Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s13: उपपीठविधानम्

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s13

Language
English

उपपीठविधानम्

v3.c24.s13.1

उपपीठविधिं वक्ष्ये शास्त्रे संक्षिप्यतेऽधुना ।
अधिष्ठानोन्नते देशे चोपपीठं हि संश्रितम् ॥ १ ॥
एते(तम्) तत्त्वमधिष्ठानं तुङ्गं तच्चतुरंशकम् ।
विभजेत्त्वादिमांशेन ए(चै)कैकांशं(श)विवर्धनात् ॥ २ ॥
तदष्टांशावसाने स्याज्जन्मादिपट्टिकान्ति(न्त)कम् ।
एवं हि चोपपीठोक्तं नवभिर्भेदमीरितम् ॥ ३ ॥
अथवा द्वादशान्तं वा मध्यभूम्यन्तिकं क्रमात् ।
अथवा क्षुद्रहर्म्ये तु चतुर्भागांशमु(गसमो)न्नतम् ॥ ४ ॥
द्विभागं वा त्रिभागं वा चतुर्भागमथापि वा ।
पञ्चा(ञ्च)दशोदयं वापि रिरिन्ति(शान्ति)कादिशरोन्नतम् ॥ ५ ॥
अथवा मध्यहर्म्ये तु द्विभागं वा त्रिभागिकम् ।
चतुर्भागं पञ्चभागं षड्भागावसानकम् ॥ ६ ॥
शान्तिकं सर्वभूम्य(कान्त्या)न्तं पञ्चधोत्तुङ्गमीरितम् ।
अथवा मुख्यहर्म्ये तु त्रयं वा चतुरंशकम् ॥ ७ ॥
पञ्चांशं वा षडंशं वा सप्तांशं वावसानकम् ।
एवं पञ्चविधं प्रोक्तं शान्तिकादिशरोन्नतम् ॥ ८ ॥
क्षुद्रोत्सेधं वापि पादाधिकमेव च(चार्धाधिकम्) ।
पादोनद्विगुणं वापि द्विगुणं वा(च) विशेषतः ॥ ९ ॥
मूलहर्म्यस्य पादं(दे) तु वप्रजन्म तु(नो) बाह्यतः ।
उपपीठनिर्गमं स्यादङ्गमानेन वक्ष्यते ॥ १० ॥
सप्ताष्टनवभागं वा दशमैकादशस्(शम्) तथा ।
द्वादशैकार्कभागं वा चतुर्दशांशकमेव वा ॥ ११ ॥
पञ्चा(ञ्च)दशांशकं वापि विभजेत्तु विशेषतः ।
तत्तद्भागैकमार्गं वा द्विभागं वा त्रिभागिकम् ॥ १२ ॥

v3.c24.s13.2

चतुर्भागं पञ्चभागं वा षट्सप्ताष्टकमेव च।
पूर्ववन्निर्गमं प्रोक्तं यन्मानोरम्य(म्यं) मानतः ॥ १३ ॥
अथवा हस्तमानेन निर्गमं तत्प्रवक्ष्यते।
एकहस्तं समारभ्य चतुर्यंशेन वर्धनात् ॥ १४ ॥
तन्निहस्तावसानं स्यान्निर्गमं नवधा भवेत्।
अथवा दण्डमानेन चोपपीठस्य निर्गमम् ॥ १५ ॥
दण्डं सार्धं द्विद्ण्डं वा सार्धद्विदण्डमेव च।
त्रिदण्डं सार्थमाधिक्यं चतुर्दण्डमथापि वा ॥ १६ ॥
पञ्चषट्सप्तदण्डं वा दण्डाष्टनवदण्डकम्।
निर्गमं चोपपीठं(ठस्य) स्यात्पादबाह्यावसानकम् ॥ १७ ॥
एतत्तु निर्गमं प्रोक्तं गण्यमानमिहोच्यते।
उत्सेधे तु चतुर्विशत्यञ्शांशो(शमु)पानमीरितम् ॥ १८ ॥
एकेन कम्पमित्युक्तं ग्रीवोर्ध्वं द्वादशान्तिकम्।
कम्पमेकं तु वेदांशं वाजनं कम्पमंशकम् ॥ १९ ॥
वेदिभद्रमिति प्रोक्तमथवा द्वादशांशकम्।
जन्म द्वयंशमंशकं पद्मं कम्पमर्धेन कारयेत् ॥ २० ॥
पञ्चांशे कण्ठमर्धेन क्षेपशं पद्मांशकम्।
तद(अन्य)र्धं पट्टिकोत्सेधं कम्पमर्धेन कारयेत् ॥ २१ ॥
अथवा भागमानेन सार्धांशं पादुकोदयम्।
तदूर्ध्वे तत्समा(मम)ब्जं कम्पमर्धेन कारयेत् ॥ २२ ॥
सार्धपञ्चांशकं ग्रीवं क्षेपशं सार्धभागिकम्।
तदूर्ध्वे पद्ममंशेन वाजनं चैकभागिकम् ॥ २३ ॥
तदूर्ध्वे सार्धकम्पं स्याद्योजयेत्तु विचक्षणः।
तदेवांशेन युग्मेन सोपानाम्बुजमेव वा ॥ २४ ॥
कम्पमर्धं तथा कार्यं तदूर्ध्वेऽशेन पट्टिका।
पञ्चांशा(शं) कन्धरं प्रोक्तं कम्पमर्धेन कारयेत् ॥ २५ ॥
ह्यंशं तद्वाजनेोत्तुङ्गं कम्पमर्धेन कारयेत्।
सर्वहर्म्येषु योग्यं स्याद्वेदिभद्रं चतुर्विधम् ॥ २६ ॥

