Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s14: अधिष्ठानविधानम्

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s14

Language
English

अधिष्ठानविधानम्

v3.c24.s14.1

अधिष्ठानविधिं वक्ष्ये शास्त्रे संक्षिप्यतेऽधुना ।
त्रिंशदङ्गुलमारभ्य षट्षडङ्गुलवर्धनात् ॥ १ ॥
चतुर्हस्तावसानं स्यात्कुट्टिमद्वादशोत्थतम् ।
एकादशभूम्यन्तं हर्म्याणां तु क्रमात्पयसेत् ॥ २ ॥
विप्राणां तु चतुर्हस्तं भूपतीनां त्रिहस्तकम् ।
सार्धद्विहस्तमुत्सेधं युवराजस्य हर्म्यके ॥ ३ ॥
द्विहस्तं तु विशां प्रोक्तमेकहस्तं तु शूद्रके ।
हर्म्यतुङ्गोवशात्प्रोक्तं तस्य मासुरकोन्नतम् ॥ ४ ॥
जन्मादिवाजमान्तं स्यात्कुट्टिमोदयमीरितम् ।
तदुत्सेधं चतुर्विंशत्कृत्वाष्टांशं तु वप्रकम् ॥ ५ ॥
कुमुदोत्सेध(धं) समांशं कम्पमेकेन कारयेत् ।
कण्ठतुङ्ग(ङ्गं) त्रिय(त्रयां)शं स्यात्तदूर्ध्वं कम्प(म्पं) शिवांशकम् ॥ ६ ॥
पट्टिकांशं गुहाशं स्यात्कम्पमंशेन योजयेत् ।
एकोनत्रिंशदंशं तु तुङ्गं कृत्वा विशेषतः ॥ ७ ॥
द्विभागं जन्मतुङ्गं स्यात्तदूर्ध्वं तत्समं भवेत् ।
कम्पमेकेन कर्तव्यं शेषं प्रागुक्तवन्नयेत् ॥ ८ ॥
अथवा त्रिनवांशोशं जन्म चैकेन कारयेत् ।
शेषं पूर्ववदुद्दिष्टं कुर्यात्तुङ्गे विशेषतः ॥ ६ ॥
अष्टाविंशांशकं कृत्वा जन्म अंशेन कारयेत् ।
तदूर्ध्वं कम्पमेकांशं वप्रस्योपरिकांशकम् ॥ १० ॥
युक्त(क्त्या तु) कन्धरं प्रोक्तं शेषं पूर्वोक्तवद्विदुः ।
एतच्चतुर्विधं प्रोक्तं पादबन्धमसूरकम् ॥ ११ ॥

v3.c24.s14.2

(उरगबन्धं चतुर्विधम्)

v3.c24.s14.3

अधिष्ठानस्य तुङ्गं तु साष्टादशशकं कृते ।
समांशं वप्रतुङ्गं तु कुमुदोच्चं रसांशकम् ॥ १२ ॥

v3.c24.s14.4

कम्पश्यैकेन कर्तव्यं कन्धरं तत्समं भवेत् ।
पट्टं च पट्टिकैकांशं कम्पस्यैकेन कारयेत् ॥ १३ ॥
अथवा द्धयंशमाधिक्यं तुङ्गं कृत्वा विशेषतः ।
वाजनं चैकभागं स्यात्तस्याधा(धः) कन्धर(रं) द्वयम् ॥ १४ ॥
तस्याधो वाजनं चांशं शेषं प्रागुक्तवन्नयेत् ।
तदेव द्धयंशमाधिक्यं कुम्भस्यार्ध्वे विशेषतः ॥ १५ ॥
कम्पमेकं तथा कर्ण कम्पं तस्योर्ध्वमंशकम् ।
द्वयंशं गोपानकं चोर्ध्वं शेषं तत्प्रतिवाजनम् ॥ १६ ॥
अथवा तच्चतुर्विंशाद्भागं कृत्वा यथोक्तयम् ।
सप्तांशं वप्रतुङ्गं स्यात्कुमुदांशं षडंशकम् ॥ १७ ॥
तदूर्ध्वे कम्पमेकांशं कन्धरं तत्समं भवेत् ।
तदूर्ध्वे वाजने चांशं कन्धरार्धं गुणांशकम् ॥ १८ ॥
तत्प्रदेशे विशेषोऽस्ति मकरादिविभूषितम् ।
तदूर्ध्वं वाजनं चांशं कम्पनं चैकभागिकम् ॥ १९ ॥
तदूर्ध्व कम्पमेकांशं शेषं तत्प्रतिवाजनम् ।
एतच्चतुर्विधं ज्ञात्वोरगबन्धमिति स्मृतम् ॥ २० ॥
सर्वं(पं)वक्राकृतिं कुर्यात्तदूर्ध्वे तत्प्रतिद्वयम् ।
एतच्चतुर्विधाकारं वृत्तं कुम्भं प्रकारयेत् ॥ २१ ॥
देवभूसुरभूपानां हर्म्याणां तत्प्रकल्पयेत् ।

v3.c24.s14.5

(प्रतिक्रमं चतुर्विधम्)

v3.c24.s14.6

एकविंशांशकं तुङ्गे क्षुद्रोपाने शिवांशकम् ॥ २२ ॥
सार्धद्धयंशं तु पद्मं स्यात्तदूर्ध्वे सार्ध(र्धं) कम्पकम् ।
ऊर्ध्वे वप्रं तु सप्तांशं धाराकुम्भं रसांशकम् ॥ २३ ॥
आलिङ्ग्यंशकं चैव तत्समा(सम)न्तरितं तथा ।
एकैकपद्मकम्पं वा पट्टं वापि द्वयांशकम् ॥ २४ ॥
गजैश्चैव तथा सिंहैश्च भूषितैः(तं) मकरादिभिः ।
द्वाविंशांशकं कुम्भे(म्भं) कुमुदो(दम्) र्ध्वं विशेषतः ॥ २५ ॥

