Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s15.10
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s15.10
- Language
- English
v3.c24.s15.10
अथावच्ये विशेषेण कुम्भालङ्कारमुच्यते ।
तन्मूलपक्तिकोत्सेधे विभजेत्तु षडंशकम् ॥ ९९ ॥
एकांशं पादुकं चैव पद्मत्तुङ्गं तु तत्समम् ।
कम्पमर्धं तदूर्ध्वं तु कन्धरं च द्विभागिकम् ॥ १००॥
कम्पमर्धेन तस्योर्ध्वं पद्मांशेन योजयेत् ।
अथवा चोर्ध्वके कम्पं तस्याधो(धः) पद्मांशकम् ॥ १०१ ॥
कण्ठमेकांशकं कुर्याच्छ्लेषं प्रागुक्तवद्भवेत् ।
तदेवोर्ध्वेऽर्धं पद्मं च तस्योर्ध्वे (र्ध्व ए) कं कपोतकम् ॥ १०२ ॥
अर्धेन वाजनं चोर्ध्वे यथाशोभं तु कारयेत् ।
तदूर्ध्वं कुम्भमूले तु पाल्यां(ल्यामं)शेनांश(शं) पद्माकम् ॥ १०३ ॥
तदूर्ध्वं कम्पमर्धेन शेषं युक्ता यथाकृति(म्) ।
तदूर्ध्वं वक्त्रतुङ्गं स्यान्नवभाग(गे) विभाजिते ॥ १०४ ॥
कुम्भो (म्भा) धींशेन जन्म स्याद्वाजनं चार्धभागिकम् ।
पद्मांशेन संयुक्तं कम्पमर्धेन कारयेत् ॥ १०५ ॥
सार्धद्व्यंशं गलोत्तुङ्गं कम्पमर्धेन कारयेत् ।
तत्समं पद्मतुङ्गं स्यात्सार्थाशं तु कपोतकम् ॥ १०६ ॥
एकांशं प्रतिसंयुक्तं सर्वालङ्कारसंयुतम् ।
कर्ण(ण्ठ)तुङ्ग(ङ्गं) द्विभागं पद्मामन्यर्धमेव वा ॥ १०७ ॥