v3.c24.s13.3

( प्रतिभद्रं चतुर्विधम् )

v3.c24.s13.4

विंशत्यंशं षडाधिक्यं चोपपीठोदय भवेत् ।
तदंशेन त्र्यंशकं च जन्म कम्पं शिवांशकम् ॥ २७ ॥
तदूर्ध्वे चाब्जमब्जं स्यात्कम्पमेकेन कारयेत् ।
प्रोक्तमेकादशांशं स्यात्तदूर्ध्वे कम्पमंशकम् ॥ २८ ॥
तदूर्ध्वं चाम्बुजं चोर्ध्वं कपोतोर्ध्वं गुणांशिकम् ।
तदूर्ध्वेन्तरितं चांशं तत्समं प्रतिवाजनम् ॥ २६ ॥
केचिच्चोपपीठोद्यं स्याद्वद्वात्रिंशतिके भवेत् ।
जन्मोच्च(चं) द्वयंशकं चैव चेपसं चार्धभागिकम् ॥ ३० ॥
सार्धद्धांशेन पद्मं स्यात्क्षुद्राब्जं चार्धकं भवेत् ।
तत्समं चोर्ध्वकम्पं स्याद्द्व्यंशं चोपरि कन्धरम् ॥ ३१ ॥
कम्पमर्धं सुहाब्जं स्याद्व्यंशं चोपरि पट्टिका ।
तदूर्ध्वे सा(चा)र्ध(धं) पद्मा(दामर्ध) कम्प(म्पं) कन्धरं दशांशिकम् ॥ ३२ ॥
अर्धांशं कम्पमर्धे(मंशे) न चाधोपद्मं च कारयेत् ।
तदूर्ध्वे कम्पमर्थांशमंशं चोपरि कन्धरम् ॥ ३३ ॥
उत्तरं चांशकं चोर्ध्वं चेपस्यार्धा(मर्धम) र्थका(कम)म्बुजम् ।
कपोतोच्चं त्रियं(त्रयां)शं स्यादालिङ्गं चार्धभागिकम् ॥ ३४ ॥
एकं चान्तरितं चोर्ध्वे सार्धा(शिवां)शं प्रतिवाजनम् ।
अथवा चोपपीठोच्चं तदेकांशराधिकं वथा ॥ ३५ ॥
सार्धद्वग्जन्ममु (न्मो) त्सेधं कम्पमर्धं तदूर्ध्वके ।
पद्मातुङ्गं तु वन्यं(द्वयं)शं कम्पमर्धेन कारयेत् ॥ ३६ ॥
तत्समं कन्धरं प्रोक्तं कम्पमर्धं तथाम्बुजम् ।
तदूर्ध्वे च द्विभागेन वज्रकुम्भं प्रकारयेत् ॥ ३७ ॥
दलमध्या(ध्य) र्धकं पञ्चद्विसप्तारशं गलोदयम् ।
उत्तरं चार्धकम्पं स्यात्तदूर्ध्वे च सरोरुहम् ॥ ३८ ॥
कपोतोच्च(चं) त्रि(त्र)यांशं [स्याच्च] चालिङ्गं चार्धकं भवेत् ।
अंशोनान्तरितं चोर्ध्वे सार्था (शिवां) शं प्रतिवाजनम् ॥ ३६ ॥

