Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s15: स्तम्भलक्षणम्

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s15

Language
English

स्तम्भलक्षणम्

v3.c24.s15.1

पादानापि सर्वेषां लक्षणं वक्ष्यतेऽधुना ।
आयामं च विशालं च आ(चा)र्यादि भूपणादिकम् ॥ १ ॥
दारुसंग्रहणं पादस्थापनं च यथाक्रमम् ।
जङ्गा च चरणं चैव स्थली स्तम्भमङ्घ्रिकम् ॥ २ ॥
स्थाणु स्थूणं च पादं च क(स्क)म्भभारणि भारकम् ।
धारणं द्वादशं नाम पर्यायोक्तं पुरातनैः ॥ ३ ॥
अधिष्ठानोपरिष्टात्तु चोत्तराधोऽवसानकम् ।
उपपीठोपरिष्टात्तु जन्मादौ चोत्तरान्तकम् ॥ ४ ॥
पादायामावसानं[तु] च अ(चा)धिष्ठानोदयेन च ।
द्विगुणं वा सपादार्थ पादोनद्विगुणं तु वा ॥ ५ ॥
द्विगुणान्ता (न्तम) ङ्घिकायामं हस्तमानवशो(शम्)च्यते ।
सार्धद्विहस्तमारभ्य षट्षडङ्गुलवर्धनात् ॥ ६ ॥
अष्टहस्तावसानं स्याच्चतुर्थांश (द्वादशम) ङ्घ्रितुङ्गत्वकम् ।
त्रिचतुष्पञ्चषण्मात्रं कुड्यस्तम्भवशालकम् ॥ ७ ॥
तत्तद्द्विगुणितं वापि त्रिगुणं वा चतुर्गुणम् ।
एतत्कम्प(स्कम्भ)विशालं स्यादथवा तुङ्गमानतः ॥ ८ ॥
आदित्यरुद्रपत्यं (क्त्यं) शरन्ध्रं चाष्टांशकं भवेत् ।
एकैकं पादविस्तारं तत्तत्पादोन्नममतः ॥ ६ ॥
एतत्पादविशालं स्यात्तथा (दा) कारमिहोच्यते ।
चतुरश्रं ब्रह्मकान्तं स्यादष्टाश्रं विष्णुकान्तकम् ॥ १० ॥
षोडशाश्रं तु वृत्तं वा रुद्रकान्तमिति स्मृतम् ।
पञ्चाश्रं शिवकान्तं स्यात्षडश्रं स्कन्दकान्तकम् ॥ ११ ॥
मूलादि चाग्रपर्यन्तमेवमाकारमीरितम् ।
एवमाकारपादानां मूले वेदाश्रमेव च ॥ १२ ॥

v3.c24.s15.2

मूलं मध्यं चाग्रं च चतुरश्रमथापि वा ।
भ्रमतारसमा(मस)ग्रे तत्कर्ण(कण्ठ)माना(नम)ग्रमन्तकम् ॥ १३ ॥
तत्समं मध्यमाश्रा(श्रा)न्तं मध्यमात्रं समाश्रकम् ।
मध्यमाग्रस्य द्वयोः पादमग्रा(ग्र)स्य च मा(समा)न्तकम् ॥ १४ ॥
शेषं तत्पादमूले तु चतुरश्राकृति न्यसेत् ।
चित्रकर्ण(ण्ठ)मिति प्रोक्तं तत्र(त्) सर्वालयं(ये) भवेत् ॥ १५ ॥
तन्मूले चासनं कुर्यात्पादुकं वा सहाम्बुजम्(नेन) ।
मूलाग्रे चित्रसंयुक्तमग्रान्ते मुकुलान्वितम् ॥ १६ ॥
तन्मूले पालिकाद्यं(का हि) स्याद्यथाशोभं तु कारयेत् ।
अन्तरे चित्रपट्टं स्यात्परितो ह्यङ्गुलेन च ॥ १७ ॥
पत्रादिरत्नपुष्पैश्च एतत्पट्टैश्च भूषितम् ।
मध्याग्रे पद्मपत्रादि ऊर्ध्वा(मूला)धोऽग्रं(ग्रे) तु कुङ्गलम् ॥ १८ ॥
मूलवच्चाममये तु चाध्राधः कुङ्गलान्वितम् ।
सर्वालङ्कारसंयुक्तं पद्माकान्तमिति स्मृतम् ॥ १६ ॥
मूले विनासनस्तम्भं चित्रक(स्क)न्धमुदीरितम् ।
अङ्घ्रिकायाममानेन बोधिकादीनि विन्यसेत् ॥ २० ॥
तत्तत्पादप्रदेशे तु तद्विशालेन मानयेत् ।
विस्तारं च(रस्य) समु(म्मु)त्सेधं त्रिपादं वार्थमेव वा ॥ २१ ॥
अथ पादांशकं चैव यन्मानोरम्यमानकम् ।
दण्डके बोधिका वापि पालिका वाथ चोन्नतम् ॥ २२ ॥
द्विदण्डं वा त्रिदण्डं वा चतुः(तुष्)पञ्चकमेव वा ।
एतदायामविस्तारमुन्नतस्य समं भवेत् ॥ २३ ॥
दण्डं सपापदण्डं वा बोधिकाविस्तृतं(तिः) भवेत् ।
एतद्(एक)दण्डं(ण्ड)समं वापि त्रिपादार्थंकमेव वा ॥ २४ ॥
एवं तु वीरकण्ठोचं विस्तारार्थं विशालकम् ।
फलकोच्चै(न्नमे)कदण्डं वा त्रिपादं वा तथोन्नतम् ॥ २५ ॥
द्विदण्डं वा त्रिदण्डं वा फलकायाममिष्यते ।
पादतारं चतुर्थांशं तत्समं निम्नकं भवेत् ॥ २६ ॥

