Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s14.41

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s14.41

Language
English

v3.c24.s14.41

सर्वालङ्कारसंयुक्तं व्यालग्राहादिभूषितम् ।
तदेव तुङ्गा(ङ्गं) शमा(शा)धिक्यं जन्मतुङ्गं कलांशकम् ॥ १५७ ॥
तदूर्ध्वेऽर्धेन पद्मं स्यात्कम्पमर्धेन कारयेत् ।
द्व्यंशं महाम्बुजं चोर्ध्वे पद्मान्घ्रिं शिंवांशकम् ॥ १५८ ॥
अर्धेनाब्जं तदूर्ध्वे तु सार्धांशं कुमुदोदयम् ।
अर्धेनाब्जं तथा कर्णं अ(चा)र्धेनाब्जं तदूर्ध्वके ॥ १५९ ॥
सार्धांशं पट्टिकोत्तुङ्गं पद्माकम्पं शिंवांशकम् ।
अर्धेन निम्नकं चोर्ध्वे तत्समा(मम)न्तरितं तथा ॥ १६० ॥
एकांशेन प्रतिं चोर्ध्वे वाजनं चार्धभागिकम् ।
एकांशं कन्धरं प्रोक्तं कम्पमर्धेन योजयेत् ॥ १६१ ॥
पद्ममर्धेन सार्धांशं कपोतां(तमं)शेन वाजनम् ।
एकं तत्प्रतिबन्धं स्याद्द्विविधं तत्प्रकीर्तितम् ॥ १६२ ॥
शेषं तु पूर्ववत्कुर्यात्सर्वालङ्कारसंयुक्तम् ।
तुङ्गे षड्विंशदंशेन(शे च) जन्मतुङ्गं कलांशकम् ॥ १६३ ॥
क्षुद्रोपानं शिवांश् स्यात्पद्मतुङ्गं फलांशकम् ।
एकेन कम्पनं चोर्ध्वे कन्धरं च द्विभागिकम् ॥ १६४ ॥
तदूर्ध्वे कम्पमेकांशं पद्ममेकेन कारयेत् ।
पर्य्यं(त्यं)शं कुमुदोच्चं स्यात्पद्ममेकेन कारयेत् ॥ १६५ ॥
कम्पमेकं तदूर्ध्वं च द्व्यंशकैरर्गलमेव च ।
तदूर्ध्वे कम्पमेकांशं पद्ममेकेन कारयेत् ॥ १६६ ॥
कपोतोच्चं द्विभागं स्याच्छेषं तत्प्रतिवाजनम् ।
वृत्तं वा पट्टकम्पं वा कपोतो(तं) वापि पट्टिकौ ॥ १६७ ॥
अथ(घः) कर्णद्वयोर्देशे व्यालरूपादिभूषितम् ।
चतुर्विंशांशके(के) तुङ्गे जन्मोत्सेधं गुहांशकम् ॥ १६८ ॥
कम्पमीशं तदूर्ध्वे तु निम्नमंशेन कारयेत् ।
एतदूर्ध्वं पञ्चभागैनैकैकं भद्रसंयुक्तम् ॥ १६९ ॥
तदूर्ध्वे कम्पमेकेन तत्समं निम्नकं भवेत् ।
तत्समा(मम)न्तरितं चोर्ध्वे भागेन प्रतिसंयुतम् ॥ १७० ॥