v3.c24.s14.7

अलिङ्गमाशंकं चोर्ध्वं चैकांशं वाजनं भवेत् ।
द्विभागं कन्धरं चैव पट्टिकं वाजना(नमं)शकम् ॥ २६ ॥
तद्देशे पूर्ववद्रूपैः सर्वालङ्कारसंयुतम् ।
शेषं तु पूर्ववत्कुर्यात्तद्देकांशाधिकं तदा ॥ २७ ॥
कुम्भान्तं (म्भांशं) पूर्ववच्चोर्ध्वं कम्पमेकेन कारयेत् ।
कन्धरं चैकभागं स्यात्तदूर्ध्वं कम्पमंशकम् ॥ २८ ॥
शंशेन कर्णमूर्ध्वे तु वाजनं चैकभागिकम् ।
पूर्ववत्समलङ्कृत्य वस्तुङ्गेकांशामाधिकम् ॥ २६ ॥
पूर्वोत्तरप्रदेशे तु कम्पनं सा(चा)न्तरां (रमं) शकम् ।
द्वंशकं च त्रिपट्टं स्यात्तदूर्ध्वं चान्तरं भवेत् ॥ ३० ॥
प्रतिमं चैवांरामंशं च वाजनं चैव कारयेत् ।
पूर्ववत्समलङ्कृत्य शेषं प्रागुक्तवन्नयेत् ॥ ३१ ॥
तैत्तिलानां च द्विजातीनामाख्येषु न्यसेत्क्रमात् ।
एतत् प्रतिक्रमं नाम्ना तं चतुर्विधनरीरितम् ॥ ३२ ॥

v3.c24.s14.8

(कुमुद्वबन्धम्)

v3.c24.s14.9

जन्मादिवाजनान्तं च सप्तविंशांशमुद्धयेत् ।
द्विभागं जन्मतुङ्गं स्यात्तत्समं चाम्बुजोदयम् ॥ ३३ ॥
अंशमेकेन (कं च) कम्पं स्याद्रप्रतुङ्गं षडंशकम् ।
संश(शं) पद्मं च कर्णं च चांगु(शं) पद्मं तद्यंशकम् ॥ ३४ ॥
कुमुदोर्ध्वं त्रियं(त्र्यां)शं स्यात्पद्मतुङ्गं शिवांक्षकम् ।
अंशकं पद्म कर्णान्तं कम्पमब्जां (ब्जमं) शकं [भवेत्] ॥ ३५ ॥
द्विं(द्वयं)शं पट्टा (ट्टम) ब्जमंशं च कम्पमंशेन योजयेत् ।
पूर्वोत्तुङ्गस्य मानेन पट्टिके तु विशेषतः ॥ ३६ ॥
द्वि(द्व्यं) शं गोपानसंयुक्तं चोर्ध्वं युक्त्या स्वलङ्कृतम् ।
केचित्कुमुदकाङ्गे तु त्रिपट्टाश्रममेव वा ॥ ३७॥
मध्ये पट्टिविशेषं तु पुष्परत्नैश्च शोभितम् ।
कटकावृतमेवं वा शुद्धवृत्तमथापि वा ॥ ३८॥

v3.c24.s14.10

त्रिय(त्रया)श्रं कुमुदं वापि षडश्राकृतिर्(ति) एव वा ।
एवमष्टविधं (शाश्रकं) कुर्यात्पद्मकेसरमीरितम् ॥ ३९ ॥
सर्वहर्म्येषु योग्यं स्यात्कारयेच्छिल्पि(ल्वि)वित्तमः ।
नवाधिकविंशांशं तत्तत्राधिकतुङ्गकं [स्यात्] ॥ ४० ॥
जन्मतुङ्गं तदर्द्धभागं [वा] वेदांशं वप्रतुङ्गकम् ।
अर्द्धाशं(शं) पद्मत्तुङ्गं तु कन्धरं तत्समं भवेत् ॥ ४१ ॥
तत्समं चोर्ध्वपद्मं स्यादेकांशं कुमुदोदयम् ।
पद्ममध्यर्ध तथा कम्पं कर्णोत्तुङ्गं द्वयंशकम् ॥ ४२ ॥
कम्पमर्ध तथा पद्मं पट्टिकोच्चं द्वयंशकम् ।
तदूर्ध्वे पद्ममेकांशं चोर्ध्वकम्पं तु तत्समम् ॥ ४३ ॥
अर्वा(ध्य)र्धं वाथ जन्मोच्चं कम्पमूर्ध्वेऽर्धमेव वा ।
शेषं प्रागुक्तवत्कुर्यात्तत्तदेतद्विशेषतः ॥ ४४ ॥
एकांशं जन्मतुङ्गं स्यादर्द्धाशं पद्ममेव च ।
शेषं तु पूर्ववत्कुर्यात्किञ्चिदेवं विशेषतः ॥ ४५ ॥
पट्टिकं तत्कपोतं वा शेषं युक्त्या प्रयोजयेत् ।
एतच्चतुर्विधं प्रोक्तं पुष्पपुष्कलनामकम् ॥ ४६ ॥
क्षुद्रमध्ये तु मुख्ये तु प्रथमाद्यं तु भूमिकम् ।
तेन(षु) हर्म्येषु योग्यं स्यात्कल्पयेच्छिल्पि(ल्वि)वित्तमः ॥ ४७ ॥
जन्मादिवाजनान्तं स्यादङ्गात्रिंशाद्विभाजिते ।
द्विभागं जन्मतुङ्गं स्यादेकांशे (श) केन वाजनम् ॥ ४८ ॥
समांशेन महाद्मं कण्ठमंशं तथाम्बुजम् ।
ऊर्ध्वे कुम्भं तु वेदांशं पद्ममेकेन कारयेत् ॥ ४९ ॥
तदूर्ध्वं कम्पमेकांशं त्र्यंशकैर्गलमुन्नतम् ।
कम्पमंशं गलं चांशं गोपानं चतुरंशकम् ॥ ५० ॥
आलिङ्गमंशकं चोर्ध्वे क(चां)शेनान्तरितं तथा ।
प्रतिमुखं वह्नि (द्विद्वि) भागं स्यादूर्ध्वे वाजनमंशकम् ॥ ५१ ॥
अधैकांशेन समाधिक्यं महारो (म्बुजो) परि पद्मकम् ।
जन्मस्यो (न च) परि पद्मं वा शिवांशेनांशमाधिकम् ॥ ५२ ॥

