कारं निर्मितं हेमं(म्ना) मध्यकोष्ठे तु विन्यसेत् ॥ ७२ ॥

v3.c24.s12.20

हेमजं यज्ञसूत्रं स्यादोङ्कारस्योपरि न्यसेत् ।
स्वस्तिकादीनि व(स्व)र्णेन चतुर्दिक्षु विनिक्षिपेत् ॥ ७३ ॥

v3.c24.s12.21

मण्डलं (कमण्डलुं) वा ततो (त्र) निर्मितं ताम्रमे (म्रेणै)व च ।
अक्षमालां च ताम्रेण कुण्डवयं च वामके ॥ ७४ ॥

v3.c24.s12.22

ब्रह्मगर्भमिति प्रोक्तं प्रतिमं तत्स्वरूपकम् ।
अन्य[था] देवदेवीनां सर्वेषा (वांसा) मालयादिभिः (यु) ॥ ७५ ॥
तत्तच्चिन्हानि रूपं च स्वर्णलोहेन निर्मितः (तम्) ।
पूर्वद्रव्येण संयुक्तं गर्भमेवं विनिक्षिपेत् ॥ ७६ ॥

v3.c24.s12.23

( नरगर्भम् )

v3.c24.s12.24

देवगर्भमिति प्रोक्तं नरगर्भमिहोच्यते ।
द्विजातीनां च वर्णानां गृहगर्भं यथाक्रमम् ॥ ७७ ॥
पूर्वद्रव्यं तु सर्वेषु तत्तच्चिन्हं च संयुतम् ।
चक्रं च कण्डलं (कमण्डलुं) दण्डं यज्ञसूत्रं च हेमकम् ॥ ७८ ॥
ओङ्कार(रं) निर्मितं हेमं (म्ना) तच्चतुर्दिशि मध्यमे ।
एवं ब्राह्मणगर्भं स्याद्भूपतीनां च वक्ष्यते ॥ ७९ ॥
ख(ग)ङ्गं खड्गं च छत्रं च चामरं च चतुष्टयम् ।
हेमनिर्मितसर्वं च चतुर्दिक्षु विनिक्षिपेत् ॥ ८० ॥
तुलां हेमेन(हेम्ना च ) निर्माय मध्यकोष्ठे तु विन्यसेत् ।
एवं तु वैश्यगर्भं स्यादनुक्तं शास्त्रमार्गवित् ॥ ८१ ॥
लाङ्गलं च युगं [ चैव ] स्वर्णेन मध्यमे (शुद्रे च) न्यसेत् ।
ब्रह्मारूपं द्विजातीनां भूपानां चेन्द्ररूपकम् ॥ ८२ ॥
विशां वैश्रवणं रूपं शूद्राणां नररूपकम् ।
एवं तु प्रतिमं प्रोक्तमेतद्गर्भोपरि न्यसेत् ॥ ८३ ॥
गृहगर्भमिति प्रोक्तं ग्रामगर्भमिहोच्यते ।

v3.c24.s12.25

( ग्रामगर्भम् )

v3.c24.s12.26

ग्रामादीनां नगरादीनां पुरपत्तनखर्वटे ॥ ८४ ॥
कोष्ठकोलादि सर्वेषां गर्भस्थानमिहोच्यते ।
स्थिरवास्तुकुचिदेशे [तु] चरवास्तु(स्तोस्) तथापि च ॥ ८५ ॥
ग्रामद्वारस्य योगे वा गर्भश्चक्रं प्रकल्पयेत् ।
पुरुषाञ्जलिमात्रे तु अध्रन्यास्रं तु निम्नकम् ॥ ८६ ॥

v3.c24.s12.27

मृत्कन्दजलधान्यादीन्(नि) पूर्वोक्तानि च विन्यसेत् ।
पञ्चा[ङ्गु]लमारभ्य द्विव्रगङ्गुल विवर्धनात् ।। ८७ ।।
सैकाङ्गुिलान्तं च भाजने पञ्चधा तति(तिः) ।
पञ्चविंशतिकोष्ठे(ष्ठं) वा (नव)नवकोष्ठमथापि वा ।। ८८ ।।
शेषं तु पूर्ववत्कुर्याद्द्रव्यादीनां(नि) तु पूर्ववत् ।
इन्द्रे राजतदन्ती(न्तिनं) वाग्नौ मेषं च वायसा ।। ८६ ।।
मृत्युरूपा(पं)महिषं याम्ये नर(रं) वै(से)कत(तं) नैर्ऋते ।
पश्चिमे राजतं ग्राहं(हं) वायव्ये मृगं चायसम् ।। ६० ।।
इवस्ततस्तु (ऐरावतं तु) सौम्ये तु राजता(तं) वृषभे(भमौ)शके ।
एवं प्रक्षिप्य वेश्मस्य(नः) पूर्वोक्तैर्द्रव्यकैः सह ।। ६१ ।।
ग्रामगर्भमिति प्रोक्तं जलगर्भमिहोच्यते ।

