Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s14.33

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s14.33

Language
English

v3.c24.s14.33

क्षुद्रकम्पा(म्पम)र्धभागेन अ(चा)म्बुजोर्धं गुणांशकम् ।
अर्धेन क्षुद्रपद्मं स्यात्कम्पमर्धेन योजयेत् ॥ १३१ ॥
तदूर्ध्वे कर्णमंशं स्यात्कम्पमर्धेन योजयेत् ।
क्षुद्राब्जं तत्समं चैव कुमुदोर्ध्वं गुणांशकम् ॥ १३२ ॥
तदूर्ध्वे पद्ममर्धेन तत्समं चोपरं भवेत् ।
कर्णतुङ्गं कलांशं स्यात्कम्पमर्धेन कारयेत् ॥ १३३ ॥
तत्समं पद्मतुङ्गं स्यात्पट्टिकोर्ध्वं कलांशकम् ।
पद्ममर्धेन कम्पा(म्पम)र्धं कन्धरं द्व्यंशमिष्यते ॥ १३४ ॥
कम्प(म्पं) पद्मं शिवांशं तु सार्धार्धाशं कपोतकम् ।
तदूर्ध्वं द्व्यंशकेनैवमालिङ्गा(ङ्गम)न्तादि योजयेत् ॥ १३५ ॥
अथवा जन्म युष्मांशं क्षुद्रोपानं शिवांशकम् ।
महाम्बुजं शिवांशं स्यादर्धेन क्षुद्रपङ्कजम् ॥ १३६ ॥
अर्धेन कम्प(म्पं) कर्णं ट्कम्प(म्पं) पद्मं शिवांशकम् ।
कपोतं चाश्विनीभागमम्बरांशं गलोदयम् ॥ १३७ ॥
प्रतिवाजनमेकांशं द्विभागांशं(गं च) गलोदयम् ।
व्योमांशं पद्म(द्मं) कम्पं च द्व्यंशकं पट्टिकोदयम् ॥ १३८ ॥
अध्यर्धांशं गलोत्तुङ्गं वाजनं कम्पमूर्ध्वके ।
तत्समं पद्मतुङ्गं स्यात्सार्धद्व्यंशं कपोतकम् ॥ १३९ ॥
द्व्यंशेन प्रतिमं चैव सप्तविंशतिकोदयम् ।
श्रीभोगं स्याद्द्विधा(विधं) प्रोक्तं सर्वालङ्कारसंयुतम् ॥ १४० ॥