Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s18.19

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s18.19

Language
English

v3.c24.s18.19

स्तूपिकीलायतं तारं लक्षणं वक्ष्यतेऽधुना ।
ऊर्ध्वभूम्या सपादार्धं तस्यायामं(मं) समं तु वा ॥ ७१ ॥
गलोच्चाव्यर्थतुङ्गं वा स्तूपिकीलायतं तथा ।
तद्विष्कम्भसम(मं) व्यासं स्तूपिकीलस्य मूलके ॥ ७२ ॥
अथवाङ्गुलमानेन कीलमूलविशालकम् ।
त्रिचतुर्विंशाङ्गुलं लोहे दारुकीलं तु(वा) पूर्ववत् ॥ ७३ ॥
कीलायामं त्रिभागैकं मूले वेदाश्रमीरितम् ।
मध्ये चाष्टाश्रसंयुक्तं चाग्र(ग्रे) वृत्ताकृतिस्तथा ॥ ७४ ॥
एकाङ्गुलाग्रविस्तारं मूलाग्रान्तं चयं(य)क्रमात् ।
अथवा शिखराकारं कीलं मच्याकृतिस्तथा ॥ ७५ ॥
स्तूपिकीलविधृत्वा(वृतिः)त्रिगुणा स्यात्
बहिश्शरखादैर्घ्यमुक्तम् ।
कीलाधारविस्तृतार्ध(र्धं) तद्धनं
तत्कीलमूलमथ तत्र योज्यम् ॥ ७६ ॥
ताम्रजं चायसं दारु[जे] लभेत कीलं प्रकल्पयेत् ।
खदिरं खादिरं चैव तिन्त्रिणी सारमेव च ॥ ७७ ॥
उक्तवदारु संगृह्य स्थपतिः स्थापकैः सह ।
तत्काले ज्ञापयेद्विद्वान् स्तूपिकीलस्य वक्रकम् ॥ ७८ ॥
ऋज्वङ्गं च न भिन्नानि (नं च) तस्यानन्तरकेण तु ।
स्तूपिकीलमिदं प्रोक्तं तदूर्ध्वष्टफलचयम् ॥ ७९ ॥
माने प्रागुक्तवत्कुर्यात्पुंग्री चेष्टकां विदुः ।
मूलाग्रं च समतारं तु चेष्टका(कं) पुरुष(पं) स्तृतम् ॥ ८० ॥