Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s14.10
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s14.10
- Language
- English
v3.c24.s14.10
त्रिय(त्रया)श्रं कुमुदं वापि षडश्राकृतिर्(ति) एव वा ।
एवमष्टविधं (शाश्रकं) कुर्यात्पद्मकेसरमीरितम् ॥ ३९ ॥
सर्वहर्म्येषु योग्यं स्यात्कारयेच्छिल्पि(ल्वि)वित्तमः ।
नवाधिकविंशांशं तत्तत्राधिकतुङ्गकं [स्यात्] ॥ ४० ॥
जन्मतुङ्गं तदर्द्धभागं [वा] वेदांशं वप्रतुङ्गकम् ।
अर्द्धाशं(शं) पद्मत्तुङ्गं तु कन्धरं तत्समं भवेत् ॥ ४१ ॥
तत्समं चोर्ध्वपद्मं स्यादेकांशं कुमुदोदयम् ।
पद्ममध्यर्ध तथा कम्पं कर्णोत्तुङ्गं द्वयंशकम् ॥ ४२ ॥
कम्पमर्ध तथा पद्मं पट्टिकोच्चं द्वयंशकम् ।
तदूर्ध्वे पद्ममेकांशं चोर्ध्वकम्पं तु तत्समम् ॥ ४३ ॥
अर्वा(ध्य)र्धं वाथ जन्मोच्चं कम्पमूर्ध्वेऽर्धमेव वा ।
शेषं प्रागुक्तवत्कुर्यात्तत्तदेतद्विशेषतः ॥ ४४ ॥
एकांशं जन्मतुङ्गं स्यादर्द्धाशं पद्ममेव च ।
शेषं तु पूर्ववत्कुर्यात्किञ्चिदेवं विशेषतः ॥ ४५ ॥
पट्टिकं तत्कपोतं वा शेषं युक्त्या प्रयोजयेत् ।
एतच्चतुर्विधं प्रोक्तं पुष्पपुष्कलनामकम् ॥ ४६ ॥
क्षुद्रमध्ये तु मुख्ये तु प्रथमाद्यं तु भूमिकम् ।
तेन(षु) हर्म्येषु योग्यं स्यात्कल्पयेच्छिल्पि(ल्वि)वित्तमः ॥ ४७ ॥
जन्मादिवाजनान्तं स्यादङ्गात्रिंशाद्विभाजिते ।
द्विभागं जन्मतुङ्गं स्यादेकांशे (श) केन वाजनम् ॥ ४८ ॥
समांशेन महाद्मं कण्ठमंशं तथाम्बुजम् ।
ऊर्ध्वे कुम्भं तु वेदांशं पद्ममेकेन कारयेत् ॥ ४९ ॥
तदूर्ध्वं कम्पमेकांशं त्र्यंशकैर्गलमुन्नतम् ।
कम्पमंशं गलं चांशं गोपानं चतुरंशकम् ॥ ५० ॥
आलिङ्गमंशकं चोर्ध्वे क(चां)शेनान्तरितं तथा ।
प्रतिमुखं वह्नि (द्विद्वि) भागं स्यादूर्ध्वे वाजनमंशकम् ॥ ५१ ॥
अधैकांशेन समाधिक्यं महारो (म्बुजो) परि पद्मकम् ।
जन्मस्यो (न च) परि पद्मं वा शिवांशेनांशमाधिकम् ॥ ५२ ॥