Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s18: विमानलक्षणम्

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s18

Language
English

विमानलक्षणम्

v3.c24.s18.1

विमानलक्षणं चैव संक्षेपादृच्यतेऽधुना ।
तैतिलानां द्विजातीनां वर्णानां वासयोग्यकम् ॥ १ ॥

v3.c24.s18.2

एकभूमिविमानादिरविभूभ्यवसानकम् ।
भक्तिसंख्या(स्यां) तदाकारं स्यु(स्तू)पिकाद्यैश्च(दि) च लक्षणम् ॥ २ ॥

v3.c24.s18.3

लुपमानक्रमं सर्वं स्तूपिकास्थापने क्रमात् ।
खानयेद्भुतलं श्रेष्ठं पुरुषाञ्जलिमात्रकम् ॥ ३ ॥

v3.c24.s18.4

जलान्तं वा शिलान्तं वा पूरयेद्वालुकैश्शलैः ।
हस्तिपादाकृति(तिं) दारुस्तम्भेन[च] प्रहारयेत् ॥ ४ ॥

v3.c24.s18.5

एवं दृढकरं(कृतं) चोर्ध्वं यथाशास्त्रं(हर्म्यं) तु कारयेत् ।
एकभूमिविमाने तु चोक्तउत्तरसंग्रहम् ॥ ५ ॥

v3.c24.s18.6

एकभक्त्या द्विभक्त्या वा त्रिचतुष्पञ्चभागिकम् ।
षड्भागं षड्विधं प्रोक्तं क्षुद्रमेकतलं भवेत् ॥ ६ ॥

v3.c24.s18.7

पञ्चषट्सप्तभागं स्यान्मध्यममेकतलं भवेत् ।
षट्सप्ताष्टविभागं स्यात् श्रेष्ठमेकतलं भवेत् ॥ ७ ॥

v3.c24.s18.8

पञ्चषट्सप्तभक्त्या च क्षुद्रं च द्वितलं भवेत् ।
षट्सप्ताष्टभक्त्या च मध्यमं द्वितलेन(लमेव) च ॥ ८ ॥

v3.c24.s18.9

सप्ताष्टनवभागं स्यादुत्तमं द्वितलं न्यसेत् ।
सप्ताष्टभक्तिकं कुर्यात्क्षुद्रं च त्रितलं भवेत् ॥ ६ ॥

v3.c24.s18.10

नन्दपङ्क्त्यंश(शं) तेनैव मध्यमं त्रितलं भवेत् ।
एकपङ्क्यर्कभागेन चोत्तमं त्रितलं भवेत् ॥ १० ॥

v3.c24.s18.11

अष्टनन्ददशांशं स्यात्क्षुद्रमाने चतुस्तले ।
नन्दपङ्क्तिरुद्रभागं स्यान्मध्यमे च चतुस्तले ॥ ११ ॥

v3.c24.s18.12

पङ्क्तिरे(ङ्गेर) कादशार्कं स्याद्भागं श्रेष्ठे चतुस्तले ।
नन्दपङ्क्त्येकादशार्कभागं सप्ताविशालकम् ॥ १२ ॥

v3.c24.s18.13

कुर्यात्तु शिल्पविद्भिः क्षुद्रपञ्चतले न्यसेत् ।
षट्ठ्येकष‌ङ्गिर(ङ्गैर)र्कांशः(श)द्वा(त्रयो)दशांशे विशालके ॥ १३ ॥
एतन्तु मध्यमं पञ्चतलं हर्म्ये (ए)व कारयेत् ।
ईशाद्वादशकैकार्कं मनुभागं तथैव च ॥ १४ ॥
एतद्रागविशाले तु श्रेष्ठं पञ्चतलं भवेत् ।
अर्कैकार्कभागं तु मनुपञ्चा(चा)दशांशकम् ॥ १५ ॥
एतद्वै पृथके कुर्यात्क्षुद्रषट्तलहर्म्यकम् ।
सैकार्कांशं मुनि चांशं विधिषोडशभागिकम् ॥ १६ ॥
षट्तलं मध्यमं प्रोक्तं कुर्याद्धर्म्यविशालके ।
त्रिचतुः (तुष्) पञ्चषट्सप्तैकाधिकं दशभागिकम् ॥ १७ ॥
श्रेष्ठं षट्तलमित्युक्तं यथा कुर्याद्विचक्षणः ।
चतुर्दशांशकं पञ्चदशांशं षोडशांशकम् ॥ १८ ॥
सप्तदशाष्टषङ्गंशं क्षुद्रसप्ततलं तु वा ।
पञ्चा (चा) दशांशके चैव षोडशांशकमेव वा ॥ १६ ॥
सप्ता (प्ता) दशांशकं भागं चाष्टषड्वंशभागिकम् ।
एतन्मध्यममाने तु कुर्यात्तु सप्तभूमिके ॥ २० ॥
विस्तारादष्ट्रिभागं च तत्सप्तदशभागिकम् ।
तदष्टादशभागं स्यान्नन्दषड्वंशमेव वा ॥ २१ ॥
श्रेष्ठं सप्ततलं प्रोक्तं कुर्यात्तत्र विचक्षणः ।
सप्ता (प्ता) दशांशकं चैव विस्तारा(रस)ष्टादशांशकम् ॥ २२ ॥
नवषड्वंशकं चैव विशाले द्विदशांशकम् ।
क्षुद्रमष्टतलं ज्ञेयं हर्म्य कुर्यात्तु भागतः ॥ २३ ॥
नवमेव द्विभागं स्यान्नन्दषड्वंशकं तथा ।
विंशत्यां (त्यं) शक(शमेक) माधिक्यं भागं हर्म्यविशालके ॥ २४ ॥
मध्यमाष्टतलं कुर्याद्रागमानविमानके ।
नवाधिकदशांशं स्याद्विंशतिरैकविंशतिः ॥ २५ ॥
द्वाविंशतिश्च भागे च श्रेष्ठमष्टतलं तथा ।
विंशांशं विशाले तु चैक(सैकं) हस्तं तथैव च ॥ २६ ॥

