Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s13.11
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s13.11
- Language
- English
v3.c24.s13.11
तत्समाधिकमेवं वा पादाधो(ङ्गु)पाननिर्गमम् ।
अथवा पादविष्कम्भं(म्भाद्) दण्डमानेन मानयेत् ॥ ६६ ॥
एकदण्डसमं वापि तत्पादाधिकमेव च ।
तदर्धाधिकमेवं वा तन्त्रिपादाधिकं तु वा ॥ ६७ ॥
द्विदण्डं वा त्रिदण्डं वा जन्मनिर्गममीरितम् ।
अथवा हस्तमानेन पादहस्तं समारभेत् ॥ ६८ ॥
तत्समं वर्धयेत्तस्मात्सार्धहस्तावसानकम् ।
जन्मनिर्गममेवोक्तं पद्मनिर्गममिष्यते ॥ ६९ ॥
तुङ्गं तत्सममेवं वा पादाधिक्या(क्यम)र्धाधिकम् ।
पादोनद्विगुणं वापि पद्मसेवं तु निर्गमम् ॥ ७० ॥
अथवा हस्तमानेन पूर्ववद्विधि(धिरु)च्यते ।
उपमान(पीठ)स्य मानेन युक्त्या पद्मं(द्मस्य) तु निर्गमम् ॥ ७१ ॥
क्षुद्रपद्मानि(नां) कम्पानि(नां) तत्समं वाथ निर्गमम् ।
पट्टिकादीनि(नां) सर्वाणि(वैषां) तत्समं निर्गमं भवेत् ॥ ७२ ॥
भागपादादिसर्वेषासुद्धृी(वमूर्ध्वं) वास्तुवशाद्व्यसेत् ।
पादानामपि सर्वेषां पत्रजात्यै(तिभि)रलङ्कृतम् ॥ ७३ ॥
अन्तरे नाटकैर्युक्तं पद्मानां तु दलैर्युतम् ।
चतुरश्राकृतिं चैव प्रथमादीन् कम्पवाजनैः ॥ ७४ ॥
अथवा रक्त(त्र)पुष्पैश्च पत्रायैरलङ्कृतम् [स्यात्] ।
अन्यैर्युक्तं स्वलङ्कृत्य प्रतिवाजनदेशके ॥ ७५ ॥
प्रतिवाजनं तेषां कृतेः(ते) कर्करीकृतम् ।
अन्येन चान्तरं चैव व्यालसिंहादिरूपकैः ॥ ७६ ॥
खङ्गेन श्रो(श्रे)णिसंयुक्तं वृत्ताश्रं पुष्पकैर्युतम् ।
अन्या(न्यम)नुक्तं च सर्वेषां युक्त्या तत्रैव योजयेत् ॥ ७७ ॥