v3.c24.s13.5

तदंशेनांशसाधिक्यं जन्म सार्धद्वयांशकम् ।
तदूर्ध्वं कम्पमर्धेन पद्मोत्सेधं गुणांशकम् ॥ ४० ॥
कम्पमर्धं तथा कर्णं कम्पमर्धं तथाम्बुजम् ।
द्विभागं रत्नपट्टं स्याल्ला(लम)र्धं क्षेपणा(यम)र्धेकम् ॥ ४१ ॥
कर्णांशं तदूर्ध्वेऽर्धं क्षेपणं चैकमम्बुजम् ।
तदूर्ध्वे क्षेपणं सार्धं कर्णेमेकादशांशकम् ॥ ४२ ॥
अंशो(शमु)त्तरा(रम)र्धं कम्पा(न्म)र्धमम्बुजैः(जम)ममूर्ध्वके ।
कपोतं सार्धमालिङ्गं सार्धा(र्धमं)शा(शम)न्तरितं तथा ॥ ४३ ॥
एकभागं प्रतिं चैव सार्धांशं चोर्ध्ववाजनम् ।
प्रतिभद्रमिति प्रोक्तं पादवस्तु चतुर्विधम् ॥ ४४ ॥
देवभूसुरभूपानां हर्म्याद्यामासनान्वितम् ।

v3.c24.s13.6

( मञ्चभद्रं चतुर्विधम् )

v3.c24.s13.7

तुङ्गे त्रिंशतिभागेन जन्मतुङ्गं गुणांशकम् ॥ ४५ ॥
अर्धेन कम्पमूर्ध्वे तु गुणांशेन महाम्बुजम् ।
अर्धेन कम्प(म्पं) कण्ठं दृक् चार्धं कम्पं तथाम्बुजम् ॥ ४६ ॥
कपोतं सार्ध(र्धं) युग्मांशं प्रतिवाजन(नं) संमितम् ।
तदूर्ध्वे कम्प(ण्ठ)मष्टांशमुत्तरं चैकभागिकम् ॥ ४७ ॥
तदूर्ध्वे च क्षेपणं स्यात्सार्धं पद्मं गोपानकस्विभिः ।
शेषमालिङ्गा(ङ्गम)न्तरितं प्रतिवाजन(नं) संयुक्तम् ॥ ४८ ॥
तदेव भागांशमाधिक्यं त्रि(त्र)यं गोपानमीरितम् ।
अर्धेनोपरि कम्पं स्यात्सार्धत्र्यंशं सरोरुहम् ॥ ४९ ॥
क्षेपणं सा(चा)र्धमर्धांशं कम्प(म्पं) कर्णं सधाम्बुजम् ।
सार्धद्वयं तु गोपानं त्रि(त्र्यं)शं तत्प्रतिवाजनम् ॥ ५० ॥
तदूर्ध्वे गलमष्टांशमुत्तरं चैकभागिकम् ।
कम्पमर्धं तथाब्जं स्यात्कपोतोर्धवं त्रियं(त्र्यं)शकम् ॥ ५१ ॥
अर्धेमर्धांशकं चैवमध्यर्धं यथाक्रमम् ।
आलिङ्गा(ङ्गम)न्तरितं चैव प्रतिवाजन(नं) संमितम् ॥ ५२ ॥

v3.c24.s13.8

स(सैक)द्वात्रिंशतिकं तुङ्गं द्वांशेनोपानमीरितम् ।
कम्पमर्धेन तस्योर्ध्वे सार्धद्वांशं महाम्बुजम् ॥ ५३ ॥
क्षुद्राम्बुजं सार्धं (धं) कम्प्या (म्पम) र्धं द्व्यंशेनान्तरितो (तमु) परि ।
कम्पमर्धं तथा पद्मं पट्टिकोर्ध्वं नवांशकम् ॥ ५४ ॥
पद्मामर्थं तथा कम्पं पञ्चभागेन तद्गलम् ।
एकांशं चोत्तरं चोर्ध्वं कम्पमर्धं तथाम्बुजम् ॥ ५५ ॥
कपोता (तम) ध्यर्धभागं स्यात्तत्समं प्रतिवाजनम् ।
तदूर्ध्वेऽन्तरितं कर्णं च त्र्यं (त्रयां) शं चोत्तरांशकम् ॥ ५६ ॥
कम्पमर्धं तथा पद्मं कपोताग्रं गुणांशकम् ।
शेषमालिङ्गान्तरितं गलमंशेनोत्तरम् ॥ ५७ ॥
चतुर्विंशतिकं भागं कृत्वा तत्तङ्गमानतः ।
जन्मतुङ्ग (ङ्गं) गुणांशा(शं) स्यात्कम्पमर्धेन कारयेत् ॥ ५८ ॥
सार्धवह्वयंशमम्बुजं च क्षुद्रपद्मं तदूर्ध्वके ।
कम्पमर्धं तु सप्तांशं गलमंशेन चान्तरम् ॥ ५९ ॥
अर्धेन कम्पमर्धेन पद्मं सार्धद्वियां (द्वयमं) शुकम् ।
[क]पोतं सार्धं (र्ध) चन्द्रांशमालिङ्गादिप्रतिष्ठितम् ॥ ६० ॥
[द्व्यं] शं चान्तरे कर्णं चोत्तरांशं तदूर्ध्वके ।
अर्धमर्धेन कम्प्या (म्पम) ब्जं गोपानोच्चं गुणांशकम् ॥ ६१ ॥
तदूर्ध्वे ह्यंशकेनैवालिङ्गादिवाजनं [भवेत्] ।
मञ्चभद्रमिदं नाम्ना चतुर्भेदमिरीरितम् ॥ ६२ ॥