v3.c24.s15.3

दण्डार्धं कुम्भतुङ्गं स्याद्व्यर्धं वा द्विदण्डकम्।
कुम्भायामं तथोत्कण्ठमूर्ध्वे कण्ठसमं भवेत् ॥ २७॥
तत्समं ताटिकास्त्यं स्यादुन्नतं तद्विशेषतः।
सपाद(दं) सार्धदण्डं वा तस्यायामं तथोदितम् ॥ २८॥ 56
तत्तुङ्गस्य समं चाधो पद्मातुङ्गं प्रकल्पयेत्।
सपाद्दण्डमायामं तत्तुङ्गार्थं तु हारिकम् ॥ २६ ॥
तद्दण्डं तु तदायाममधोदेशे विशेषतः।
दण्डं तत्समविस्तारमुत्सेधं ताटिकोदयम् ॥ ३० ॥ 60
कलशाकारवत्कुर्यादधो वीरावासनकम्।
आधि(दै) सुरपुष्पाभं यथाशोभं तु कारयेत् ॥ ३१ ॥
तस्याधो(धः) सार्धदण्डेन मूलबन्धं सहाम्बुजैः ।
तस्याधोऽपि विशेषेण मुक्तादामविभूषितम् ॥ ३२ ॥ 64
एवं तु चोर्ध्वालङ्कारमधोऽलङ्कारमुच्यते।
एतद्(एक)दण्डेन मूले तु द्विदण्डेनोन्नतायतम् ॥ ३३॥
एवं पद्मासनं कुर्याद्भूतसिंहादि रूपकम्।
अधः कुम्भं विनिक्षिप्य दण्डं वाथ द्विदण्डकम् ॥ ३४ ॥ 68
सिंहस्योपरि पट्टं वा पद्मं गोपानमेव वा।
पालिकाकृतिवद्धापि शेषं युक्त्या प्रयोजयेत् ॥ ३५॥
अथवा तन्मूले वा पालिकादीनि विन्यसेत्।
एवं तु पालिकास्तम्भं कुम्भस्तम्भमिहोच्यते ॥ ३६ ॥ 72
पादमूले (ले प) कदण्डेन पालिकोन्नतमिष्यते।
तद्विस्तारं द्विदण्डेन कुम्भतुङ्गं द्विदण्डकम् ॥ ३७॥
तद्विस्तारं त्रिदण्डं स्यात्तदर्थं वास्य तुङ्गकम् ।
तत्पादस्याग्रके कुर्यान्नासिकापञ्जरान्वितम् ॥ ३८ ॥ 76
शक्तिध्वजै (जमे) कदण्डं स्यान्नासितुङ्गं द्विदण्डकम्।
तत्समं विहृतं चैव चैकदण्डं गलोदयम् ॥ ३६ ॥
विशालं तद्वयं चाधो(धः) पञ्जरोदयमीरितम् ।
तद्विशालं द्विदण्डं स्यादेतष्टं (कैकं) दण्डमेव च ॥ ४० ॥ 80

v3.c24.s15.4

यथाशोभं ततः(था) कुर्यात्तस्याधो वीरकण्ठ(ण्ठ)कम् ।
पादतारसमोत्सेधं विस्तारं तत्समं भवेत् ॥ ४१ ॥
तस्याधो फलकादीनां(नि) पूर्ववत्कारयेत्क्रमात् ।
कुम्भस्तम्भमिति प्रोक्तं कोष्ठस्तम्भादि वक्ष्यते ॥ ४२ ॥
कोष्ठकं तद्द्विपार्श्वे तु ऋजु पादाकृति स्त(त)था ।
पञ्जरस्यो(सु)त्तरादींश्च कोष्ठवासाकृति(तीं)स्तथा ॥ ४३ ॥
तदेव कोष्ठपादे च तदूर्ध्वं पञ्जरादिकम् ।
मूलपादविशालेन पञ्जरादीनि कारयेत् ॥ ४४ ॥
पञ्जरं च द्विदण्डेन तदर्धं चोर्ध्वकैः(के) गलम् ।
तदूर्ध्वे च द्विदण्डेन नासिकाशिखरन्वितम् ॥ ४५ ॥
तदर्धं स्तूपिकोत्तुङ्गे(ङ्गे) तन्मा(न्म)ष्ठानासिकाश्रये ।
अथवा मूलपादोच्चं षड्रिन्ध्राष्टभाजिते ॥ ४६ ॥
तत्तद्भागे गुणांशेन कोष्ठोर्ध्वं भूषणोदयम् ।
तत्तत्तुङ्गं पञ्चधा कृत्वा चैकांशं पञ्जरोदयम् ॥ ४७ ॥
तत्समं ग्रीवतुङ्गं स्यात्तदर्द्धयं नासितुङ्गकम् ।
स्तूपितुङ्गं तदर्धं स्यान्नासिकाग्रं च तत्समम् ॥ ४८ ॥
द्विदण्डाद्दण्डवृद्ध्या च दशदण्डावसानकम् ।
पञ्जरादिविशालं यच्छ्लेषं चोर्ध्वेऽङ्घ्रिकम् ॥ ४९ ॥
एकोनविंशांशं स्यात्पञ्जरोच्चं विभाजिते ।
द्विभागे चोत्तरोत्तुङ्गमेकांशं वाजनोदयम् ॥ ५० ॥
तदूर्ध्वपद्मं द्विभागं स्यादाजनं चैकभागिकम् ।
अष्टांशेन कपोतोच्चं तदूर्ध्वे क्षा(चा) लिङ्गमंशकम् ॥ ५१ ॥
तत्सममन्तरितं चोर्ध्वे ह्यंशं तत्प्रतिकोन्नतम् ।
तदूर्ध्वे वाजनं चार्श शेषं युक्त्या प्रयोजयेत् ॥ ५२ ॥
ग्रीवतुङ्गं त्रिधा भज्यमेकांशं वेदिकोन्नतम् ।
ग्रीवतुङ्गं सपादार्थं शेषांशं ग्रीवमूपणम् ॥ ५३ ॥
वेदिकोर्ध्वे तु समांशं सार्धबन्धं(न्धु) गलोदयम् ।
तदूर्ध्वे कम्पमेकांशं सार्धांशं पद्मत्तुङ्गकम् ॥ ५४ ॥

