Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s12.30
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s12.30
- Language
- English
v3.c24.s12.30
गर्भेण सहितं स्थाप्य पूर्वके तु प्रदेशके ।
अथवा पाञ्चन्त(पञ्चसु) पूर्वे तु हितकाले विनििक्षिपेत् ॥ ९९ ॥
ईशाने वापि नैऋर्त्ये वायव्ये वापि दक्षिणे ।
एवं सर्वेषु(षां) हर्म्याणां शिवसद्मैः(द्मनः) विशेषतः ॥ १०० ॥
पूर्वोक्तस्थानदेशे वा मध्ये वा प्रथमेटके (कम्) ।
जन्मान्तं वाथवा प्रान्तं कुमुदान्तं वा गलान्तकम् ॥ १०१ ॥
पट्टिकान्तं क्षिपेद्वापि विन्यसेत्प्रथमेटकम् ।
पूर्ववच्चौषधिरक्तं(कन्दं) निक्षिपेदिष्टकैः सह ॥ १०२ ॥
इष्टकाविधि(इष्टविधिना) वासादौ स्थापयेत्प्रथमेटकम् ।
प्रागिष्टके सकारं तु दक्षिणे तु षकारकम् ॥ १०३ ॥
पश्चिमे तु सकारं स्याच्चोत्तरे तु व(ह)कारकम् ।
मध्ये तु प्रणवं प्रोक्तं विन्यसेच्चाक्षरं क्रमात् ॥ १०४ ॥
प्रागिष्टकं दक्षिणां दीर्घं दक्षिणे पश्चिमायतम् ।
पश्चिमं चोत्तरायामं चोत्तरं चेन्द्रकायतुम् ॥ १०५ ॥
मध्ये चौषधिरक्तानि विन्यसेच्चोत्तरङ्कधः ।
स्थपतिः स्थापकश्चोभौ कुर्यात्(तां) कर्ममि(इ)दं क्रमात् ॥ १०६ ॥
शिष्टेष्टकाञ्चिल्लिङ्गा[दि] ज्ञात्वा संग्राहा शिल्पिरराट् ।
पुरुषं(ष)देवविमानस्य(ने) स्थापयेत्पुरुषेटकम् ॥ १०७ ॥
गर्भन्यासं च रात्रौ च दिवाकाले [इ]ष्टका भवेत् ।
गृहगर्भमन्तर्मुखं स्याद्द्रामगर्भं बहिर्मुखम् ॥ १०८ ॥
गर्भन्यासविधिं सम्यक् प्रोक्तं तत्प्रथमेटकम् ।
अनुक्तं कर्म यद्यस्तु स्वगृहं त्वास(ग)मोक्तवत् ॥ १०९ ॥