v3.c24.s13.9

( निर्गमम् )

v3.c24.s13.10

उमापतिविष्णुहर्म्याणां चक्रवर्ति [न] स्तथाब्जये ।
यत्तदेवमुक्तोति (क्तम) तन्त्रविद्भिः पुरातनैः ॥ ६३ ॥
तत्तद्देवादि सर्वेषां निर्गमानि यथोच्यते ।
तत्तदङ्गानि सर्वेषामुपानादि यथाक्रमम् ॥ ६४ ॥
तत्समं निर्गमं वापि तत्पादाधिकमेव च ।
तदर्धाधिकभागं वा तत्रि (त्रि) भागाधिकं ततः ॥ ६५ ॥

v3.c24.s13.11

तत्समाधिकमेवं वा पादाधो(ङ्गु)पाननिर्गमम् ।
अथवा पादविष्कम्भं(म्भाद्) दण्डमानेन मानयेत् ॥ ६६ ॥
एकदण्डसमं वापि तत्पादाधिकमेव च ।
तदर्धाधिकमेवं वा तन्त्रिपादाधिकं तु वा ॥ ६७ ॥
द्विदण्डं वा त्रिदण्डं वा जन्मनिर्गममीरितम् ।
अथवा हस्तमानेन पादहस्तं समारभेत् ॥ ६८ ॥
तत्समं वर्धयेत्तस्मात्सार्धहस्तावसानकम् ।
जन्मनिर्गममेवोक्तं पद्मनिर्गममिष्यते ॥ ६९ ॥
तुङ्गं तत्सममेवं वा पादाधिक्या(क्यम)र्धाधिकम् ।
पादोनद्विगुणं वापि पद्मसेवं तु निर्गमम् ॥ ७० ॥
अथवा हस्तमानेन पूर्ववद्विधि(धिरु)च्यते ।
उपमान(पीठ)स्य मानेन युक्त्या पद्मं(द्मस्य) तु निर्गमम् ॥ ७१ ॥
क्षुद्रपद्मानि(नां) कम्पानि(नां) तत्समं वाथ निर्गमम् ।
पट्टिकादीनि(नां) सर्वाणि(वैषां) तत्समं निर्गमं भवेत् ॥ ७२ ॥
भागपादादिसर्वेषासुद्धृी(वमूर्ध्वं) वास्तुवशाद्व्यसेत् ।
पादानामपि सर्वेषां पत्रजात्यै(तिभि)रलङ्कृतम् ॥ ७३ ॥
अन्तरे नाटकैर्युक्तं पद्मानां तु दलैर्युतम् ।
चतुरश्राकृतिं चैव प्रथमादीन् कम्पवाजनैः ॥ ७४ ॥
अथवा रक्त(त्र)पुष्पैश्च पत्रायैरलङ्कृतम् [स्यात्] ।
अन्यैर्युक्तं स्वलङ्कृत्य प्रतिवाजनदेशके ॥ ७५ ॥
प्रतिवाजनं तेषां कृतेः(ते) कर्करीकृतम् ।
अन्येन चान्तरं चैव व्यालसिंहादिरूपकैः ॥ ७६ ॥
खङ्गेन श्रो(श्रे)णिसंयुक्तं वृत्ताश्रं पुष्पकैर्युतम् ।
अन्या(न्यम)नुक्तं च सर्वेषां युक्त्या तत्रैव योजयेत् ॥ ७७ ॥

v3.c24.s13.12

इति मानसारं वास्तुशास्त्रे उपपीठविधाने नाम त्रयोदशोऽध्यायः ।

Linked texts (1)