v3.c24.s15.5

तदूर्ध्वे वाजनं चार्शमायामं वा त्रिभागिकम् ।
एकांशं मध्यभद्रं तु मध्ये युक्त्या प्रकोष्टकम् ॥ ५५ ॥
ग्रीवभूषायतुङ्गे च विभजेत् षडंशकम् ।
द्विभागं चोत्सरोत्सेधं तदर्धं वाजनं भवेत् ॥ ५६ ॥
द्विभागं [च] गलभि(लो)त्सेधं वाजनं चैकभागिकम् ।
मध्यकोष्टोत्तरं तत्स्यात्क्षुद्रपादैः स(सु)भूषितम्(तैः) ॥ ५७ ॥
पञ्जरे प्रतिकायामे चाष्टभाग(गे) विभाजिते ।
सप्तांशे वेदिकायामे पद्मवाजनकान्त(कर्मांश)कम् ॥ ५८ ॥
वेदितारं चतुर्भागं त्रिभागं ग्रीवविस्तृतम् ।
वेदितारसभं नासी(सि) शालायामे प्रकल्पयेत् ॥ ५९ ॥
तदायामे त्रिभागैकं मध्यनासी(सि) विशालकम् ।
विशालार्धं त्रिपादं वा मध्यनास्योदयं भवेत् ॥ ६० ॥
पार्श्वयोर्बहुनास्योश्च शिखरस्य समोन्नतम् ।
तच्छिखं चोत्तरान्तं स्यात्क(किम्) वरीवक्रसंयुतम् ॥ ६१ ॥
नासिकापत्रसंयुक्तं मध्य(ध्ये) क्षुद्रं च निम्नकम् ।
शिरस्यो(स्थू) र्ध्वे पट्टिकानां च मध्यनासी(सि) शिखान्तकम् ॥ ६२ ॥
शिरोलम्बोत्तरान्तं वा वलभा(भी)वृति(ती)मेव वा ।
शिखरस्योर्ध्वे पट्टोबमुत्तरोचं समं भवेत् ॥ ६३ ॥
तदूर्ध्वे वाजनं पद्मं निम्नं कुम्भं सदण्डकम् ।
पद्मा(द्मां) वाजन(नं) पद्मं च तदग्रे कुद्मलान्वितम् ॥ ६४ ॥
एतत्स्तूपित्रयं प्रोक्तं भागं युक्त्या प्रयोजयेत् ।
तच्छिखरे(रः) समलङ्कृत्य पत्रवल्ल्यादिशोभितम् ॥ ६५ ॥
एतत्पञ्जरशालां च पद्ममेकं शिखात्रयम् ।
सर्वालङ्कारसंयुक्तं कुर्यात्तैं तत्तफेण(कः स) तु ॥ ६६ ॥
अथवा तोरणं कृत्वा स्तम्भस्योपरि वाजनम् ।
मूले(ल)पादविशाले तु चैकखण्डं तयोर्भवम् ॥ ६७ ॥
पूर्ववद्भागमानेन चोत्तराङ्गिक्रियान्वितम् ।
तदूर्ध्वे तोरणस्यान्ते मकरा(र)पत्रसंयुक्तम् ॥ ६८ ॥

v3.c24.s15.6

तदूर्ध्वं तोरणान्तं स्यादेकदण्डं तु विस्तरः ।
मकरीवक्त्रसंयुक्तं सर्वालङ्कारशोभितम् ॥ ६९ ॥
कोष्ठं(ष्ठस्य)च पार्श्वयोश्चैव क्षुद्रपादसमन्वितम् ।
मूलपादविशालं स्यात्त्रिपाद(दं) क्षुद्राङ्घितारकम् ॥ ७० ॥ 140
तस्यपादविशालेन पादभूष्या(षां) मानयेत् ।
फलकान्तकार्धं च वीरकण्ठै(ण्ठमे)कदण्डकम् ॥ ७१ ॥
बोधिकादि(दिं) विनायुक्तं फलकादिक्रिया(यां) न्यसेत् ।
फलकायाम(मं) द्विदण्डं चाप्यर्धदण्डकं तत्कुर्मविस्तृतम् ॥ ७२ ॥ 144
वाटिवक्त्रं सपादं स्यात्तुङ्गं प्रागुक्तवन्नयेत् ।
सर्वालङ्कारसंयुक्तं युक्त्या तत्रैव योजयेत् ॥ ७३ ॥
बोधिकान्तं ललाटे च स्यादुत्सेधं चोर्ध्वं वाजनम् ।
तद्वाजनं तु पादान्तं पार्श्वयोस्तन्मुखाश्रुतम् ॥ ७४ ॥ 148
अधोभागे त्रिभागैकं मध्यभद्राकृति न्यसेत् ।
तद्वि(द्वि)पार्श्वे तु चैकैकं कर्तृ(ण्ठ)च्छेदम(न)मिष्यते ॥ ७५ ॥
पार्श्वयोर्वाजनस्याधो वक्रं वक्राकृति तथा ।
ऊर्ध्ववाजन(नं) तद्युक्त्या कुर्यात्क्षुद्रादि वाजनम् ॥ ७६ ॥ 152
पार्श्वयोः स्तम्भ[स्त]स्योर्ध्वे मध्यभद्रादिभूषितम् ।
द्वाभ्यां तत्कर्ण(ण्ठ)दण्डान्तं मध्ये पार्श्वे च निम्नकम् ॥ ७७ ॥
बोधिके च तरङ्गं स्यात्सर्वालङ्कारसंयुतम् ।
तदेव तुङ्गमाने तु द्वादशांशे विभाजिते ॥ ७८ ॥ 156
अधोभागे त्रिभागेन तरङ्गाकृति विन्यसेत् ।
तदूर्ध्वे बोधिकोत्सेधं षडंशेन विशेषतः ॥ ७९ ॥
प्रफुल्लानन(नं) सर्वं(र्वा)मं पुष्पसंप(पद्म)वदाननम् ।
एतदूर्ध्वे शिरस्यो(स ऊ)र्ध्वे चांशेन हरिता(हारिका) भवेत् ॥ ८० ॥ 160
एकदण्ड(ण्डं) त्रिपादं वा वाजमान्तं शिर उन्नतम् ।
तस्मात्तदायते दीर्घे निर्गमस्यम(चा)धोमुखम् ॥ ८१ ॥
कन्द(द)लीतूनदण्डाभमग्रिमूर्ध्वं निरोपमम् ।
अग्रे समग्रलं चैव तरङ्गं तत्समाधिकम् ॥ ८२ ॥ 164

