Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s14.25

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s14.25

Language
English

v3.c24.s14.25

कम्पमेकं तदूर्ध्वं तु कन्धरं चैकभागिकम् ।
कम्पमेकं तदूर्ध्वे स्यात्तत्समं चोर्ध्वकम्पकम् ॥ १०५ ॥
कपोताद्यं कलांशं स्याद्वाजने चैकभागिकम् ।
तदूर्ध्वे सार्ध(र्धं) पद्मं स्यालिङ्गमंशेन कारयेत् ॥ १०६ ॥
तदूर्ध्वे सार्ध(र्धं) पद्मं तु कुम्भतुङ्गं कलांशकम् ।
तदूर्ध्वे सार्ध(र्धं) पद्मं स्यालिङ्गमंशेन कारयेत् ॥ १०७ ॥
तस्योर्ध्वं शेपद्यां(यामं)शं [तं] तत्समं निर्गमं च ।
तस्योर्ध्वं एकं प्रतिं चैव कारयेच्चक्रवान्वितम् ॥ १०८ ॥
अथवा द्व्यंशकं जन्म तत्समं पद्मस्योच्छ्रयम् ।
एकांशं कन्धरं प्रोक्तं कुम्भतुङ्गं कलांशकम् ॥ १०९ ॥
एकांशमूर्ध्वेऽकं निर्ग च क्षुद्रपट्टा(ट्टम)ब्जमंशकम् ।
कपोते चोर्ध्वके युग्मं तदूर्ध्वं क्षेपयां(यामं)शकम् ॥ ११० ॥
तदूर्ध्वे चार्धपद्मा(द्ममं)शं तत्समं कन्धरं भवेत् ।
तत्समं चोर्ध्वपद्मं स्यात्कुम्भतुङ्गं गुणांशकम् ॥ १११ ॥
अधो(धः) पद्मं शिवांशं स्यात्तदूर्ध्वांशेन कन्धरम् ।
कम्पमेकेन(कं) भागं स्यात्तद्राब्जं चार्धकं भवेत् ॥ ११२ ॥
मध्यर्धांशं कपोता(तमू)र्ध्वं शेषं तत्यतिवाजनम् ।
जन्मादिवाजमान्तं च तुङ्ग(ङ्गे) षड्विंशदंशके ॥ ११३ ॥
द्विभागं जन्मतुङ्गं स्यात्तत्समं पद्मतुङ्गकम् ।
कम्पमेकं तदूर्ध्वं तु कन्धरं तद्द्विभागिकम् ॥ ११४ ॥
तदूर्ध्वे कम्पमेकांशं पद्ममेकेन योजयेत् ।
पट्टिकोद्य(द्यं) द्विभागं स्यात्तदूर्ध्वे पद्ममंशकम् ॥ ११५ ॥
आलिङ्गमंशकं चोर्ध्वे ऊ(चो)र्ध्वे पद्मं शिवांशकम् ।
कुम्भतुङ्गं त्रिभागं स्यात्तदूर्ध्वे पद्ममंशकम् ॥ ११६ ॥
पद्ममेकं तदूर्ध्वं तु कन्धरं च द्विभागिकम् ।
एकेन कम्पमंशा(शम)ब्जं कपोताद्यं कलांशकम् ॥ ११७ ॥
शिवांशं चोर्ध्वकं कम्पं शेषं युक्त्या प्रयोजयेत् ।
प्राहादिचित्र(त्रं) सर्वेषां क्षुद्रनासादिभूषितम् ॥ ११८ ॥