v3.c24.s18.14

द्वाविंशति च भागं च त्रयोविंशतिभागिकम् ।
क्षुद्रं नवतलं ह्येवं कुर्याद्धागे विमानके ॥ २७ ॥
एकविंशतिभागं च तद्वद्द्वाविंशतिभागिकम् ।
त्रयोविंशतिभागं स्याच्चतुर्विंशतिभागिकम् ॥ २८ ॥
मध्यमं(ध्यं) नवतलं कुर्यान्मान्यमं तद्विशालके ।
द्वाविंशतिं(तिश्) च भागं स्यात्त्रयोविंशतिभागिकम् ॥ २९ ॥
चतुर्विंशतिकं च(चापि) पञ्चविंशतिकांशकम् ।
श्रेष्ठं नवतलं प्रोक्तं कुर्यात्तु शिल्प(ल्प)वित्तमः ॥ ३० ॥
त्रयोविंशतिभागं स्याच्चतुर्विंशतिभागिकम् ।
पञ्चविंशतिभागं च षड्विंशतिभागिकम् ॥ ३१ ॥
क्षुद्रं दशतलं कुर्याद्धागं सम(मध्य)विशालके ।
चतुर्विंशतिकं चैव पञ्चविंशतिकं तथा ॥ ३२ ॥
षड्विंशतिश्च भागं च सप्तविंशतिभागिकम् ।
मध्यमं(ध्यं) दशतलं कुर्याद्विमानस्य विशालकम्(के) ॥ ३३ ॥
पञ्चविंशतिभागं स्यात्षड्विंशतिभागिकम् ।
सप्तविंशतिभागं स्यादष्टाविंशतिभागिकम् ॥ ३४ ॥
श्रेष्ठं पङ्क्तितलं कुर्याद्धागं हर्म्यविशालके ।
षड्विंशतिश्च भागं स्यात्सप्तविंशतिभागिकम् ॥ ३५ ॥
अष्टाविंशतिभागं स्यान्नवविंशतिभागिकम् ।
क्षुद्रमेकादशतलं भागमानविशालके ॥ ३६ ॥
सप्तविंशतिभागं च अ(तु चा)ष्टाविंशतिभागिकम् ।
नवविंशतिकं चैव त्रिंशद्भागविशालकम् ॥ ३७ ॥
एकादशतलं प्रोक्तं मध्यमं तद्विमानके ।
अष्टाविंशतिभागं स्यान्नवविंशतिभागिकम् ॥ ३८ ॥
तत्तत्रिंशतिकं चैव चैकत्रिंशांशकं तथा ।
एकादशतलं श्रेष्ठं हर्म्यमूलविशालके ॥ ३९ ॥
नवविंशतिभागं स्यात्त्रिंशदंशविशालकं(कम्) ।
एकत्रिंशद्विभागं स्याद्द्वात्रिंशा(शदं)शकं भवेत् ॥ ४० ॥

v3.c24.s18.15

क्षुद्रद्वादशभूमिः स्याद्भागमेवं प्रकल्पयेत् ।
विशाले त्रिंशदंशं स्यादेकत्रिंशं च भागिकम् ॥ ४१ ॥
द्वात्रिंशद्विभागं चैव त्रयस्त्रिंशद्विभागिकम् ।
मध्यमं द्वादशभूमिं(म्या) [च] भागमानं विशालके ॥ ४२ ॥
द्वात्रिंशतिभागं स्यात्त्रयस्त्रिंशच्च भागिकम् ।
चतुस्त्रिंशतिभागं च पञ्चत्रिंशद्विशालके ॥ ४३ ॥
श्रेष्ठद्वादशभूम्याश्च भागं कुर्याद्विचक्षणः ।
कर्णपादस्य बाह्ये तु मध्यपादस्य मध्यमे ॥ ४४ ॥
एवं भागाबसाने स्याद्युक्तियुक्तं प्रयोजयेत् ।
मूलादिस्तूपिपर्यन्तं वेदाश्रं चायताश्रकम् ॥ ४५ ॥
द्यश्रं वृत्ताकृतिं वाथ ग्रीवादिशिखराकृतिः ।
स्तूपिकात्रयसंयुक्तं द्वयं वा चैकमेव वा ॥ ४६ ॥
चतुरश्राकृतिं(ति) यत्(यत) तु नागरं तत्प्रकीर्तितम् ।
मूलाग्रं वृत्तमाकारं तद्वृत्तायतमेव वा ॥ ४७ ॥
ग्रीवादिस्तूपिपर्यन्तं युक्ताश्रो(क्ताश्र) तद्युगाश्रकम् ।
वृत्तस्याग्रे ह्यश्रकं तद्वेसरी(र)नामकं भवेत् ॥ ४८ ॥
मूलाग्रात्स्तूपिपर्यन्तं अ(चा)ष्टाश्रकं वा षडश्रकम् ।
तदग्रं चायतं वापि ग्रीवस्याधो युगाश्रकम् ॥ ४९ ॥
पूर्ववच्चोर्ध्वदेशं स्याद्द्वाविडं परिकीर्तितम् ।
समाश्रकशिखायुक्तं चायामे तच्छिखात्रयम् ॥ ५० ॥
ह्यश्रवृत्तोपरि स्तूपि वृत्तं वा चतुरश्रकम् ।
पद्मादिकुङ्गुलाम्तं स्यादुक्तवद्द्वाकृति(ति) न्यसेत् ॥ ५१ ॥
सपादरात्निमारभ्य षडङ्गुलिविवर्धनात् ।
चतुर्हस्तावसानं स्यात्प्रत्येकं तु चतुर्विधम् ॥ ५२ ॥
कन्यसादुत्तमान्त(न्तं) स्यादेकाद्यर्कतक्षान्तकम् ।
एतेषां स्तूपिकोत्तुङ्गमथजाती(ति) वशो(शादु) च्यते ॥ ५३ ॥
शूद्राणां चैकहस्तं स्याद्द्विहस्तं वैश्यजाति(ती)नाम् ।
सार्धद्विहस्तमानेन युवराजस्य योग्यकम् ॥ ५४ ॥