v3.c24.s15.7

ललाटे चित्र(त्रं) भागैकमधो मूर्ध्नि विशालकम् ।
तस्योर्ध्वे कर्ण(ण्ठ)भागेन कर्णकम्पाब्जवाजनम् ॥ ८३ ॥
पत्रवल्यादिरत्रैश्च पत्रचित्राभिभूषितम् ।
सर्वालङ्कारसंयुक्तं पुष्पबोध(धि)कमीरितम् ॥ ८४ ॥
उपपीठवदाकारं दण्डकादीनि विन्यसेत् ।
क्षुद्रकम्पं च (म्यैश्च) पत्त्रैश्च पुष्परत्नैश्च भूषितम् ॥ ८५ ॥
तरङ्गा(ङ्गं) दण्डका (का) चैव बोधिकादीनि पालिका ।
एकवक्त्रं द्विवक्त्रं वा त्रिवक्त्रं चतुराननम् ॥ ८६ ॥
पञ्चषट् सप्ताष्टं वा यथा शक्तिवशान्यसेत् ।
तस्याधो वीरकर्णे(ण्ठे) तु फलका बोधिकान्तरम् ॥ ८७ ॥
आधारार्थं तु शोभार्थं सिंहचित्रादिमण्डितम् ।
वीरकर्ण(ण्ठ)स्योदयं ज्ञात्वा नवभाग (गे) विभाजिते ॥ ८८ ॥
एकांशं पादुकं कुर्यात्पञ्चभागं तु संग्रहम् ।
तदूर्ध्वे क(हा)रिकांसं(कमंशं) स्यादब्जमंत्रेन कारयेत् ॥ ८९ ॥
तदूर्ध्वे वाजनं चांशं संग्रहं च द्विवक्रयुक् ।
पद्माद्याकृतिरमादीन् रेखा मूलवती न्यसेत् ॥ ६० ॥
रत्नवल्यादि[ना] संभूष्य शेषं युक्त्या प्रयोजयेत् ।
संग्रहं (ह) रूपमित्युक्तं वीरकर्णे(ण्ठे) पुरान्वितम् ॥ ६१ ॥
पद(दा)ङ्गाङ्कदनं कृत्वा पश्चादुद्धृत्यहस्तवत् ।
तदेव सिंहादिरूपैर्वा नाटकाद्यैरुलङ्कृतम् ॥ ६२ ॥
एतत्तु मुष्टिबन्धं स्यात्फलकोक्तं त्रिभागिकम् ।
एकांशो (शमु) त्सन्धितुङ्गं स्यात्तदधो क्षेपणां(खमं)शकम् ॥ ६३ ॥
तदधोऽब्जां(ब्जमं)शं पद्मं च द्व्यंशेनाब्जमथापि वा ।
कुम्भोशं चाष्टभागेन चांशेन पद्माकम्पकम् ॥ ६४ ॥
कुम्भाधो (धश) चोर्ध्वदेशे तु वटपत्रादिशोभितम् ।
निम्नं च ताटिकादीनि युक्त्या प्रागुक्तवन्नयेत् ॥ ६५ ॥
कुम्भस्तम्भप्रतिस्तम्भे कोष्ठकादीनि का (चा) म्भिके ।
कुम्भस्तम्भानि सर्वेषामेवमुक्तं पुरातनैः ॥ ६६ ॥

v3.c24.s15.8

भुवो(व ङ)परिष्टान्मुनिभागतुङ्गके
त्रिभाग(गं) मध्यं गलमंश(शं) चोर्ध्वके ।
फलं(लकं) वि(द्वि)भागं शाखा शिरा( रः) कुम्भमंशकम्
क्रमात्कुर्वन्त्विति पञ्चरादिकम् ॥ ९७॥
पञ्चभाग(गं) पुरतो(त ङ)क्ततुङ्गके
द्वंशकं त्रिप(पा)दं सार्धकं त्रिपात(घा) ।
पञ्चांशं गलनासिकानान[म्]
कुम्भयुक्तचरत्रामभूषणम् ॥ ९८ ॥

v3.c24.s15.9

( कुम्भालङ्कारम् )

v3.c24.s15.10

अथावच्ये विशेषेण कुम्भालङ्कारमुच्यते ।
तन्मूलपक्तिकोत्सेधे विभजेत्तु षडंशकम् ॥ ९९ ॥
एकांशं पादुकं चैव पद्मत्तुङ्गं तु तत्समम् ।
कम्पमर्धं तदूर्ध्वं तु कन्धरं च द्विभागिकम् ॥ १००॥
कम्पमर्धेन तस्योर्ध्वं पद्मांशेन योजयेत् ।
अथवा चोर्ध्वके कम्पं तस्याधो(धः) पद्मांशकम् ॥ १०१ ॥
कण्ठमेकांशकं कुर्याच्छ्लेषं प्रागुक्तवद्भवेत् ।
तदेवोर्ध्वेऽर्धं पद्मं च तस्योर्ध्वे (र्ध्व ए) कं कपोतकम् ॥ १०२ ॥
अर्धेन वाजनं चोर्ध्वे यथाशोभं तु कारयेत् ।
तदूर्ध्वं कुम्भमूले तु पाल्यां(ल्यामं)शेनांश(शं) पद्माकम् ॥ १०३ ॥
तदूर्ध्वं कम्पमर्धेन शेषं युक्ता यथाकृति(म्) ।
तदूर्ध्वं वक्त्रतुङ्गं स्यान्नवभाग(गे) विभाजिते ॥ १०४ ॥
कुम्भो (म्भा) धींशेन जन्म स्याद्वाजनं चार्धभागिकम् ।
पद्मांशेन संयुक्तं कम्पमर्धेन कारयेत् ॥ १०५ ॥
सार्धद्व्यंशं गलोत्तुङ्गं कम्पमर्धेन कारयेत् ।
तत्समं पद्मतुङ्गं स्यात्सार्थाशं तु कपोतकम् ॥ १०६ ॥
एकांशं प्रतिसंयुक्तं सर्वालङ्कारसंयुतम् ।
कर्ण(ण्ठ)तुङ्ग(ङ्गं) द्विभागं पद्मामन्यर्धमेव वा ॥ १०७ ॥