v3.c24.s14.11

एतन्महाम्बुजस्याधो कम्पमेकेन कारयेत् ।
रसांशं तन्महाब्जं स्याच्छेषं प्रागुक्तवन्नयेत् ॥ ५३ ॥
एतच्चतुर्विधं प्रोक्तं श्रीबन्धमिति नामकम् ।
चक्रवर्तिश्च विष्णोश्च शिवस्यापि च योग्यकम् ॥ ५४ ॥

v3.c24.s14.12

( श्रोबन्धे चतुर्विधम् )

v3.c24.s14.13

षड्विंशद्भागमुत्तुङ्गे जन्ममे(चै)कांशमीरितम् ।
वप्रोक्तं तु षडंशं स्यात्कुमुदोशं षडंशकम् ॥ ५५ ॥
कर्णेमेकेन बन्धा(न्ध्यं)शं कर्ण(र्णां) कम्पं शिवांशकम् ।
पद्ममंशं तदूर्ध्वे तु त्र्यंशं गोपानकोदयम् ॥ ५६ ॥
आलिङ्गमंशकं चोर्ध्वे चांशमन्तरितं तथा ।
प्रतिवक्तं तु युग्मांशं वाजनं चैकभागिकम् ॥ ५७ ॥
अथवा जन्म युग्मांशं तदेव प्रतिकांशकम् ।
शेषं तु पूर्ववत्कुर्याज्जन्मोर्ध्वे चोपखांशकम् ॥ ५८ ॥
गोपानोपरि चाप्येनौ(र्वेना)लिङ्गा(ङ्गम)न्तरितां(तमं)शकम् ।
अंशां तत्प्रतियक्तं स्यादर्थांशश्चार्ध(मर्धं) वाजनम् ॥ ५९ ॥
अथवा जन्म मे(ए)कांशं तत्समं चाब्जकं तथा ।
तदूर्ध्व कम्पमेकांशं शेषं प्रागुक्तवन्नयेत् ॥ ६० ॥
एतच्चतुर्विधं प्रोक्तं मञ्चबन्धमुदीरितम् ।
देवानां भूपतीनां च हर्म्याणां तत्प्रकल्पयेत् ॥ ६१ ॥

v3.c24.s14.14

(मञ्चबन्धं चतुर्विधम्)

v3.c24.s14.15

जन्मादिवाजनान्तं च कृत्वा विंशत्षडाधिकम् ।
जन्मतुङ्गं तु सार्धांशं युगलं पद्मतुङ्गकम् ॥ ६२ ॥
एवं कम्पं च वप्रो(प्रागु)क्तं षडंशं कुम्भ(म्भं) युगांशकम् ।
तस्योर्ध्वे कम्पमेकांशं कन्धरश्च(रं च) द्विभागिकम् ॥ ६३ ॥
एकांश(शं) कम्पकं चाद्यां (द्वाभ्यां) पट्टं तत्क्षेपणां(णमं)शकम् ।
आलिङ्गं चा(सा)र्धकं चोर्ध्वे कम्पमेकेन कारयेत् ॥ ६४ ॥
अध्यर्धांशं प्रतिं चैव सार्धांशं वाजनं भवेत् ।
व्यालरूपादिसिंहैश्च मकराद्यै(दिभि)र्विभूषितम् ॥ ६५ ॥

v3.c24.s14.16

द्विभागं जन्मतुङ्गं स्यात्तत्सममम्बुजं भवेत् ।
एकांशं क्षेपणं चैव वप्रतुङ्गं रसांशकम् ॥ ६६ ॥
कुमुदोच्चं युगांशं स्यात्कम्पमेकेन कारयेत् ।
कन्धरं च द्विभागे स्यात्कम्पमंशेन योजयेत् ॥ ६७ ॥
पट्टिकोच्चं द्विभागं स्यात्कम्पमंशं तदूर्ध्वके ।
कर्णमेकेन कर्तव्यं वाजनं चैकभागिकम् ॥ ६८ ॥
प्रतिमं चैकांशकं स्यादाजनं चैकभागिकम् ।
त्रिपट्टं कुमुदं वापि प्रतिरे(मे)वं त्रिपट्टकम् ॥ ६६ ॥
शेषं तु पूर्ववत्कुर्यात्प्रत्यलङ्कार(रं) पूर्ववत् ।
तदेव पट्टिकं चोर्ध्वे कन्धरं चैकभागिकम् ॥ ७० ॥
शेषं पूर्ववदुद्दिष्टं युक्तमालङ्कार(र) योजयेत् ।
एवं चतुर्विधं प्रोक्तं श्रेणीबन्धमिति स्मृतम् ॥ ७१ ॥
देवानार्माप सर्वेषां हर्म्याणां कल्पयेद्बुधः ।

v3.c24.s14.17

(श्रेणीबन्धं चतुर्विधम्)

v3.c24.s14.18

अष्टादशांशकं तुङ्गे जन्ममर्धा(न्माध्य)र्धभागिकम् ॥ ७२ ॥
अर्धांशं क्षुद्रकम्पं तु भूतांशं तन्महान्बुजम् ।
एकांशं कन्धरं चांशं चाब्जं कुम्भं गुणांशकम् ॥ ७३ ॥
तदूर्ध्वे पद्ममंशं स्यादालिङ्गा(ङ्गर्म)शं तदूर्ध्वके ।
एकांशं वाजने चोर्ध्वे प्रति द्वयंशमंशं वाजनम् ॥ ७४ ॥
द्वाविंशांशकं कृत्वा पञ्चांशं जन्मतुङ्गकम् ।
क्षुद्रं क्षेपणमर्धांशं सार्धवेदांशका(कम)म्बुजम् ॥ ७५ ॥
एकांशं कन्धरं चोर्ध्वे तत्समं चाब्जकं भवेत् ।
कुम्भं(म्भ)तुङ्गं गुणांशं च पद्मतुङ्गं शिवांशकम् ॥ ७६ ॥
कम्पमेकं तदूर्ध्वे तु कन्धरं चाक्षभागिकम् ।
क्षेपणं चैकभागं तु पद्मं चैकेन कारयेत् ॥ ७७ ॥
द्विभागं पट्टिकोत्तुङ्गं पद्ममंशमंशं वाजनम् ।
तस्मादेकांशमाधिक्यं सार्थयुग्मं तु पादुकम् ॥ ७८ ॥