v3.c24.s18.16

त्रिहस्तं भूपतीनां च सार्धत्रि[हस्तं] तु भूसुर[णा]म् । वैव(वि)शानां चतुर्हस्तं स्तुपितुङ्गं प्रकल्पयेत् ॥ ५५ ॥ षोडशैकांशकं कृत्वा पालिकाकुड्मलं कृतम् (लान्तकम्) । सार्धांशं पालिकोच्छ्र्यं स्यादर्धांशं वाजनं भवेत् ॥ ५६ ॥ पद्मतुङ्गं त्रिभागं च कन्धरं चैकभागिकम् । अर्धेन कम्पपद्मं स्यात्कुम्भतुङ्गं द्वयंशकम् ॥ ५७ ॥ ऊर्ध्वं च सार्धभागेन दलं (दलिकं) पद्मं प्रकल्पयेत् । तदूर्ध्वं च त्रिभागेन तद्दण्डोदयमीरितम् ॥ ५८ ॥ अर्धांशं कम्पपद्मं स्याद्वाजनं चोभ(चार्ध)भागिकम् । तदूर्ध्वे कम्पपद्मं च सार्धभागेन योजयेत् ॥ ५९ ॥ द्विभागं कुड्मलोत्तुङ्गं दण्डतुङ्गस्य मध्यमे । यथालङ्कारयुक्तं चेत्पद्मकेसरमावृतम् ॥ ६० ॥ अथवा स्तूपिकोत्तुङ्गं दण्डमानेन कारयेत् । पालिकोत्तुङ्ग(ङ्गं) दण्डेन पद्मतुङ्गं त्रिदण्डकम् ॥ ६१ ॥ कन्धरं चैकदण्डं स्यात्कुम्भोच्छ्रा(च्यम)र्धद्विदण्डकम् । एकदण्डो(ण्डमू)र्ध्वपद्मं स्याद्द्विदण्डं कुड्मलोदयम् ॥ ६२ ॥ शेषं तन्मध्यदण्डं स्यात्पूर्ववत्समलङ्कृतम् । शिर(रस्) तारे(रं) तु भूतांशं व्यंशं पालिकायतम् ॥ ६३ ॥ तद्विशाले तु भूतांशं सार्धवेदांश(शं) विस्तृतम् । अब्जतारे त्रिभागैकं(गं च) वन्हिभागैकभागिकम् ॥ ६४ ॥ पद्मस्योपरि कण्ठं स्यात्तन्त्रिधा कुम्भविस्तृतम् । कुम्भतारं नवांशैकं(शं च) भाग(गं) दण्डविशालकम् ॥ ६५ ॥ दण्डतारं त्रिधा पालिका तत्र(था) भागैक(कं) कुड्मलम् । महाब्जा(ब्जम)ष्टदलं कुर्याच्छ्लेषं युक्त्या प्रयोजयेत् ॥ ६६ ॥ तदूर्ध्वे (द्वयं) विवृतं चाधस्तदर्धा(र्धमा)धारपट्टिका । तदर्धं च तथा पट्टं स्यात्तदूद्वयं पद्मं तस्याध(धः) ॥ ६७ ॥ शेषं तु कुड्मलं कुर्याद्विस्तारं युक्तितो न्यसेत् । शिला(लां) वा चेष्टकं दारु लोहं चैव प्रकल्पयेत् ॥ ६८ ॥

v3.c24.s18.17

शुद्धं मिश्रं च संकीर्णं विमाने त्रिविधं भवेत् ।
एकद्रव्यं तु शुद्धं स्याद्विद्रव्यं मिश्रहर्म्यकम् ॥ ६९ ॥
त्रिद्रव्यं हर्म्य(म्यँ) संकीर्णं शिलांचे(ले)ष्टकदारुणा(णा)म् ।
एकद्रव्येण युक्तं च कुर्याच्छिल्पि(ल्प)वित्तमः ॥ ७० ॥

v3.c24.s18.18

स्तूपिकीलम्

v3.c24.s18.19

स्तूपिकीलायतं तारं लक्षणं वक्ष्यतेऽधुना ।
ऊर्ध्वभूम्या सपादार्धं तस्यायामं(मं) समं तु वा ॥ ७१ ॥
गलोच्चाव्यर्थतुङ्गं वा स्तूपिकीलायतं तथा ।
तद्विष्कम्भसम(मं) व्यासं स्तूपिकीलस्य मूलके ॥ ७२ ॥
अथवाङ्गुलमानेन कीलमूलविशालकम् ।
त्रिचतुर्विंशाङ्गुलं लोहे दारुकीलं तु(वा) पूर्ववत् ॥ ७३ ॥
कीलायामं त्रिभागैकं मूले वेदाश्रमीरितम् ।
मध्ये चाष्टाश्रसंयुक्तं चाग्र(ग्रे) वृत्ताकृतिस्तथा ॥ ७४ ॥
एकाङ्गुलाग्रविस्तारं मूलाग्रान्तं चयं(य)क्रमात् ।
अथवा शिखराकारं कीलं मच्याकृतिस्तथा ॥ ७५ ॥
स्तूपिकीलविधृत्वा(वृतिः)त्रिगुणा स्यात्
बहिश्शरखादैर्घ्यमुक्तम् ।
कीलाधारविस्तृतार्ध(र्धं) तद्धनं
तत्कीलमूलमथ तत्र योज्यम् ॥ ७६ ॥
ताम्रजं चायसं दारु[जे] लभेत कीलं प्रकल्पयेत् ।
खदिरं खादिरं चैव तिन्त्रिणी सारमेव च ॥ ७७ ॥
उक्तवदारु संगृह्य स्थपतिः स्थापकैः सह ।
तत्काले ज्ञापयेद्विद्वान् स्तूपिकीलस्य वक्रकम् ॥ ७८ ॥
ऋज्वङ्गं च न भिन्नानि (नं च) तस्यानन्तरकेण तु ।
स्तूपिकीलमिदं प्रोक्तं तदूर्ध्वष्टफलचयम् ॥ ७९ ॥
माने प्रागुक्तवत्कुर्यात्पुंग्री चेष्टकां विदुः ।
मूलाग्रं च समतारं तु चेष्टका(कं) पुरुष(पं) स्तृतम् ॥ ८० ॥

v3.c24.s18.20

आनुपूर्व्या कृशं तारं वनिता चेष्टका तथा ।
शिलाहर्म्ये शिलायुक्तं चेष्टकं चेष्टका तथा ॥ ८१ ॥ 164
पुंविमानान्न(ने च) पुरुषं वनिता[यां] वनितां क्षिपेत् ।
शिलासंग्रहकाले तु ज्ञापयेत्सुधियं तथा ॥ ८२ ॥
एषा मूर्धेष्टका प्रोक्ता लुपालक्षणमुच्यते ।