v3.c24.s15.11

अथवा वक्रतुङ्गं स्यादेकदण्डेन कारयेत्।
पालिकस्यो(कमु)क्तवत्कुर्याद्यथाशोभं तु कारयेत् ॥ १०८॥ 220
अस्योर्ध्वॆऽर्घेन दण्डेन कुइमलाकृति(तिं) न्यसेत्।
तदा स्यान्निर्गमं भावं कुम्भान्तं लंम(लम्ब)येत् पुनः॥ १०६॥
कुम्भमध्ये रत्नबन्धं वलनिप्यं च विन्यसेत्।
सर्वालङ्कारसंयुक्तं पादमूले तु विन्यसेत् ॥ ११०॥ 224
तदास्यं निर्गमं भावं कुम्भान्तं नासिकं भवेत् ।
अथवा नासिकां लक्त्वा पञ्जरस्योपरि न्यसेत् ॥ १११॥
पादयोर्ध्वं पाल्यन्तं पद्मवल्यादिभूषितम्।
मूलपादविशालं वा तन्त्रिपादविशालकम् ॥ ११२॥ 228
एतत् कुम्भाङ्घ्रिकं प्रोक्तं चान्तरालं च योजयेत् ।
कुर्याद्वहिःप्रदेशे तु मध्ये वा चान्तरालके ॥ ११३॥
भित्तिमध्ये च कूटे च शिरोदेशे विशेषतः।
विशालपञ्जराद्यैश्च योजयेच्छिल्पि(ल्प)वित्तमः॥ ११४॥ 232

v3.c24.s15.12

(स्तम्भलक्षणम्)

v3.c24.s15.13

तत्तस्तम्भलक्षणं वक्ष्ये तुङ्गाध्र्रीञ्चोक्तवन्नयेत्।
मूलस्तम्भविशालेन त्रिपादं वार्थमेव वा ॥ ११५॥
संयोगस्तम्भविस्तारं यन्मानोरम्य (म्यं) मानयेत्।
बोधिका(कां) फलकान्तं च मूलदण्डेन मानयेत् ॥ ११६॥ 236
पालिकाद्यङ्गं सर्वेषामुपदण्डेन मानयेत्।
बोधिकादीनि सर्वाङ्गं(नि) पूर्ववत्परिकल्पयेत् ॥ ११७॥
उपपादानि सर्वेषां पूर्वपादे तु योजयेत् ।
उपपादं(दं) मूलपादान्तमुपदण्डसमन्तकम् ॥ ११८॥ 240
तद्दण्डस्य त्रिपादं वा दण्डार्र्ध वाथवांशकम्।
एकोपपादसंयुक्तं द्वित्र्युपपादेन संयुतम् ॥ ११९॥
एवं क्रममिति प्रोक्तं मूले पद्मासमान्वितम्।
वेष्टोपपादसंयुक्तं ब्रह्मकान्तमी(मिती) रितम् ॥ १२०॥ 244

v3.c24.s15.14

पञ्चोपपादसंयुक्तं शिवकान्तमितीरितम् ।
षडो(डु)पपादसंयुक्तं स्कन्दकान्तमिति स्मृतम् ॥ १२१ ॥
अष्टोपपादसंयुक्तं विष्णुकान्तमुदीरितम् ।
सर्वेषां पादमूले तु पालिकां चोयपीठवत् ॥ १२२ ॥
कुर्यात्सिंहस्य रूपं वा पादं पत्रादिभूषितम् ।
शिले(लया) दारुजे(णा) वापि कारयेदुक्तवद्बुधः ॥ १२३ ॥

v3.c24.s15.15

( दारुसंग्रहणम् )

v3.c24.s15.16

दारुसंग्रहणं वक्ष्ये पश्चाद्द्वारस्य लक्षणम् ।
दक्षिणायनकाले तु चोत्तरायणमे(णे ऽ)व वा ॥ १२४ ॥
माघादौ च चतुर्मासे कुर्याद्दारिश्च संग्रहम् ।
कृष्णपक्षे शुभदिने सुमुहूर्ते सुलग्नके ॥ १२५ ॥
दारुसंग्रहणं कुर्यात्स्थपतिः स्थापकैः सह ।
कुठारमट्ट(ट)खङ्गादीन्(दे) रक्षासूत्रेण बन्धनम् ॥ १२६ ॥
पीत्वा शुद्धं पयो रात्रावुपोष्याधिवसेद्बुधः ।
प्रभाते तु समुत्थाय कर्ता सानुचरैः सह ॥ १२७ ॥
वनप्रयाणमार्गे तु पश्येत्तु शकुनानि वै ।
संमुखे तु सुराभाण्डं मांसं वृषभं तु वा ॥ १२८ ॥
पूर्णकुम्भं गजं वेश्या(श्यां) द्विजानां सङ्घमेव च ।
दर्पणं पुष्पमालां च राजानं चक्र(च्छत्र)मेव च ॥ १२९ ॥
आन्दोलिका(कां) वह्नि पूर्णघटं च शिविरं तथा ।
वरध्वजध्वजं चैव कामधेनुं सुमङ्गलाम् ॥ १३० ॥
धनधान्यसमृद्धिं च दृष्ट्वा सर्वमेतच्छुभावहम् ।
मुक्तकेशं नासिहीनं तैलभाण्डं तथैव च ॥ १३१ ॥
एक(कं) द्विजं यतिं चैव कपालारक्तवाससान्(सः) ।
क्षयरोगं चा(गिनम)ङ्गहीनं नव्यङ्गगदिगं(खल्यङ्गादिकं) तथा ॥ १३२ ॥
मार्गे[तु] संमुखे दृष्ट्वा त्यमङ्गलमिति स्मृतम् ।
भारद्वाजं दिवाभीतं नर्तकं व्यानकं तथा ॥ १३३ ॥