v3.c24.s14.19

तदूर्ध्वं कम्पमर्धेन पञ्चांशेन महाम्बुजम् ।
कन्धरं चैकभागेन पद्मांशेन योजयेत् ॥ ७६ ॥
कुमुदोर्ध्वं गुहाशं स्यात्पद्मांशं तदूर्ध्वके ।
कम्पमंशेन संयुक्तं कन्धरं तत्समं भवेत् ॥ ८० ॥
तत्समं वाजनं चोर्ध्वं वन्हांशा(शम)न्तरितं तथा ।
द्वांशं तत्प्रति संयुक्तं वाजनं चैकभागिकम् ॥ ८१ ॥
तस्मादाधिक्यमेकांशं जन्मतुङ्गं कलांशकम् ।
एकांशं क्षुद्रपद्मोक्तं तदूर्ध्वमंशेन वाजनम् ॥ ८२ ॥
भूतांशेन महापद्मं तदूर्ध्वांशे[न] दलान्वितम् ।
शेषं प्रागुक्तवत्त्वोर्ध्वं गृ(प्रा) हसिंहादिभूषितम् ॥ ८३ ॥
एतच्चतुर्विधं ज्ञात्वा पद्मबन्धमुदीरितम् ।
देवानार्माप सर्वेषां देवीनां शम्भोगलये ॥ ८४ ॥
कारयेत्सर्वसंसिद्धौ श्रीसौभाग्यप्रदायकम् ।

v3.c24.s14.20

(पद्मबन्धं चतुर्विधम्)

v3.c24.s14.21

एकविंशांशकोत्सेधं जन्मतुङ्ग(ङ्गं) कलांशकम् ॥ ८५ ॥
एकांशं पद्मतुङ्गं तु कम्पमेकेन कारयेत् ।
भूतांशं कुम्भतुङ्गं स्यादेकांशं क्षेपशं भवेत् ॥ ८६ ॥
त्रियं(त्रयां)शं स्यादधोपद्ममूर्ध्वं कर्या शिर्वाशकम् ।
तत्समं कम्पमूर्ध्वे तु द्विभागं पट्टिकोदयम् ॥ ८७ ॥
तदूर्ध्वे कम्पमेकांशं कन्धरं चैकभागिकम् ।
तदूर्ध्वे द्वांशकं पट्टं युक्ता तत्रैव योजयेत् ॥ ८८ ॥
तदेव तुङ्गभागेन वृद्धि(द्धिं) सोपानमीरितम् ।
एकांश(शं) पद्मतुङ्गं स्यात्पञ्चांशं कुमुदोदयम् ॥ ८९ ॥
कम्पमेकं तदूर्ध्वे स्यादन्त्या(च्छ्छ्रं)शं पद्मतुङ्गकम् ।
तदूर्ध्वे कम्पमेते(के)न तदूर्ध्वं द्वांशकैः(कं) गलम् ॥ ६० ॥
क्षेपणं चैकभागं स्यात्पद्ममेकेन कारयेत् ।
कपोतोच्च(चं) द्विभागं स्यात्कम्पमेकं तदूर्ध्वके ॥ ६१ ॥

v3.c24.s14.22

तदेवाब्जं प्रदेशे तु कम्पमेकेन पूर्ववत् ।
तदूर्ध्वं द्व्यंश(द्व्यंशो) कर्णं स्यात्कम्पमेकं तदूर्ध्वके ॥ ६२ ॥
द्वि(द्व्यं) शं चान्तरितं चोर्ध्वं प्रतिं चैकांशमेव च ।
तदूर्ध्वं वाजनं चांशं शेषं प्रागुक्तवन्नयेत् ॥ ६३ ॥
जन्मोच्चं त्र्यंशकं स्यात्पद्ममेकेन कारयेत् ।
कन्धरं चैकभागं स्यादूर्ध्वं पद्मं शिवांशकम् ॥ ६४ ॥
कुम्भतुङ्गं शरांशं स्यात्पद्ममेकेन कारयेत् ।
तदूर्ध्वं कम्पमेकेन कर्णमंशं तदूर्ध्वके ॥ ६५ ॥
पद्ममेकं तदूर्ध्वं तु कपोताद्यं कलांशकम् ।
आलिङ्गनमंशकंचैवमेकांशा(शम)न्तरितं तथा ॥ ६६ ॥
प्रतिवाजनमेकेन कुम्भबन्धं चतुर्विधम् ।
गृहसिंहादिसर्वेषां(वैः) युक्त्या देशैः(शम)लङ्कृतम् ॥ ६७ ॥

v3.c24.s14.23

(कुम्भबन्धं चतुर्विधम्)

v3.c24.s14.24

उत्सेधे तु चतुर्विंशाद्भागं कुर्याद्विशेषतः ।
जन्मोच्चं तु द्विभागं स्यात्तत्समं पद्मतुङ्गकम् ॥ ६८ ॥
कम्पमेकं तदूर्ध्वे तु कर्णतुङ्गं गुणांशकम् ।
तदूर्ध्वं कम्पमेकांशं पट्टिकोच्चं कलांशम् ॥ ६९ ॥
तदूर्ध्वं कम्पमंशेन चाधो(धः) पद्मं कलांशकम् ।
कर्णेमेकांशकं चोर्ध्वं पद्ममेकांशा(शं) कारयेत् ॥ १०० ॥
तदूर्ध्वं कुम्भ(म्भं) द्व्यंशं स्यात्पद्ममेकांशमेव च ।
तदूर्ध्वं निम्नमंशं स्यात्तस्योर्ध्वं कम्पमंशकम् ॥ १०१ ॥
तदूर्ध्वं तत्समं निम्नमूर्ध्वं प्रतिमेकांशमेव च ।
तदेव पूर्ववदुत्सेधं पद्यकर्णौ विशेषतः ॥ १०२ ॥
मध्ये कुम्भं कलांशं स्यात्तस्योर्ध्वं एकांश(शं) निम्नकम् ।
शेषं प्रागुक्तवत्कुर्यात्तद्भागेन विशेषतः ॥ १०३ ॥
द्विभागं जन्मतुङ्गं स्यात्पद्मतुङ्गं तु तत्समम् ।
निम्नमेकं तदूर्ध्वं तु कुम्भतुङ्गं कलांशकम् ॥ १०४ ॥