v3.c24.s18.21

लुपालक्षणम्

v3.c24.s18.22

स्तूपितुङ्गतदर्धं वाथ विमाने च (नस्य) वंशो(शादु)दयम् ॥ ८३ ॥ 168
एवन्तु शिखरोत्तुङ्गे तदर्धं गळतुङ्गकम् ।
लुपारूपं शिखरं स्याद्ग्रीवान्तं तलवासनम् ॥ ८४ ॥
उत्तरादिसृगालान्तं प्रस्तरस्योक्तवद्गले(लम्) ।
तदूर्ध्वे दण्डकं कुर्याल्लुपमानमिहोच्यते ॥ ८५ ॥ 172
देवानां मानुषाणां च लुपमानं यथाक्रमम् ।
अम्बरं च व्ययं(वियज्)ज्योतिर्गगनं च विहायसि(यसम्) ॥ ८६ ॥
अनन्तं चान्तरीक्षं च पुष्कलं चाष्टधालुपाः ।
देवानां हर्म्यके कुर्यादुक्तमेवं पुरातनैः ॥ ८७ ॥ 176
मही स्या काश्यपी चौर्वी चोर्वी गोत्रा वसुंधरा ।
वसुधा चाष्टधा प्रोक्ता कारयेन्मानुपालये ॥ ८८ ॥
सर्वेषां देवतायोग्यं नराणां चोक्तयोग्यकम् ।
सुराणामुक्तमाने यन्मर्त्येस्तन्नेष्य(ष्यं) यत्नतः ॥ ८९ ॥ 180
शिखरोदयतत्पुल्यं विस्तारोन्नतसम्भवम् ।
अष्टांशं चैकहीनं तु विस्तारोन्नतो(तं) वियत् ॥ ९० ॥
सप्तभागैकहीने तु विस्तृतं ज्योतिर्मानतः ।
षट्(ड्)भागैकहीनं तु विस्तारं गगनस्य(ने च) स्मृतम् ॥ ९१ ॥ 184
पञ्चभागैकहीनं तु विस्तारं तद्विहायसि ।
चतुर्भागैकहीनं तु चानन्ते तद्विशालकम् ॥ ९२ ॥
उत्तुङ्गं त्रित्रिभागैकहीने तारा(रमा)न्तरिक्षकम् ।
तुङ्गे ऽशैकहीनं स्याद्वा(द्वन्या)सं पुष्कलमीरितम् ॥ ९३ ॥ 188

v3.c24.s18.23

तुङ्गद्वयान्तं यत्कर्ण माने हस्तायतं तथा ।
अथवा शिखरोत्तुङ्गमष्टभाग(गे) विभाजिते ॥ ९४ ॥
एकांशाधिकविस्तारमुक्तमेतन्मही बुधैः ।
तुङ्गे सप्ताङ्ग(ङ्गे) चाष्टागाद्यं ज्या चेति स्मृतम् ॥ ९५ ॥
तुङ्गे षड्भागविस्तारे सप्तांशं काश्यपी तथा ।
तुङ्गे पञ्चांश(शे) षड्भागं व्यास(सं) चौश्चिरिति स्मृतम् ॥ ९६ ॥
तुङ्गे वेदांशकं व्यासं पञ्चांशं चोर्वो कथ्यते ।
तुङ्गे गुणांश(शे) वेदांशं विस्तारं गोत्रमीरितम् ॥ ९७ ॥
तुङ्गे द्वयंशं च विस्तारं व्यंशमेव वसुंधरा ।
तुङ्गमेकांशकं व्यासं द्विभागं वसुधा भवेत् ॥ ९८ ॥
पूर्ववत्कर्णमानेन(ने च) वृत्तदीर्घमुदीरितम् ।
शिखरे चावृते पारे सभामण्डपगोपुरे ॥ ९९ ॥
शाला च(यां) नासिकाभद्रे कूटनीडैस्तु (दे तु) तोरणैः(यै) ।
कपोतो (ते) पञ्जरं (रे) चैव मुष्टिबन्धादि(दो) सर्वशः ॥ १०० ॥
इस्तिहस्तादिमानानां मानयेच्छिल्पि(ल्प)वित्तमः ।
एतत्तु मध्यदेशे तु तस्मात्कर्णावसानकम् ॥ १०१ ॥
क्रमात्सोपानवत्कुर्यात्तन्मानं वक्ष्यतेऽधुना ।
मध्यकर्णद्वयोर्मध्ये विकल्पं कल्पयेत्सुधीः ॥ १०२ ॥
एकद्वित्रिचतुष्पञ्चषट्सप्ताष्टकरन्त्रिकम् ।
दशमेकादशं चैव द्वादशं च लुपान्वितम् ॥ १०३ ॥
केचित्त्वेकेन वृद्ध्या तु एक(त्रिक)पञ्चलुपान्तकम् ।
यत्सोपानक्रमं कुर्यादतच्छाया(च्छन्द)लुपादिकम् ॥ १०४ ॥
देवानां चक्रवर्ती (र्ति) नां विकल्प (ल्पं) योग्य (युग्मं) सावरः (रम्) ।
तस्माद्द्विद्वान लुपेनै(पयै)व होने शूद्रतः क्रमात् ॥ १०५ ॥
मुख्यं हर्म्यमिदं कुर्यात्क्षुद्रहर्म्यं विशेषतः ।
एकादशविकल्पान्तं भूसुराणां तु योग्यकम् ॥ १०६ ॥
नवान्तं भूपतीनां चैकाद्विकल्पमीरितम् ।
एकाद्यष्टविकल्पान्तं युवराजस्य योग्यकम् ॥ १०७॥