v3.c24.s15.17

वरदासीसरं वामे शुभदं दक्षिणेऽशुभम् ।
वायसं च मयूरं च दीर्घपुच्छं तथैव च ॥ १३४ ॥
कृष्णपञ्चद्वयं चैव श्वेताक्षं कृकलासकम् ।
रक्तबोधं च फणिनं सारङ्गं व्याघ्रमेव च ॥ १३५ ॥
जम्बुकं च तथा वामं (माद्) दक्षिणे गमने शुभम् ।
दक्षिणां वामतो गच्छेदशुभं भवति ध्रुवम् ॥ १३६ ॥
अन्धकं शकुनं चैवारण्ये श्वेतलोचनम् ।
हरिणं च शशं चैव मार्गकीटं तथैव च ॥ १३७ ॥
बहुवर्णं च गृध्रं च रक्तश्वानं च सूकरम् ।
दक्षिणाद्वामगमनं मङ्गलं भवति ध्रुवम् ॥ १३८ ॥
वामतो दक्षिणे गच्छेदशुभं प्राप्यते ध्रुवम् ।
परिहा (प्रतिका) रं च वक्ष्यामि ग्रामसीम्नि शुभं तु चेत् ॥ १३६ ॥
स्थित्वा भुक्त्वा द्विजान् पश्चाद्दृष्ट्वा गच्छेत्ततः सुधीः ।
ग्रामसीमंस्तु परितो दुर्निमित्ते पशुं क्षिपेत् ॥ १४० ॥
विपिनस्य समीपे तु चोक्तान्येका (ता) नि सर्वशः ।
दक्षिणां वामतो गच्छेद्व्रामतो दक्षिणे तथा ॥ १४१ ॥
मध्ये तदिष्टकार्याणि मङ्गलं भवति ध्रुवम् ।
वनं संप्राप्य सुच्छायां सुशीतलवरं तथा ॥ १४२ ॥
दृष्ट्वा निर्ज्येयेते (निधीयेत) च्छायां (छायायां) शृणुयाच्छाकुनस्वरान् ।
व्यालं भारद्वाजं च श्वेताक्षिं च बृहत्खगम् ॥ १४३ ॥
सुस्वरं तु शुभं प्रोक्तं दुःस्वरेऽथ पशु (शुं) क्षिपेत् ।
काकस्वरं दक्षिणे श्रेष्ठं प्राचि चैव मध्यमम् ॥ १४४ ॥
प्राक् (तत्) स्वरं चाधमं प्रोक्तं तस्य तूत्तर [तः] स्वरम् ।
यदि श्रुतं चेत्तत्काष्ठे श्रोण्यजानि बलिं क्षिपेत् ॥ १४५ ॥
होमार्थं तत्र कुर्यात्प्रत्नं चोक्तवद्बुधः ।
असुरं राक्षसं चैव भूतपैशाचमेव च ॥ १४६ ॥
चरगं (गीं) पूतन (ना) विदारी (रीं) पापराक्षस (सी) मेव च ।
महांश्चाष्टगणाख्यानिन्द्रादीशामकान्तकम् ॥ १४७ ॥

v3.c24.s15.18

रक्तेन मिश्रितं चान्नं स्तुतिं चैव सदा जपेत् ।
मुख्यं चापि मृगं चैव चादितिमुदिति(तं) तथा ॥ १४८ ॥
वितथं चान्तरि(री)क्षं च भृशं पूषणमेव च ।
एतेभ्यो राक्षसेभ्यश्च मांसमन्नं बलिं क्षिपेत् ॥ १४६ ॥
फलानि क्षीरमन्नं च स्थपतिस्तु वनस्पतेः(तये) ।
बलिं दद्यात्स्वनाम्नै(मभि)र्धान्यंषां च स्वनामभिः ॥ १५० ॥
शुद्धिं कृत्वा ततः पश्चात्पुण्याहं वाचयेत्ततः ।
स्वस्तिवाचनकं कुर्यात्तथाब्राह्मणभोजनम् ॥ १५१ ॥
दारुच्छेदनकाले तु बहिर्गच्छेद्रनस्पतेः(तिः) ।

v3.c24.s15.19

(श्रो) राक्षसैः सह भूतैश्च कर्तारं रक्षतं(त्रे) नमः ॥ १५२ ॥
पश्चात्तु स्थापकेनैव रक्षार्थं निक्षिपेद्वलिम् ।
कुर्याद्धोमं स्थापकस्तु पूजयित्वा वनदेवताः ॥ १५३ ॥
प्रोक्षयेत्परशुं तत्र प्राङ्मुखोत्तरेऽपि वा ।
परशुं तक्षकं श्रेष्ठं स्थपतिः स्थापककरात् ॥ १५४ ॥
स्वीकृय दारु विच्छिद्य चान्यैरनुचरैः सह ।
स्थूलमूलं कृशाग्रं च नि(निः) शृङ्गं स्निग्धरूपकम् ॥ १५५ ॥
जन(अन्तः) शाखासंकीर्णं [च] छत्रवन्निऋथं यदि ।
सुशीतलं तु सुच्छायं छायावृक्षमिति स्मृतम् ॥ १५६ ॥
वृक्षस्य मूलमध्ये तु वृक्षाग्रे समनाहकम् ।
निःशाखः स पुमान्प्रोक्तं स्निग्धरूपं च शीतलम् ॥ १५७ ॥
अग्रस्थूलं कृशे(शं) मूले नानाविटपशाख(खा)युक्तं ।
दुर्भरं भिन्नसुषिरं चोष्णं विवृतशाखकम् ॥ १५८ ॥
दृष्टान्तं मनुजा(ज)योग्यं छायायामं(वन्तं) नपुंसकम् ।
स्त्रीपुमान्नपुंसकश्लेषः सुमुहूर्ते सुलग्नके ॥ १५६ ॥
वृक्षच्छेदनकाले तु उ(चो)त्पद्य न पतेद्यदि ।
पतन्ति चोत्तरे वा प्राग्दिग्भागे न चामङ्गलम् ॥ १६० ॥