v3.c24.s14.25

कम्पमेकं तदूर्ध्वं तु कन्धरं चैकभागिकम् ।
कम्पमेकं तदूर्ध्वे स्यात्तत्समं चोर्ध्वकम्पकम् ॥ १०५ ॥
कपोताद्यं कलांशं स्याद्वाजने चैकभागिकम् ।
तदूर्ध्वे सार्ध(र्धं) पद्मं स्यालिङ्गमंशेन कारयेत् ॥ १०६ ॥
तदूर्ध्वे सार्ध(र्धं) पद्मं तु कुम्भतुङ्गं कलांशकम् ।
तदूर्ध्वे सार्ध(र्धं) पद्मं स्यालिङ्गमंशेन कारयेत् ॥ १०७ ॥
तस्योर्ध्वं शेपद्यां(यामं)शं [तं] तत्समं निर्गमं च ।
तस्योर्ध्वं एकं प्रतिं चैव कारयेच्चक्रवान्वितम् ॥ १०८ ॥
अथवा द्व्यंशकं जन्म तत्समं पद्मस्योच्छ्रयम् ।
एकांशं कन्धरं प्रोक्तं कुम्भतुङ्गं कलांशकम् ॥ १०९ ॥
एकांशमूर्ध्वेऽकं निर्ग च क्षुद्रपट्टा(ट्टम)ब्जमंशकम् ।
कपोते चोर्ध्वके युग्मं तदूर्ध्वं क्षेपयां(यामं)शकम् ॥ ११० ॥
तदूर्ध्वे चार्धपद्मा(द्ममं)शं तत्समं कन्धरं भवेत् ।
तत्समं चोर्ध्वपद्मं स्यात्कुम्भतुङ्गं गुणांशकम् ॥ १११ ॥
अधो(धः) पद्मं शिवांशं स्यात्तदूर्ध्वांशेन कन्धरम् ।
कम्पमेकेन(कं) भागं स्यात्तद्राब्जं चार्धकं भवेत् ॥ ११२ ॥
मध्यर्धांशं कपोता(तमू)र्ध्वं शेषं तत्यतिवाजनम् ।
जन्मादिवाजमान्तं च तुङ्ग(ङ्गे) षड्विंशदंशके ॥ ११३ ॥
द्विभागं जन्मतुङ्गं स्यात्तत्समं पद्मतुङ्गकम् ।
कम्पमेकं तदूर्ध्वं तु कन्धरं तद्द्विभागिकम् ॥ ११४ ॥
तदूर्ध्वे कम्पमेकांशं पद्ममेकेन योजयेत् ।
पट्टिकोद्य(द्यं) द्विभागं स्यात्तदूर्ध्वे पद्ममंशकम् ॥ ११५ ॥
आलिङ्गमंशकं चोर्ध्वे ऊ(चो)र्ध्वे पद्मं शिवांशकम् ।
कुम्भतुङ्गं त्रिभागं स्यात्तदूर्ध्वे पद्ममंशकम् ॥ ११६ ॥
पद्ममेकं तदूर्ध्वं तु कन्धरं च द्विभागिकम् ।
एकेन कम्पमंशा(शम)ब्जं कपोताद्यं कलांशकम् ॥ ११७ ॥
शिवांशं चोर्ध्वकं कम्पं शेषं युक्त्या प्रयोजयेत् ।
प्राहादिचित्र(त्रं) सर्वेषां क्षुद्रनासादिभूषितम् ॥ ११८ ॥

v3.c24.s14.26

एतत्पञ्चवि(चतुर्वि) धं प्रोक्तं कुम्भदेशे विशेषतः ।
वृत्तं विधिं त्रिपट्टं वाथाराय कटकान्वितम् ॥ १२६ ॥
एतत्कलशबन्धाख्यं देवभूपत्योरालये(षु) ।

v3.c24.s14.27

( वप्रबन्धम् )

v3.c24.s14.28

वप्रबन्धमधिष्ठानमेकत्रिंशांशतुङ्गके ॥ १२७ ॥
जन्मं(न्म) तु द्वयंशकं तुङ्गे कम्पमर्धेन कारयेत् ।
पद्मं सार्धं(धं) शिवांशं स्यात्तदूर्ध्वार्धेन वाजनम् ॥ १२१ ॥
वप्रोक्तं सार्धवृद्धांशं पद्मामर्धमर्धं कम्प[क]म् ।
कन्धरोक्तं द्विभागं स्यादधो(र्धम)र्धकम्प(म्पं) पद्म कम् ॥ १२२ ॥
पट्टिकोक्तं कलांशं स्यात्पद्ममर्धो(र्धम) र्ध(धं) वाजनम् ।
युगांशं कर्णतुङ्गं स्यात्तद्लेप्यांश(णामंशम)म्बुजा(जम)र्धकम् ॥ १२३ ॥
कपोतोक्तं द्विभागं स्यादेकांशं प्रतिवाजनम् ।
वप्रबन्धमिति प्रोक्तं वज्रबन्धमिहोच्यते ॥ १२४ ॥

v3.c24.s14.29

( वज्रबन्धम् )

v3.c24.s14.30

तदेव तुङ्गभागेन जन्मतुङ्गं कलांशकम् ।
तदूर्ध्वेऽर्धेन कम्पं स्यात्सार्धार्धं पद्मातुङ्गकम् ॥ १२५ ॥
अर्धेन कम्पकं चोर्ध्वं कन्धरं तत्समं भवेत् ।
कम्पमर्धेन तस्योर्ध्वं पद्मामर्धेन कारयेत् ॥ १२६ ॥
वज्रकुम्भं द्वयंाशं स्यात्तदूर्ध्वेऽर्धं सरोरुहम् ।
कम्पमर्धेन तस्योर्ध्वं कर्णतुङ्गं कलांशकम् ॥ १२७ ॥
तदूर्ध्वं कम्पमर्धेन तत्समं चाम्बुजं भवेत् ।
कपोतं द्विभागं स्यादेकांशं प्रतिवाजनम् ॥ १२८ ॥
कन्धरं चाश्विनीभागं चांशेन कम्प(म्पं) पद्मकम् ।
वज्रपट्टं द्विभागं स्यात्पद्म(द्यं) कम्पं शिवांशकम् ॥ १२६ ॥
वज्रबन्धमिति प्रोक्तं श्रीभोगं तमिहोच्यते ।