v3.c24.s18.24

एका(कस्मा)त्सप्तविकल्पान्तं वैश्यानां च प्रकीर्तितम् ।
एका(कस्मा)त्पञ्चविकल्पान्तं शूद्राणां तु योग्यकम् ॥ १०८ ॥
अन्यदि(न्ये)तरजातीनां [च] विकल्पत्रय(यं) पूर्ववत् ।
एवमुक्तं लुपाश्रेणीं कुर्यात्तु शिल्पि(ल्प)वित्तमः ॥ १०६ ॥
मध्ये लुपायतं मानं कर्णविस्तारमिष्यते ।
मध्यादि चान्यथा सर्वं विकल्पं तद्विभाजितम् ॥ ११० ॥
तत्तत्कर्णस्य मानेन विशालं स्यात्सुर्वैवत ।
तत्तत्कर्णस्य मानेन लुपादीर्घं (दैर्घ्यं) मुदीरितम् ॥ १११ ॥
तत्समं वा सपाढं वा सार्धार्धिकमेव वा ।
दीर्घत्वमालम्बने लब्ध्व विस्तारस्य तु (च) निर्गमम् ॥ ११२ ॥
तस्य माने यथाभागं युक्ता तत्रैव योजयेत् ।
त्रिचतुष्पञ्चषण्मात्रं लुपामूलविशालकम् ॥ ११३ ॥
समं वाथ त्रिपादं वा चार्धं (र्ध) वालम्बनान्तकम् ।
एकद्वित्र्यङ्गुलं वापि घने सङ्गेसमतम् ॥ ११४ ॥
अन्यत्सर्वाङ्गविस्तारं यथायुक्तिवशान्न्यसेत् ।
एकद्वित्र्यवसानान्तं स्तम्भस्योपरि विन्यसेत् ॥ ११५ ॥
लुपां (पायाः) प्रागुक्तविस्तारं तत्तद्देशाशुकान्वकम् ।
अधः पादस्य लुपाद्यैश्च तत्र दोषो न विद्यते ॥ ११६ ॥
कर्णात्कन्था(र्णा)वसानं स्याल्लम्बसूत्रं प्रसारयेत् ।
तत्सूत्रादधोदेशे कुत्ति ज्ञात्वा पुरोर्ध्वं (वोर्ध्वे) के ॥ ११७॥
लुपाकुक्षिप्रदेशे तु चत्वा (तुः) सूत्रावसानकम् ।
अर्धचन्द्रप्रदाकारं युक्ता चन्द्रं यशैष्टकम् ॥ ११८ ॥
मूलादियाम (ज) नान्तं स्याच्छिद्रमेकं द्वयं तु वा ।
चन्द्रान्ते चोपरं युक्तं छिद्रं सूत्रादधो न्यसेत् ॥ ११९॥
तच्छिद्रे वेत्रसंयुक्तं लुपाधारात्तु [शिल्प] वित्तमः ।
श्रेण्यां मध्यलुपाः सर्वे(र्वा) लुपासंस्रुया यथेष्टका ॥ १२० ॥

v3.c24.s18.25

करवीरबहुलवर्त्या (यीं) संपुटाभं विकल्पयेत् ।
एककुङ्गुलयुग्येन (योगे)न कार्यार्था(यीवेश)च लुपान्वितम् ॥ १२१ ॥
अग्रं विकसितारभं स्यान्मूलं च निबिडा (ड़ा) न्वितम् ।
कर्णे चैकलुपा पार्श्वे लुपायुग्म (लं) योजयेत् ॥ १२२ ॥
हस्वदीर्घायतः (तं) सर्वं नालिकेरदलान्वितम् ।
बहुबाहुल्यपाकणेंषु बहुकुङ्गल (लं) योजयेत् ॥ १२३ ॥
एवं च लक्षणं प्रोक्तं कटकाकारं तु योजयेत् ।
दण्डिकोर्ध्वं वाजनं स्याल्लुपान्तस्योपरि न्यसेत् ॥ १२४ ॥
क्षेपयोगे (णं च) रू(झ) प्राकारं वामावामं तु योजयेत् ।
एतनु ममला(मामकं) वृत्तं देवानां हर्म्यकं न्यसेत् ॥ १२५ ॥
वृत्तं वाथ षडश्रं वा अ(चा) ष्टाश्रं वा तदायते (तम्) ।
कुर्यात्तत्तल्लुपामानं पूर्ववत्परिकल्पयेत् ॥ १२६ ॥
अहमेतं चैकपञ्चाशं लुपा सङ्ख्याक्रमम् ।
तस्मा [द्] द्विलक्षहीनेन (संख्यायोगेन) सत्रि चत्वारिकान्तकम् ॥ १२७ ॥
देवानां मानुषाणां च शुद्धजात्यावसानकम् ।
मध्यकर्णालुपान्येतत्सर्वं सोपानवत्कुरु ॥ १२८ ॥
शङ्खतुण्डवदाकारं शङ्खावर्तविकल्पकम् ।
प्रागुक्तदक्षिणावर्तं कुर्यात्सु बहुवाजनम् ॥ १२९ ॥
शङ्खावर्तमिदं प्रोक्तं देवहर्म्ये तु योजयेत् ।
सर्वेषां (वीसां) च लुपानां च ऋजुवक्रं तु वा पुनः ॥ १३० ॥
बहुचित्रं बहुच्छिद्रं बहुवेत्रं यथाबलम् ।
यथाशोभं तथा कुर्याल्लेप युत्त्वा प्रयोजयेत् ॥ १३१ ॥
एवमुक्तं लुपा चोर्ध्वं शिखरे वाम्बरेऽपि वा ।
फलकाचोपर्य वापि ताम्रं (म्रेण) वायसा कीलयेत् ॥ १३२ ॥
हेमजेन करोटी (टीं) वा मृत्यरोटी (टीं) विधातयेत् ।
गुडोदकसुधायुक्तं युक्त्वा च लेपयेत्सुधीः ॥ १३३ ॥

v3.c24.s18.26

अन्तर्वापि बहिर्वापि चोर्ध्वं च प्रविसंयुक्त[म्] ।
प्रस्तरस्योक्तवत्कुर्यादुपपीठमि(स्ये)ति स्त(रु)धा ॥ १३४ ॥

v3.c24.s18.27

कुर्यात्तु लुप(पा)मूले(लं) तु यत्तद्वलार्थ(र्थं) शोभितम् ।
उक्तादनुक्तमाने चेद्विपत्ती(त्त्य)हितमावहेत् ॥ १३५ ॥