v3.c24.s15.20

याम्ये वा पश्चिमे वापि देशे [नि]पतन्ति मङ्गलम् ।
ईशं(शे) नैऋ(र्ऋ)तिकोणे वा सर्वसंपत्करं भवेन् ॥ १६१ ॥
अनलानिलकोणे वा चान्यथा चान्तरालके ।
उद्गतमिति तत्र स्यात्सकलानांलयमङ्गलम् ॥ १६२ ॥
छिन्नवृक्षस्य पतने वृषभं(भ)ह्यवकृञ्जरम् (राख्याम्) ।
निन(ना)दं भवति श्रेष्ठं बाह्यत्वा(ता)ने त्वमङ्गलम् ॥ १६३ ॥
समीपे(प)स्थितवृक्षा(क्षां)श्च हत्वा यदि पतेत्तरुः ।
अशुभं तत्समुद्दिष्टो(ष्टं) पतन्ति मनुजोपरि ॥ १६४ ॥
पूर्वे वा चोत्तरे वापि वृक्षास्तत्र पतन्ति चेत् ।
तत्रादे(दै) त्यकर्म नास्ति चान्ये(न्य)दिक्षु त्वमङ्गलम् ॥ १६५ ॥
सर्वदोषं समुद्दिश्य शान्ति कुर्याद्विचक्षणः ।
पशुप्रहारहोमं च ब्राह्मणान्भोजयेत्ततः ॥ १६६ ॥
एवं शान्तौ कृतायां तु दोषं नश्यति नान्यथा ।
नराणां मरणं स्याच्चेत्तत्त[त्] शान्तिर्न विद्यते ॥ १६७ ॥
तस्मात्परिहरेद्विद्वान् कुर्याद्दारु (रोश्च) संग्रहम् ।
शयनस्थितदारूणि स्थूणि(ल)कीलादिकं सर्वशः ॥ १६८ ॥
भूमौ पदं [स्थाप्य] नितम्ब (नतच्च)क्रमिति विरचितम् ।
स्थितः(त)शयनदारूणि रथमारोपयेत्तदा ॥ १६९ ॥
नववस्त्रेण संवेष्ट्य सर्वमङ्गलघोषषैः ।
अनड्वाहै। वाहयित्वा महिषं कुञ्जरं तु वा ॥ १७० ॥
कर्षयेत्तु नरैर्वापि सुमुहूर्ते सुलग्नके ।
शिल्पशालां प्रवेश्याथ रथात्तदवतारयेत् ॥ १७१ ॥
दारुसंग्रहणं प्रोक्तं दारुलक्षणमुच्यते ।
धूसकं चोरगां(रिणी) चैव खादिरं खदिरं तथा ॥ १७२ ॥
शाकं च निम्बवृक्षं च शमी शास्तं तथा मृगम् ।
एतेषु धारणं वृत्तं रा(शा)तवृक्षमिहोच्यते ॥ १७३ ॥
फत(खदि)रं कृतमालं च व्याघ्रकारलशदना मृगम् ।
द्राक्षा शाखा च रुद्राक्षि जम्बूके शयितेष्वपि ॥ १७४ ॥

v3.c24.s15.21

नालिकेरं च तालं च वेणु मौनी च किंशुकम् ।
पूगं च पुष्कलं चैव चामलकं च किशिरि ॥ १७५ ॥
हरितं च सप्तपर्णा चोर्ध्ववृक्षमुदीरितम् ।
तेषां (तैश्च) देवालयं कुर्यान्नृणां सद्योः (द्य) विशेषतः ॥ १७६ ॥ 356
व्याघ्र (घ्रं) चन्दनरक्तं च चन्दने तिन्त्रिणी तथा ।
अन्यानि दारुसर्वाणि द्विजातीनां गृहे न्यसेत् ॥ १७७ ॥
तत्तज्जातिद्रुमाभावे ण्य(त्वे) कजात्या च सर्वशः ।
वृक्षस्य मूलं शतश्रा(मूले चा) ग्रे चाग्रं तथैव च ॥ १७८ ॥ 360
भूमिस्पर्शमुखं ज्ञात्वा तदूर्ध्वं परमागतः ।

v3.c24.s15.22

(स्तम्भस्थापनम्)

v3.c24.s15.23

देवालयादिसर्वेषां स्तम्भस्थापनमुच्यते ॥ १७९ ॥
यथाभागावसाने तु स्थापयेदखिलाङ्घ्रिकम् ।
स्तम्भान्ते स्तम्भयुक्तं चेद्वास्तुवस्तु विनाशनम् ॥ १८० ॥ 364
यद्वास्त्वन्तर्बहिः सूत्रं स्थापयेदृजुसूत्रकम् ।
स्तम्भमध्यात्तु बाह्यान्तं यथापादं तथाश्रयम् ॥ १८१ ॥
यत्रदेश (शे) विशालाधं तत्र दोषो न विद्यते ।
पुष्य (ष्यं) मार्गं च चैत्रं च वैशाखं चोत्तरायणे ॥ १८२ ॥ 368
आषाढं श्रावणाश्वी च कार्तिकं दक्षिणेऽयने ।
सुमुहूर्ते सुलग्ने च शुक्लपक्षे शुभदिने ॥ १८३ ॥
स्तम्भमावाहनं कुर्याच्छ्रेष्ठमासे च(चा) भावके ।
अङ्कुरार्पणकर्मादौ स्थापनान्तं यथाक्रमम् ॥ १८४ ॥ 372
जलाधिवासने स्नानं कुर्याच्चपि सर्वशः ।
ईशाने नैऋतिकोणे तु मध्ये चाङ्घ्रिकमेव च ॥ १८५ ॥
पादस्थानस्य यद्देशे वस्तुन (स्तो) श्व बलं यथा ।
तदूर्ध्वं धारपट्टं स्याद्दण्डाध्यक्षं द्विदण्डकम् ॥ १८६ ॥ 376
घनं च विस्तृतं चैव चायामं तद्यवेष्टकम् ।
शिलास्तम्भे शिलाधारं दारुस्तम्भे द्रुमस्(सं) तथा ॥ १८७ ॥