v3.c24.s12.28

( जलगर्भम् )

v3.c24.s12.29

वापीकूपतटाकेषु [ वा ] मध्ये गर्भ नगञ्जलिम् ।। ६२ ।।
मण्डूकं पाञ्चजन्यं च मत्स्यं कूर्म च राजतम् ।
इन्द्रादिषु चतुर्दिक्षु विन्यसेत्तु यथाक्रमम् ।। ६३ ।।
मध्ये सुवर्णकुलीरं शेषं प्रागुक्तवन्नयेत् ।
एकद्वादशभूम्यन्तं चेष्टके[न] द्वादशान्ततः ।। ६४ ।।
हर्म्यं निर्माणतो वक्ष्ये प्रथमे( ममि )ष्टकलक्षणम् ।
सप्ताङ्गुल्यं समारभ्य द्विव्रगङ्गुलविवर्धनात् ।। ६५ ।।
एकोनविं(त्रिं)शदङ्गुल्यं त्रिंशदङ्गुलान्तकम् [वा]।
विस्तारात्पादमाधिक्यमर्धपादेनमाधिकम् ।। ६६ ।।
तत्समं चाधिकं वापि चेष्टकायाममिष्यते ।
विस्तारार्धं घनं कुर्यात्समं तु चतुरष्ट(श्र)कम् ।। ६७ ।।
शैलजं शिला चैव चेष्टके पे(चे)ष्टकां तथा ।
स्त्रीपुन्नपुंसकं ज्ञात्वा शिला वा चेष्टकस्तथा ।। ६८ ।।

v3.c24.s12.30

गर्भेण सहितं स्थाप्य पूर्वके तु प्रदेशके ।
अथवा पाञ्चन्त(पञ्चसु) पूर्वे तु हितकाले विनििक्षिपेत् ॥ ९९ ॥
ईशाने वापि नैऋर्त्ये वायव्ये वापि दक्षिणे ।
एवं सर्वेषु(षां) हर्म्याणां शिवसद्मैः(द्मनः) विशेषतः ॥ १०० ॥
पूर्वोक्तस्थानदेशे वा मध्ये वा प्रथमेटके (कम्) ।
जन्मान्तं वाथवा प्रान्तं कुमुदान्तं वा गलान्तकम् ॥ १०१ ॥
पट्टिकान्तं क्षिपेद्वापि विन्यसेत्प्रथमेटकम् ।
पूर्ववच्चौषधिरक्तं(कन्दं) निक्षिपेदिष्टकैः सह ॥ १०२ ॥
इष्टकाविधि(इष्टविधिना) वासादौ स्थापयेत्प्रथमेटकम् ।
प्रागिष्टके सकारं तु दक्षिणे तु षकारकम् ॥ १०३ ॥
पश्चिमे तु सकारं स्याच्चोत्तरे तु व(ह)कारकम् ।
मध्ये तु प्रणवं प्रोक्तं विन्यसेच्चाक्षरं क्रमात् ॥ १०४ ॥
प्रागिष्टकं दक्षिणां दीर्घं दक्षिणे पश्चिमायतम् ।
पश्चिमं चोत्तरायामं चोत्तरं चेन्द्रकायतुम् ॥ १०५ ॥
मध्ये चौषधिरक्तानि विन्यसेच्चोत्तरङ्कधः ।
स्थपतिः स्थापकश्चोभौ कुर्यात्(तां) कर्ममि(इ)दं क्रमात् ॥ १०६ ॥
शिष्टेष्टकाञ्चिल्लिङ्गा[दि] ज्ञात्वा संग्राहा शिल्पिरराट् ।
पुरुषं(ष)देवविमानस्य(ने) स्थापयेत्पुरुषेटकम् ॥ १०७ ॥
गर्भन्यासं च रात्रौ च दिवाकाले [इ]ष्टका भवेत् ।
गृहगर्भमन्तर्मुखं स्याद्द्रामगर्भं बहिर्मुखम् ॥ १०८ ॥
गर्भन्यासविधिं सम्यक् प्रोक्तं तत्प्रथमेटकम् ।
अनुक्तं कर्म यद्यस्तु स्वगृहं त्वास(ग)मोक्तवत् ॥ १०९ ॥

v3.c24.s12.31

इति मानमारे वास्तुशास्त्रे गर्भंन्यासविधानं नाम द्वादशोऽध्यायः।

Linked texts (6)