v3.c24.s18.28

तस्माद्दा(त्तु) चोक्तवत्सर्वं कुर्यात्तु संपदास्पदम् ।
कम्पवृत्तं च लुपामूले शोभार्थं तु बलार्थकम् ॥ १३६ ॥

v3.c24.s18.29

(मुखभद्रम्)

v3.c24.s18.30

सर्वेषां मुखभद्रं स्याल्लक्षणं वक्ष्यतेऽधुना ।
शिखरालम्बनं चादौ तत्पालिकावसानकम् ॥ १३७ ॥

v3.c24.s18.31

अथवा प्रस्तरोर्ध्वादौ चोत्तरावनि(नी)तं तदा ।
मुखभद्रोदयमेवं चोक्तवद्विस्तृतं भवेत् ॥ १३८ ॥

v3.c24.s18.32

सप्तदशांशकं तुङ्गे द्विभागं प्रस्तरोदयम् ।
एकांशं वेदिकोत्तुङ्गं गलतुङ्गं गुणांशकम् ॥ १३९ ॥

v3.c24.s18.33

तद्द्वयं तलतुङ्गं स्यात्तस्मादूर्ध्वं शिखान्तकम् ।
वेदांशं वह्निलक्षांशेन गल(ला) वक्रं गुणांशकम् ॥ १४० ॥

v3.c24.s18.34

शेषं तु मौलिकान्तं च पञ्चदशांशमेव च ।
प्रस्तरस्य कुर्यादन्यच्छ्रेषं प्रागुक्तवन्नयेत् ॥ १४१ ॥

v3.c24.s18.35

नासिकं लम्बनं चैकं लम्बनं तद्द्वयं तु वा ।
पञ्चाशद्द्वि(द्ध्यं)शतारं स्यात्तदधं कुक्षिविस्तृतम् ॥ १४२ ॥

v3.c24.s18.36

कुक्ष्यन्तस्(न्तः) सद्यसंयुक्तं वातायनमथापि वा ।
गवाक्षाकारपत्रं वा पट्टिकास्पदपत्रयुत् ॥ १४३ ॥

v3.c24.s18.37

अथवा चित्रसंयुक्तं सर्वालङ्कारसंयुतम् ।
नासिकापृष्ठबाह्ये तु गवाक्षाकारं तु पत्रयुक्तू ॥ १४४ ॥

v3.c24.s18.38

तस्मादन्तर्गता(वै)श्रादिदेवभूतादिरूपकैः ।
व्यालसिंहोदहंसाद्यैर्भुक्तवल्यादिभूषितम् ॥ १४५ ॥

v3.c24.s18.39

तदूर्ध्वे कीर्तिवक्त्रं तु निर्गमाकृति भावयेत् ।
तच्छ्रोड(ड)लम्बने(न)पार्श्वे तद्रूखस्तम्भपार्श्वयोः ।। १४६ ।।

v3.c24.s18.40

विद्याधरादिसंयुक्तं प्र(प्रा)हप(चि)त्रैर्विभूषितम् ।
दीर्घनेत्र(त्रं) विशालं स्याद्वृत्त(त्तं) गण्डस्थलं तथा ।। १४७ ।।

v3.c24.s18.41

गजश्रोत्राकृति श्रोत्रं गण्डं चा(न्ते) तरङ्गवत् ।
आस्याग्रे तद्विद्वन्द्वं स्याद्वेदपार्श्वं मृगाङ्घ्रिवत् ।। १४८ ।।

v3.c24.s18.42

नेत्राधो वशगादूर्ध्वं चोर्ध्वमेवं त्रिवक्त्रकम् ।
अब्जमस्राननाकारं क्षुद्रदन्ते च जिह्वयुक् ।। १४९ ।।

v3.c24.s18.43

वक्त्रपार्श्वादि(पुच्छादि)सर्वाङ्गं पत्रवल्यादिभूषितम् ।
माने युक्त्या प्रकुर्वीत प्राहमेवमुदीरितम् ।। १५० ।।

v3.c24.s18.44

कीर्तिवक्त्रं हरिवं(व)क्तं चोक्तवत्कारयेत्सुधीः ।
कर्णमूले कपोलाग्रे स्तूपिके शृङ्गदेशके ।। १५१ ।।

v3.c24.s18.45

वक्त्रयुक्तनेत्रयोर्मध्याच्छिखि(खा)मूलं तु विन्यसेत् ।
मन्दस्मिताननाकारं सर्वं दृष्टा(ष्टा)कृतिं दृशि ।। १५२ ।।

v3.c24.s18.46

वराहश्रोत्रवत्कर्णी शृङ्गी मेषस्य शृङ्गवत् ।
दन्तैक(कं) करालदन्तामाद(भं) दंष्ट्राद्वय तदन्तयुग् ।। १५३ ।।

v3.c24.s18.47

पार्श्वके सम्मृ(स्मि)ते गण्डे स(चा)प्रयोर्जुनुगायतम् ।
वेगादूर्ध्वं च कुर्यात्तु ङ(घो)णदृष्टिं पुटोज्ज्वलम् ।। १५४ ।।

v3.c24.s18.48

श्यामवर्षा मुखं सर्वं किवरोमकराननम् ।
दन्तौष्ठ(ष्ठं) धवलवर्णा स्याद्वास्यंचे(दास्यमीच)श्रोत्रमन्त्र(द्वय)युक् ।। १५५ ।।

v3.c24.s18.49

मकरस्य तु निष्क्रम्य भुजपुच्छादि सर्वशः ।
प्राप्तश्यामा(श्याना)कृतिव्यालैः स्तूपिष्टङ्कयुतो(तमु)क्तवत् ।। १५६ ।।

v3.c24.s18.50

ग्रीवे च लम्बकेशं स्याच्चतुर्ध्या दीर्घपुच्छकम् ।
श्यामवर्णेनिभं सर्वं हंससिंहो(हौ चो)क्तवत कुरु ।। १५७ ।।

v3.c24.s18.51

गजमश्रादिसर्वेषां(र्वाण) शिल्पियुं(ल्पो यु)क्त्या प्रयोजयेत् ।
देवभूतादिरूपैस्तु यक्षविद्याधर(रै)स्तथा ।। १५८ ।।