v3.c24.s15.24

अथवा चारमनं सर्वमाधारं चतुरश्रकम् ।
एकहस्तं द्विहस्तं वा त्रिहस्तं विपुलं भवेत् ॥ १६८ ॥ 380
आधारस्य तु मध्ये स्याद्ब्रह्मस्थापनतोऽवटम् ।
प्रासादाभिमुखे चैव मण्डपं परिकल्पयेत् ॥ १८६ ॥
मण्डपान्तं प्रदेशे तु स्तम्भं सम्प्राह्य वेशयेत् ।
स्थण्डिले चण्डितं कृत्वा बीजं व्रीह्यादि विन्यसेत् ॥ १६० ॥ 384
तत्र स्तम्भं च विन्यस्य पूर्वं वाप्युद्गमक्रमम् ।
नववस्त्रेण संवेष्ट्य कुम्भं कुर्यादभिभूषणम् ॥ १६१ ॥
कर्पटं तु शिरीषादिधान्यं कार्पासबीजकम् ।
सूत्रेण बध्वा पश्चात्तु स्तम्भकूर्चे च बन्धनम् ॥ १६२ ॥ 388
तदग्रे स्थण्डिलं कृत्वा शुद्धशालै(लिभि) श्च लाजकैः ।
दर्भैरास्तीर्य तत्रैव प्रागुदक् स्यात्तदग्रकम् ॥ १६३ ॥
पीठं वा चोपपीठं वा चोक्तवत्पद(दं) कल्पयेत् ।
जलसंपूर्णकुम्भादि तत्र चावाहयेद्बुधः ॥ १६४ ॥ 392
सूत्रपल्लवकूर्चाद्यान(दींश्च) नववस्त्रेण वेष्टयेत् ।
तदग्रे स्थण्डिलं कृत्वा रत्नव्रीह्यादि चावहेत् ॥ १६५ ॥
पादप्रक्षालनं कुर्यादाचम्य स्थपतिर्बुधः ।
भस्मं वा चन्दनं वापि धारयेत्तु त्रिपुण्ड्रकम् ॥ १६६ ॥ 396
सकलीकरणं कृत्वा पुण्याहं वाचयेत्ततः ।
ब्रह्मादिदेवताः सर्वाः पादस्थाने समर्चयेत् ॥ १६७ ॥
हस्तेस्वामव्यकुम्भान्तं पूजयेत्तु विशेषतः ।
देव्याव[क] र्णं सर्वेषां परितः कलशोदकै ॥ १६८ ॥ 400
आवाह्य पश्चादभ्यर्च्य गन्धपुष्पाक्षतादिभिः ।
रत्नाधिवासनं कुर्यात्तत्तद्देवत(स्य) नामभिः ॥ १६६ ॥
गन्धपुष्पादिधूपैश्च नैवेद्यान्तं समर्चयेत् ।
तदग्रे पूर्वदिग्देशे होमं कुर्याद्विचक्षणः ॥ २०० ॥ 404
पश्चात्तु शिल्पी संप्राप्य संस्पृशेत्स्तम्भमूलकम् ।
गैरिकापिंक्तसूत्रेण्च चतुःसूत्राणि विन्यसेत् ॥ २०१ ॥

v3.c24.s15.25

स्वर्गोसूर्व(च) सदर्भाशू(भीं) च घृतक्षीरेण योजयेत् ।
धूपदीपं ददे(द्या)त् पश्चाद्गन्धपुष्पैः समर्चयेत् ॥ २०२ ॥
हिमादिरूपं तत्स्तम्भं ध्यात्वा हस्तेन संस्पृशेत् ।
ततोऽधिवासनं कुर्यात्स्तम्भं सद्दैशिकोत्तमः ॥ २०३ ॥
पश्चात्सकमुख्याैस्तु स्तम्भमुद्धृत्य हस्ततः ।
वास्तुप्रदक्षिणं कुर्यात्स्वकीयानुचरैः सह ॥ २०४ ॥
सर्वमङ्गलघोषैश्च सम्भस्थापनदेशकम् ।
संप्राप्य हस्ततः स्तम्भमवरोह्य च पश्चिमे ॥ २०५ ॥
तत्स्तम्भं पूर्ववदनं(नमा) धारं प्रोक्ष्य संस्थितम् ।
अधिवासितरत्नानि व्याहृत्यावटतः क्षिपेत् ॥ २०६ ॥
मध्ये तु हेमं(म) निक्षिप्य चैन्द्रे ताम्रं विनिक्षिपेत् ।
याम्ये तु चायसं स्थाप्य कांस्यं वा वारुणे न्यसेत् ॥ २०७ ॥
सौम्ये तु रजतं स्थाप्य पुष्प (पद्म) रागं तु मध्यमे ।
पुष्परागमिन्र्द्रकोष्ठे गोमेदं चाग्निकोष्ठके ॥ २०८ ॥
महानीलं च याम्ये तु मरकतं नैऋते न्यसेत् ।
स्फटिकं वारुणे(ण) कोष्ठे तु प्रवालं वायुकोष्ठके ॥ २०६ ॥
सौम्ये तु मौक्तिकं न्यस्य चेन्द्रनीलं तथैशके ।
तत्स्तम्भं तत्र निक्षिप्य स्थपतिः कर्तृभिः सह ॥ २१० ॥
सर्वमङ्गलघोषैश्च ब्राह्मणैः स्वस्तिवाचनम् ।
अधिवासितकुम्भानि सर्वाण्यादाय शिल्पकः ॥ २११ ॥
वास्तुप्रदक्षिणं कृत्वा स्तम्भं मन्त्राभिषेचयेत् ।
धूपदीपं दधेत(द्यात्) पश्चाद्वस्त्रमाल्यैर्विभूषितम् ॥ २१२ ॥
गन्धपुष्पैः समभ्यर्च्य नैवेद्यं च निवेदयेत् ।

v3.c24.s15.26

[ओं] स्तम्भ महामेरो वास्तु दद्याद्यश(ज्यात्यावचू)चन्द्रदिवारम्(रौ) ॥ २१३ ॥
अन्यैः (न्यान्) स्तम्भै(म्भां)श्च मूर्ध्ना ते धृत्वा रक्षतु चोन्नतम् ।
एतन्मन्त्रं पठित्वा तु कुर्यादनुनयं बुधः ॥ २१४ ॥

v3.c24.s15.27

प्रासादे मण्डपे वापि प्राकारे गोपुरे तथा ।
द्विजातीनां च वर्णानां सद्यमासपकादि (न्यार्यकादी) नाम् ॥ २१५ ॥
स्तम्भप्रतिष्ठां सर्वत्र चैवं कुर्याद्विचक्षणः ।
पुरातनैश्च ऋषिभिः ब्रह्माद्यै (दिभि) श्च सुरैरपि ॥ २१६ ॥ 436
स्तम्भप्रतिष्ठा चोक्ता स्याद्विनाचेदशुभं भवेत् ।
तस्मात्स्तम्भप्रतिष्ठां तु कारयेच्छिल्पि (ल्प) वित्तमः ॥ २१७ ॥
स्थपतिः (तिं) स्थापकं विप्र (प्रं) स्थापने (न) कर्मणे (णि) वृतान् ।
पूजयेद्विधिवदुक्तमार्गतः स्वस्वात्मशिविरानन्तः प्रतिष्ठा चोक्ता स्यात् ॥ २१८ ॥ 440

v3.c24.s15.28

इति मानमारे वास्तुशास्त्रे स्तम्भलक्षणं नाम पञ्चदशोऽध्यायः