Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s14.4

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s14.4

Language
English

v3.c24.s14.4

कम्पश्यैकेन कर्तव्यं कन्धरं तत्समं भवेत् ।
पट्टं च पट्टिकैकांशं कम्पस्यैकेन कारयेत् ॥ १३ ॥
अथवा द्धयंशमाधिक्यं तुङ्गं कृत्वा विशेषतः ।
वाजनं चैकभागं स्यात्तस्याधा(धः) कन्धर(रं) द्वयम् ॥ १४ ॥
तस्याधो वाजनं चांशं शेषं प्रागुक्तवन्नयेत् ।
तदेव द्धयंशमाधिक्यं कुम्भस्यार्ध्वे विशेषतः ॥ १५ ॥
कम्पमेकं तथा कर्ण कम्पं तस्योर्ध्वमंशकम् ।
द्वयंशं गोपानकं चोर्ध्वं शेषं तत्प्रतिवाजनम् ॥ १६ ॥
अथवा तच्चतुर्विंशाद्भागं कृत्वा यथोक्तयम् ।
सप्तांशं वप्रतुङ्गं स्यात्कुमुदांशं षडंशकम् ॥ १७ ॥
तदूर्ध्वे कम्पमेकांशं कन्धरं तत्समं भवेत् ।
तदूर्ध्वे वाजने चांशं कन्धरार्धं गुणांशकम् ॥ १८ ॥
तत्प्रदेशे विशेषोऽस्ति मकरादिविभूषितम् ।
तदूर्ध्वं वाजनं चांशं कम्पनं चैकभागिकम् ॥ १९ ॥
तदूर्ध्व कम्पमेकांशं शेषं तत्प्रतिवाजनम् ।
एतच्चतुर्विधं ज्ञात्वोरगबन्धमिति स्मृतम् ॥ २० ॥
सर्वं(पं)वक्राकृतिं कुर्यात्तदूर्ध्वे तत्प्रतिद्वयम् ।
एतच्चतुर्विधाकारं वृत्तं कुम्भं प्रकारयेत् ॥ २१ ॥
देवभूसुरभूपानां हर्म्याणां तत्प्रकल्पयेत् ।