v3.c24.s18.52

उक्तवत्कारयेद्देवीं भूपतीनां च हर्म्यके ।
अन्येषां चालयं(ये) सर्वे(र्वस्मिन्) देवैर्भूतैर्विना न्यसेत् ॥ १५९ ॥

v3.c24.s18.53

सरखला[शू] च लक्ष्म्या[श्] च सर्वहर्म्येषु कारयेत् ।
प्रासादे मण्डपे सर्वे गोपुरे द्वारके तथा ॥ १६० ॥

v3.c24.s18.54

देवानां भूसुरादीनां वर्णानां सर्वहर्म्यकं ।
कुर्यात्सन्मुखभद्रं स्यात्सर्वालङ्कारसंयुतम् ॥ १६१ ॥

v3.c24.s18.55

नीडस्य चाधो ग्रीवा(वं) वातायनं कारयेद्बुधः ।
मध्ये च द्वारसंयुक्तं वातायनं कवाटयुक् ॥ १६२ ॥

v3.c24.s18.56

प्रधानोर्ध्वतले वापि शिखरे वाथ कल्पयेत् ।
मध्ये तु चामके वापि चान्तरालैरलङ्कृतम् ॥ १६३ ॥

v3.c24.s18.57

लुपाकारादि जडानां मानयेन्मानवित्तमः ।
अश्मराद्यष्टधामानि नीडानां लुप(पं) मानयेत् ॥ १६४ ॥

v3.c24.s18.58

विना कर्ण(णं) लुपायुक्तं युक्त्या संख्याभजा(थ) लुपा ।
यत्र हर्म्येषु संकल्य तत्र दोषो न विद्यते ॥ १६५ ॥

v3.c24.s18.59

शालाकृ(कू)टे च नीडे च शिखरे चोर्ध्वकूटके ।
लुपायुक्तभ्रमाकारं तत्तदुभ्द्यीपदेशी(श)कं ॥ १६६ ॥

v3.c24.s18.60

स्थूलवस्तु(स्तौ) तदर्धार्थं स्तूपिकावाहने भवेत् ॥ १६७ ॥

v3.c24.s18.61

विशो(श)र्त्सीकं तैन(वि)ज्ञानां सर्वेषां
भूपालानां वैश्यकानां परेषाम् ।
सैकाफा(को)न्तं युग्मयुक्तं त्यजेत्
तद्धर्म्योर्ध्वके कल्पकं वद्विकल्पकम् ॥ १६८ ॥

v3.c24.s18.62

(स्तूपिकीळम्.)

v3.c24.s18.63

स्तूपिकीळप्रतिष्ठा(ष्ठां) च ह्यद्यं(विधिना) वक्ष्यतेऽधुना ।
प्रासादाभिमुखो(खे) वापि चोत्तरे चैशकं वापि ॥ १६९ ॥

v3.c24.s18.64

यागमण्डप(पं) संकल्प्य चोक्तवल्लक्षणान्वितम् ।
भङ्कुरापंश्चमादौ च कारयेदधिवासनम् ॥ १७० ॥

v3.c24.s18.65

मण्डपे स्थण्डिलं कृत्वा शालिभिश्च स्थलं न्यसेत् ।
पञ्चविंशत्पदं न्यस्य शुद्धतण्डुलरेखया ॥ १७१ ॥ 344
दर्भैरास्तीर्य तत्पश्चात्पादप्रक्षालनं कुरु ।
ततश्चाचमनं कुर्यात्सकलीकरणं कुरु ॥ १७२ ॥
पुण्याहं वाचयित्वा तु स्थपतिर्ब्राह्मणैः सह ।
ब्रह्मादिदेवतानां च गन्धपुष्पादिधूपकैः ॥ १७३ ॥ 348
स्तूपिकीलं समुद्धृत्य स्थण्डिलोपरि विन्यसेत् ।
कीलस्य परितो देशे निक्षिपेच्चतुरिष्टका (काम् ) ॥ १७४ ॥
तद्बहिः परितः शुद्धतोयपूर्णान्वटान्न्यसेत् ।
ईशस्वान्तः प्रदेशे तु मूलकुम्भं विनिक्षिपेत् ॥ १७५ ॥ 352
ससूत्राङ्ग(ङ्गाम्) सवस्त्रं(स्त्राम्) च सकूर्चान् रुद्रपल्लवान् ।
सविधानफलं (ल) युक्तं (क्तान्) परितोऽष्टघटान्न्धसेत् ॥ १७६ ॥
कीलस्य पूर्वदिग्देशे रत्नलोहेश(शं) च निक्षिपेत् ।
नववस्त्रे [ण] सकूर्चं च आ(चा)च्छाद्य रत्नपात्रकम् ॥ १७७ ॥ 356
स्तूपिकीलं च संछाद्य नववस्त्रेण कूर्चकम् ।
आराध्य मूलकुम्भे तु भुवनाधिपतिं जपेत् ॥ १७८ ॥
गन्धपुष्पैः समभ्यर्च्य नैवेद्यानि निवेदयेत् ।
धूपदीपं दशे(द्या)त्पश्चान्नृत्तगीतादिघोषकैः ॥ १७९ ॥ 360
इन्द्रादि चाष्टकुम्भानामष्टशक्तीः प्रपूजयेत् ।
प्रणवादि नमोऽन्तेन तत्तन्नाम्ना प्रपूजयेत् ॥ १८० ॥
स्तूपिकीलं समभ्यर्च्य गन्धपुष्पैश्च धूपकैः ।
कुण्डे वा स्थण्डिले वापि होमं कुर्यात्तदमके ॥ १८१ ॥ 364
समिदा (धादि) चरुं (रुं) लाजान्प्रत्येकं पञ्चविंशति (तिः) ।
हुत्वेस्वाबीजमुच्चार्य प्रणवादिनमोऽन्त कम् ॥ १८२ ॥
व्याहृत्या (त्य) न्ते ततः शिल्पी स्थण्डिले प्रान्तमाश्रयेत् ।
यद्यद्देवालये कीलं ज्ञात्वा तत्पररूपकम् ॥ १८३ ॥ 368

v3.c24.s18.66

तत्तन्मन्त्रं समुच्चार्य चार्चयेत्स्तूपिकीलकम् ।
तत्तद्देवासनं ध्यात्वा चतुर्मूर्ध्वै(धै)एकान् सुधीः ॥ १८४ ॥