v3.c24.s14.31

( श्रीभोगम् )

v3.c24.s14.32

तुङ्गे तु सप्तविंशांशं सार्धद्व्यंशेन जन्मसु(त्त) ॥ १३० ॥

v3.c24.s14.33

क्षुद्रकम्पा(म्पम)र्धभागेन अ(चा)म्बुजोर्धं गुणांशकम् ।
अर्धेन क्षुद्रपद्मं स्यात्कम्पमर्धेन योजयेत् ॥ १३१ ॥
तदूर्ध्वे कर्णमंशं स्यात्कम्पमर्धेन योजयेत् ।
क्षुद्राब्जं तत्समं चैव कुमुदोर्ध्वं गुणांशकम् ॥ १३२ ॥
तदूर्ध्वे पद्ममर्धेन तत्समं चोपरं भवेत् ।
कर्णतुङ्गं कलांशं स्यात्कम्पमर्धेन कारयेत् ॥ १३३ ॥
तत्समं पद्मतुङ्गं स्यात्पट्टिकोर्ध्वं कलांशकम् ।
पद्ममर्धेन कम्पा(म्पम)र्धं कन्धरं द्व्यंशमिष्यते ॥ १३४ ॥
कम्प(म्पं) पद्मं शिवांशं तु सार्धार्धाशं कपोतकम् ।
तदूर्ध्वं द्व्यंशकेनैवमालिङ्गा(ङ्गम)न्तादि योजयेत् ॥ १३५ ॥
अथवा जन्म युष्मांशं क्षुद्रोपानं शिवांशकम् ।
महाम्बुजं शिवांशं स्यादर्धेन क्षुद्रपङ्कजम् ॥ १३६ ॥
अर्धेन कम्प(म्पं) कर्णं ट्कम्प(म्पं) पद्मं शिवांशकम् ।
कपोतं चाश्विनीभागमम्बरांशं गलोदयम् ॥ १३७ ॥
प्रतिवाजनमेकांशं द्विभागांशं(गं च) गलोदयम् ।
व्योमांशं पद्म(द्मं) कम्पं च द्व्यंशकं पट्टिकोदयम् ॥ १३८ ॥
अध्यर्धांशं गलोत्तुङ्गं वाजनं कम्पमूर्ध्वके ।
तत्समं पद्मतुङ्गं स्यात्सार्धद्व्यंशं कपोतकम् ॥ १३९ ॥
द्व्यंशेन प्रतिमं चैव सप्तविंशतिकोदयम् ।
श्रीभोगं स्याद्द्विधा(विधं) प्रोक्तं सर्वालङ्कारसंयुतम् ॥ १४० ॥

v3.c24.s14.34

( रत्नबन्धम् )

v3.c24.s14.35

रत्नबन्धमधिष्ठानं पञ्चविंशत्यंशकं भवेत् ।
अध्यर्धांशं तु जन्म स्यादर्धांशं क्षुद्रवाजनम् ॥ १४१ ॥
वप्रयो(मं)शं तु पद्मं स्यात्तदूर्ध्वेऽर्धैनासनम् ।
रत्नवप्रं तु बन्धां(न्ध्वं)शमर्धेन(र्धमब्जं) कारयेत् समम् ॥ १४२ ॥
तत्समं चोर्ध्वकम्पं स्यानिक्षमर्धेन कारयेत् ।
तदूर्ध्वा(र्ध्वम)र्धेन कम्पं स्यादर्धेनाब्जं तदूर्ध्वके ॥ १४३ ॥

v3.c24.s14.36

रत्नकम्प(म्पं) द्विभागं स्यात्तदूर्ध्वेंऽर्धेन कम्प(चाम्बु)जम् ।
तदूर्ध्वा(र्ध्वम)र्धेत कम्पं स्यात्कन्धरं च द्विभागिकम् ॥ १४४ ॥
कम्पपद्मं शिंवांशं स्याद्रत्नपट्टं कलांशकम् ।
तदूर्ध्वे पद्मम्पं च व्योमांशेनैव योजयेत् ॥ १४५ ॥
सार्थांशं तु कर्ण स्यादधर्द्धाशं चोर्ध्ववाजनम् ।
अर्धेनाब्जं तदूर्ध्वे तु द्वयंशकं कपोतकम् ॥ १४६ ॥
आलिङ्गं सार्धभागेन शेषं सत्प्रतिवाजनम् ।
तद्देश(शं) व्यालरूपादिमकरादिविभूषितम् ॥ १४७ ॥
अन्यत्सर्वाङ्गकै रत्नः पङ्कजैश्च विभूषितम् ।
शिवविष्णवालयं(ये) कुर्याद्रत्नमन्धमुदीरितम् ॥ १४८ ॥

v3.c24.s14.37

(पट्टबन्धम्)

v3.c24.s14.38

जन्मादिवाजमान्तस्य तुङ्गे तदंशकं भवेत् ।
जन्मतुङ्गं द्विभागं स्यात्तदूर्वेऽर्धेन वाजनम् ॥ १४९ ॥
महाब्जं सार्धयुग्मं स्यात्पद्मकम्पं शिंवांशकम् ।
निम्नकम्पं तथैकांशं तदूर्ध्वेकेन पद्मकम् ॥ १५० ॥
महापट्ठ(ट्टं) द्विभागं स्यात्पद्मकम्पं शिंवांशकम् ।
कन्धरं चैकभागं स्यात्तत्त्वेषणाब्जं शरांशकम् ॥ १५१ ॥
कपोतोच्चं द्विभागं स्याच्छेषं सत्प्रतिवाजनम् ।
एतत्तु पट्टवन्धं स्यात्सर्वालङ्कारसंयुक्तम् ॥ १५२ ॥

