Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s14.1

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s14.1

Language
English

v3.c24.s14.1

अधिष्ठानविधिं वक्ष्ये शास्त्रे संक्षिप्यतेऽधुना ।
त्रिंशदङ्गुलमारभ्य षट्षडङ्गुलवर्धनात् ॥ १ ॥
चतुर्हस्तावसानं स्यात्कुट्टिमद्वादशोत्थतम् ।
एकादशभूम्यन्तं हर्म्याणां तु क्रमात्पयसेत् ॥ २ ॥
विप्राणां तु चतुर्हस्तं भूपतीनां त्रिहस्तकम् ।
सार्धद्विहस्तमुत्सेधं युवराजस्य हर्म्यके ॥ ३ ॥
द्विहस्तं तु विशां प्रोक्तमेकहस्तं तु शूद्रके ।
हर्म्यतुङ्गोवशात्प्रोक्तं तस्य मासुरकोन्नतम् ॥ ४ ॥
जन्मादिवाजमान्तं स्यात्कुट्टिमोदयमीरितम् ।
तदुत्सेधं चतुर्विंशत्कृत्वाष्टांशं तु वप्रकम् ॥ ५ ॥
कुमुदोत्सेध(धं) समांशं कम्पमेकेन कारयेत् ।
कण्ठतुङ्ग(ङ्गं) त्रिय(त्रयां)शं स्यात्तदूर्ध्वं कम्प(म्पं) शिवांशकम् ॥ ६ ॥
पट्टिकांशं गुहाशं स्यात्कम्पमंशेन योजयेत् ।
एकोनत्रिंशदंशं तु तुङ्गं कृत्वा विशेषतः ॥ ७ ॥
द्विभागं जन्मतुङ्गं स्यात्तदूर्ध्वं तत्समं भवेत् ।
कम्पमेकेन कर्तव्यं शेषं प्रागुक्तवन्नयेत् ॥ ८ ॥
अथवा त्रिनवांशोशं जन्म चैकेन कारयेत् ।
शेषं पूर्ववदुद्दिष्टं कुर्यात्तुङ्गे विशेषतः ॥ ६ ॥
अष्टाविंशांशकं कृत्वा जन्म अंशेन कारयेत् ।
तदूर्ध्वं कम्पमेकांशं वप्रस्योपरिकांशकम् ॥ १० ॥
युक्त(क्त्या तु) कन्धरं प्रोक्तं शेषं पूर्वोक्तवद्विदुः ।
एतच्चतुर्विधं प्रोक्तं पादबन्धमसूरकम् ॥ ११ ॥