v3.c24.s18.67

नववस्त्रेण गोप्या(प्ला)ङ्गुमिष्टकैरत्तरं लिखेत् ।
प्रागाद्य सह[क] कारादि(दीन) शम्भोश्च रेखयेत् ॥ १८५ ॥

v3.c24.s18.68

स्तूपिकीलं(ल)चतुर्दिक्षु सूत्रं प्रागादि लेखयेत् ।
श्रीवत्साकारमग्ने तु वज्रं शूल्वा लिखेद्बुधः ॥ १८६ ॥

v3.c24.s18.69

स्वस्तिवाचक(न)घोषेण जयशब्दादिमङ्गलैः ।
गैरिलं वै मधुक्षोरं स्वर्णतूलिकया लिखेत् ॥ १८७ ॥

v3.c24.s18.70

वस्त्रमा(विसृज्या)च्छादनं तत्र वत्सगोकन्यकैः सह ।
मधुसर्पिर्धान्यराशिं दर्शयेच्छिल्पि(ल्प)वित्तमः ॥ १८८ ॥

v3.c24.s18.71

आराध्य गन्धपुष्पैश्च सर्वमङ्गलघोषणीः ।
नानावस्त्रेण संवेष्ट्य पुष्पमाल्यैरलंङ्कृतम् ॥ १८९ ॥

v3.c24.s18.72

लम्बकूर्चं समभ्यर्च्य प्रामादीनां प्रदक्षिणम् ।
स्तूपिकीलं समादाय आ(चा)रोह विमानकम् ॥ १९० ॥

v3.c24.s18.73

पालिकोपरि तत्प्रान्ते नासिकोपरि प्रान्ते च ।
रत्नगर्तं तु संक्लप्य कीलं प्राग्दर्शनं न्यसेत् ॥ १९१ ॥

v3.c24.s18.74

नवरत्नानि(नैश्च) लोहँश्च तत्तन्मन्त्रेण चार्चयेत् ।
त्रित्रिकोष्ठे तु तद्गर्भ तन्मध्ये स्वर्णं विनिक्षिपेत् ॥ १९२ ॥

v3.c24.s18.75

इन्द्रे ताम्रं विनिक्षिप्य याम्ये निक्षिप्य चायसम् ।
पश्चिमेऽत्र प्रविप्रवालं न्यस्य चोत्तरे रजतं क्षिपेत् ॥ १९३ ॥

v3.c24.s18.76

मध्ये तु पद्मरागं तु वज्रं चैवेन्द्रकोष्ठके ।
विद्रुमं चाग्निकोष्ठे तु याम्ये नीलं तु विन्यसेत् ॥ १९४ ॥

v3.c24.s18.77

नैर्ऋत्ये पुष्परागं तु प्रत्यक्मरकतं(कतं) क्षिपेत् ।
गोमेदकं न्यसेद्वायौ सौम्ये मौक्तिक(कं) विन्यसेत् ॥ १९५ ॥

v3.c24.s18.78

ईशे स्फाटिक(कं) निक्षिप्य तत्तद्देवान्स्वनामतः ।
प्रणवादि नमोऽन्तेन चोद्धरन् रत्नं विन्यसेत् ॥ १९६ ॥

v3.c24.s18.79

स्थपतिर्वरवेषाढ्यः प्राप्तपञ्चाङ्गभूषणः ।
सुमुहूर्ते सुलग्ने च जयशब्दादिमङ्गलैः ॥ १६७ ॥
ब्राह्माणैश्च यथाशक्त्या(क्ति) वाचयेत्स्वस्तिवाचनम् ।
स्तूपिकीलं समुद्धृत्य स्थपतिः स्थापकैः सह ॥ १६८ ॥
एतद्गर्तोपरि स्थाप्य मूलमन्त्रं समुच्चरन् ।
स्तूपकीलस्य परितः स्थापयेच्चतुरिष्टकम् ॥ १६६ ॥
पूर्वादि(दै) च शकारादीशन्यावर्त (नीशानान्तं) क्रमान्न्यसेत् ।
प्राक् मूलकुम्भमुद्धृत्य चालयद्भिः (यन्) प्रदक्षिणम् ॥ २०० ॥
स्थपतिः स्तूपिमूर्ध्वाग्रे तज्जलेनाभिषेचयेत् ।
इन्द्रादिकुम्भतोयेन पूजयेच्चतुरिष्टकान् ॥ २०१ ॥
शुद्धतोयेन संपूर्थ्य गन्धपुष्पैः समर्पयेत् ।
पूर्ववत्समलङ्कृत्य नैवेद्यादि (दीन्) निवेदयेत् ॥ २०२ ॥
षोडशोपचारांश्च कुर्याद्गन्धाक्षतैः सह ।
स्तूपिहर्म्ये मूर्ध्नि[न]स्तु ईसपादः स्थितो भवेत् ॥ २०३ ॥
नमस्ते कर्तृराज्यादि ग्रामं रक्षतु सर्वदा ।
सुधागुलोदकं (कैः) चापि इ(चे)ष्टकैर्वहुभिस्ततः ॥ २०४ ॥
स्तूपिकीलं दृढीकृल पश्चात्प्रागुक्तवत्कुरु ।
ब्रह्माविष्णुमहेश्वरस्य (राणां) स्तूपिप्रतिष्ठां कुरु ॥ २०५ ॥
कुर्वन्तद्यजमानगृहे नृपालये भुक्ति मुक्तिमावहेत ।
यस्मादकुर्वन्ननारद (नारी) नरनृपतयोः कर्ता (र्तु)श्च पीडा भवेत् ॥ २०६ ॥
तस्मात्सर्वसुखप्रदं नृपगृहे कुर्यात्स (ब) देवालयं ।
विप्रवाइनयुतं च सद्गुरुं शिल्पिनान्दि (कादि) गजवाजनस (जिनं) तथा ॥ २०७ ॥
नृत्तगीत(तं) सह सर्वघोषयैः सेवितानि स्वगृहं प्रवेशयेत् ॥ २०८ ॥

v3.c24.s18.80

इति मानमारे वास्तुशास्त्रे विमानविधानं नाम अष्टादशोऽध्यायः।

Linked texts (11)