v3.c24.s14.39

(कुक्षिबन्धं चतुर्विधम्)

v3.c24.s14.40

त्रिशदंशं तदुत्सेधे ह्यंशकं जन्मतौ(नः) षट्कयम् ।
कम्पमर्धं तदूर्ध्वे तु सार्धद्वयंशां महाम्बुजम् ॥ १५३ ॥
पद्मकम्पं तथैकेन निम्नमन्तरितां(तमं)शकम् ।
अध्यर्धांशं प्रति चैव वाजनं चैकभागिकम् ॥ १५४ ॥
कन्धरं चैकभागं स्यात्कम्पपद्मं शिंवांशकम् ।
वृत्तकुम्भं द्विभागं स्यात्पद्मक्षेपणामंशकम् ॥ १५५ ॥
कर्णमेकेन तस्योर्ध्वे कम्पपद्मं शिवांशकम् ।
कपोतं सार्धभागं स्यात्तदूर्ध्वा(र्ध्वम)र्धेन वाजनम् ॥ १५६ ॥

v3.c24.s14.41

सर्वालङ्कारसंयुक्तं व्यालग्राहादिभूषितम् ।
तदेव तुङ्गा(ङ्गं) शमा(शा)धिक्यं जन्मतुङ्गं कलांशकम् ॥ १५७ ॥
तदूर्ध्वेऽर्धेन पद्मं स्यात्कम्पमर्धेन कारयेत् ।
द्व्यंशं महाम्बुजं चोर्ध्वे पद्मान्घ्रिं शिंवांशकम् ॥ १५८ ॥
अर्धेनाब्जं तदूर्ध्वे तु सार्धांशं कुमुदोदयम् ।
अर्धेनाब्जं तथा कर्णं अ(चा)र्धेनाब्जं तदूर्ध्वके ॥ १५९ ॥
सार्धांशं पट्टिकोत्तुङ्गं पद्माकम्पं शिंवांशकम् ।
अर्धेन निम्नकं चोर्ध्वे तत्समा(मम)न्तरितं तथा ॥ १६० ॥
एकांशेन प्रतिं चोर्ध्वे वाजनं चार्धभागिकम् ।
एकांशं कन्धरं प्रोक्तं कम्पमर्धेन योजयेत् ॥ १६१ ॥
पद्ममर्धेन सार्धांशं कपोतां(तमं)शेन वाजनम् ।
एकं तत्प्रतिबन्धं स्याद्द्विविधं तत्प्रकीर्तितम् ॥ १६२ ॥
शेषं तु पूर्ववत्कुर्यात्सर्वालङ्कारसंयुक्तम् ।
तुङ्गे षड्विंशदंशेन(शे च) जन्मतुङ्गं कलांशकम् ॥ १६३ ॥
क्षुद्रोपानं शिवांश् स्यात्पद्मतुङ्गं फलांशकम् ।
एकेन कम्पनं चोर्ध्वे कन्धरं च द्विभागिकम् ॥ १६४ ॥
तदूर्ध्वे कम्पमेकांशं पद्ममेकेन कारयेत् ।
पर्य्यं(त्यं)शं कुमुदोच्चं स्यात्पद्ममेकेन कारयेत् ॥ १६५ ॥
कम्पमेकं तदूर्ध्वं च द्व्यंशकैरर्गलमेव च ।
तदूर्ध्वे कम्पमेकांशं पद्ममेकेन कारयेत् ॥ १६६ ॥
कपोतोच्चं द्विभागं स्याच्छेषं तत्प्रतिवाजनम् ।
वृत्तं वा पट्टकम्पं वा कपोतो(तं) वापि पट्टिकौ ॥ १६७ ॥
अथ(घः) कर्णद्वयोर्देशे व्यालरूपादिभूषितम् ।
चतुर्विंशांशके(के) तुङ्गे जन्मोत्सेधं गुहांशकम् ॥ १६८ ॥
कम्पमीशं तदूर्ध्वे तु निम्नमंशेन कारयेत् ।
एतदूर्ध्वं पञ्चभागैनैकैकं भद्रसंयुक्तम् ॥ १६९ ॥
तदूर्ध्वे कम्पमेकेन तत्समं निम्नकं भवेत् ।
तत्समा(मम)न्तरितं चोर्ध्वे भागेन प्रतिसंयुतम् ॥ १७० ॥

v3.c24.s14.42

तदूर्ध्वं चांश(शं) कम्पं च तत्समं चोर्ध्वकन्धरम् ।
कम्पमेकं तदूर्ध्वं तु पद्ममेकेन कारयेत् ॥ १७१ ॥
कपोताद्यं त्रियं(त्र्यां)शं स्यादेकांशं कन्धरं भवेत् ।
तत्समो(ममू)र्ध्वं प्रतिं चैव कुम्भमष्टांशमेव च ॥ १७२ ॥
कपोते भद्रपट्टं स्यात्पद्मपट्टकमेव च ।
एतच्चतुर्विधं प्रोक्तं कम्पबन्धं प्रकीर्तितम् ॥ १७३ ॥

v3.c24.s14.43

(कम्पबन्धम्)

v3.c24.s14.44

षट्षड्भागकृते तुङ्गे जन्मादी(दि)वाजमान्तकम् ।
चतुर्भागेन जन्म स्यात्क्षुद्रोपानं शिवांशकम् ॥ १७४ ॥
महाब्जं पञ्चभागं स्यात्क्षुद्राब्जं तु शिवांशकम् ।
तदूर्ध्वं कम्पमेकेन निष्क्रमंशेन योजयेत् ॥ १७५ ॥
तदूर्ध्वे वाजनी(नमं)शं तत्समं चोर्ध्वं पद्माकम् ।
महाब्जोच्चसमं कुम्भं तदूर्ध्वं चाब्जमंशकम् ॥ १७६ ॥
कम्पमेकं तदूर्ध्वे तु चालिङ्गोपरि चांशिकम् ।
तदूर्ध्वेऽन्तरितं चांशं प्रति(तिं) ह्यंशेन योजयेत् ॥ १७७ ॥
तस्योर्ध्वे वाजने चांशं क्षेपणं चैकभागिकम् ।
तस्योर्ध्वे कन्धरं ह्यंशं कम्पमेकेन कारयेत् ॥ १७८ ॥
पद्ममंशं तदूर्ध्वे तु कपोताद्यं त्रियं(त्रयां)शकम् ।
आलिङ्गमंशकं चोर्ध्वे प्रतिमेकेन कारयेत् ॥ १७९ ॥

v3.c24.s14.45

(श्रीकान्तम्)

v3.c24.s14.46

वृत्तं वा तत्र पट्टं वा कुम्भं(म्भ)देशे विशेषतः ।
श्रीकान्तं चतुर्विधं(तथाविधं) प्रोक्तं सर्वालङ्कारशोभितम् ॥ १८० ॥
तदेव (अष्टत्रिंशत्) तुङ्गभागे[न] त्र्यंशं चोपानतुङ्गकम् ।
क्षुद्रोपानं तथैकांशं चाष्टांशं महाम्बुजम् ॥ १८१ ॥
क्षुद्राब्जं चैकभागेन कन्धरं तत्समं भवेत् ।
पद्ममेकं तदूर्ध्वे तु पट्टिकोच्चं गुणांशकम् ॥ १८२ ॥
क्षुद्रकम्पं शिवांशं स्यात्पद्मातुङ्गं युगांशकम् ।
क्षुद्राब्जं(ब्ज)तुङ्गमंशं च निम्नं चोर्ध्वैकमागिकम् ॥ १८३ ॥

v3.c24.s14.47

तत्समं चोर्ध्वपद्मं स्यादूर्ध्वं कुम्भ (न्धं) गुणांशकम् ।
तदूर्ध्वं कम्पमेकांशं तत्समं चेपणा(बम)न्वितम् ॥ १८४ ॥
कन्धरं च द्विभागं स्यात्कम्पमेकेन कारयेत् ।
पद्मत्तुङ्गं तु तत्सुल्यं कपोताशं कलांशकम् ॥ १८५ ॥
तदूर्ध्वमालिङ्गनमंशं च प्रतिमेकेन कारयेत् ।
तत्त(एत)त्तु श्रीकान्तं स्याच्छिवविष्णुवालयं(येषु) भवेत् ॥ १८६ ॥

v3.c24.s14.48

(अधिष्ठाननिर्गमम्)

v3.c24.s14.49

जन्मादिवाजमान्तं चाङ्गानां तद्विशेषतः ।
तत्तद्द्रव्येण संझात्या(य) वृद्धिहान्यांशकं भवेत् ॥ १८७ ॥
तुङ्गे हीनाधिकं चेतत्(चेत्) सर्वं दोषं समुद्भवोत् ।
तत्समं निर्गमं वापि त्रिपादमर्धा(र्धम)धोर्धमेव च ॥ १८८ ॥
तदेव चेपणां सर्वे(वं) यथाशोभं तु कारयेत् ।
उपानतुङ्गसमं वापि तत्पादांशविवर्धनात् ॥ १८९ ॥
तुङ्गेन त्रिविधानां च त्रिपादं निर्गमं भवेत् ।
वप्रोच्चं तु समं वापि यावत्कुमुदनिर्गमम् ॥ १९० ॥
कुमुदोचं वप्रपट्टान्तं पट्टिकानिर्गमं भवेत् ।
तत्समं निर्गमं वापि पट्टं(ष्ट्ट)गोपाननिर्गमम् ॥ १९१ ॥
क्षुद्रपङ्कजसर्वेषां तत्समं निर्गमं भवेत् ।
यथाशोभं वलात्सर्वमङ्गानां सहितो न्यसेत् ॥ १९२ ॥

v3.c24.s14.50

(दण्डमाननिर्गमम्)

v3.c24.s14.51

अथवा दण्डमानेन निर्गमं वक्ष्यतेऽधुना ।
दण्डं वा सार्धदण्डं वा द्विदण्डकं वा त्रिदण्डकम् ॥ १६३ ॥
सार्धत्रिदण्डकं वापि चतुर्दण्डमथापि वा ।
सार्धचतुर्दण्डकं वा पञ्चदण्डमथापि वा ॥ १६४ ॥
एवं चोपानान्निष्क्रान्तमथवा हस्तमानतः ।
अर्धहस्तं समारभ्य त्रित्र्यङ्गलविवर्धनात् ॥ १६५ ॥
सार्धहस्तावसानं स्यान्निर्गमं त्रित्रिभेदकम् ।
क्षुद्रमध्यं च(ध्यम)मुल्यानां हर्म्याणां निर्गमं च तत् ॥ १६६ ॥

v3.c24.s14.52

एवं चतुःषष्टिमसूरकाणि
शास्त्रोक्तमानेन विभाजितानि ।
ज्ञात्वा प्रकुर्वन्निह शिल्पिवर्यं
सद्वास्तुभर्तुः प्रददाति संपत् ॥ १६७ ॥
विमानशालेषु च मण्डपेषु
निधानसङ्घेष्वपि गोपुरेष्वपि ।
एतेष्वधोदेशवलोपपीठे
वस्योपरिष्ठालंकृतकुट्टिमानि ॥ १६८ ॥
किं चोपपीठेव सहैव कुर्यात्
पीठोपपीठात्समसूत्रकानि ।
एवं तु सत्यकृतेव भक्तौ
सिध्यन्ति लक्ष्म्या सह मुक्तिमुक्तिम् ॥ १६६ ॥
समस्तहर्म्यादि च धातुसर्वं
कृतं विमानं(नं) मसुरेण सह यदि [न] स्यात् ।
लोकेत्वनावृष्ट्य(ष्टिर)पि कर्तृनाशं तु
अश्रीकरं स्यात्खलु सर्वहानिः ॥ २०० ॥
तस्मान्मसूरेण सहैव सर्वे
कृतं विमानेषु च भूपणानि ।
अनूनलक्ष्मीरिह भुक्तिमुक्तिम्
आयुष्यमारोग्यकरं सुखं च ॥ २०१ ॥

v3.c24.s14.53

इति मानसार वास्तुशास्त्रे अधिष्ठानविधाने नाम चतुर्दशोऽध्यायः।

Linked texts (1)